header_image
Home
Tamil

अष्टमः स्कन्धः ~:०:~ अथ दशमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ दशमोऽध्यायः
देवासुरसंग्रामस्तत्र दैत्यमायानिर्माणं हरेः प्राकट्यं मायानिरासश्च
श्रीशुक उवाच इति दानवदैतेया नाविन्दन्नमृतं नृप। युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः॥ 1 साधयित्वामृतं राजन्पाययित्वा स्वकान्सुरान्। पश्यतां सर्वभूतानां ययौ गरुडवाहनः॥ 2 सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः। अमृष्यमाणा उत्पेतुर्देवान्प्रत्युद्यतायुधाः॥ 3 ततः सुरगणाः सर्वे सुधया पीतयैधिताः। प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः॥ 4 तत्र दैवासुरो नाम रणः परमदारुणः। रोधस्युदन्वतो राजंस्तुमुलो रोमहर्षणः॥ 5 तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे। समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः॥ 6 शङ्खतूर्यमृदङ्गानां भेरीडमरिणां महान्। हस्त्यश्वरथपत्तीनां नदतां निस्वनोऽभवत्॥ 7 रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः। हया हयैरिभाश्चेभैः समसज्जन्त संयुगे॥ 8 उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः। केचिद् गौरमृगैर्ऋक्षैर्द्वीपिभिर्हरिभिर्भटाः॥ 9 गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः। शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः॥ 10 शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः। बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः॥ 11 अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः। सेनयोरुभयो राजन्विविशुस्तेऽग्रतोऽग्रतः॥ 12 चित्रध्वजपटै राजन्नातपत्रैः सितामलैः। महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः॥ 13 वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः। स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः॥ 14 देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन। रेजतुर्वीरमालाभिर्यादसामिव सागरौ॥ 15 वैरोचनो बलिः सङ्ख्ये सोऽसुराणां चमूपतिः। यानं वैहायसं नाम कामगं मयनिर्मितम्॥ 16 सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो। अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम्॥ 17 आस्थितस्तद् विमानाग्र्यं सर्वानीकाधिपैर्वृतः। वालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये॥ 18 तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुराः। नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः॥ 19 द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वलः। शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः॥ 20 हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः। तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः॥ 21 अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः। अन्ये पौलोमकालेया निवातकवचादयः॥ 22 अलब्धभागाः सोमस्य केवलं क्लेशभागिनः। सर्व एते रणमुखे बहुशो निर्जितामराः॥ 23 सिंहनादान्विमुञ्चन्तः शङ्खान्दध्मुर्महारवान्। दृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम्॥ 24 ऐरावतं दिक्करिणमारूढः शुशुभे स्वराट्। यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः॥ 25 तस्यासन्सर्वतो देवा नानावाहध्वजायुधाः। लोकपालाः सह गणैर्वाय्वग्निवरुणादयः॥ 26 तेऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः। आह्वयन्तो विशन्तोऽग्रे युयुधुर्द्वन्द्वयोधिनः॥ 27 युयोध बलिरिन्द्रेण तारकेण गुहोऽस्यत। वरुणो हेतिनायुध्यन्मित्रो राजन्प्रहेतिना॥ 28 यमस्तु कालनाभेन विश्वकर्मा मयेन वै। शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः॥ 29 अपराजितेन नमुचिरश्विनौ वृषपर्वणा। सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च॥ 30 राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः। निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी॥ 31 वृषाकपिस्तु जम्भेन महिषेण विभावसुः। इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम॥ 32 कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह। बृहस्पतिश्चोशनसा नरकेण शनैश्चरः॥ 33 मरुतो निवातकवचैः कालेयैर्वसवोऽमराः। विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह॥ 34 त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः। अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः॥ 35 भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि। निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः॥ 36 गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः। निकृत्तबाहूरुशिरोधराङ्घ्रय- श्छिन्नध्वजेष्वासतनुत्रभूषणाः॥ 37 तेषां पदाघातरथाङ्गचूर्णिता- दायोधनादुल्बण उत्थितस्तदा। रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात्॥ 38 शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः। महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ॥ 39 कबन्धास्तत्र चोत्पेतुः पतितस्वशिरोऽक्षिभिः। उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे॥ 40 बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः। चतुर्भिश्चतुरो वाहानेकेनारोहमार्च्छयत्॥ 41 स तानापततः शक्रस्तावद्भिः शीघ्रविक्रमः। चिच्छेद निशितैर्भल्लैरसम्प्राप्तान्हसन्निव॥ 42 तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे। तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः॥ 43 ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः। यद् यच्छस्त्रं समादद्यात्सर्वं तदच्छिनद् विभुः॥ 44 ससर्जाथासुरीं मायामन्तर्धानगतोऽसुरः। ततः प्रादुरभूच्छैलः सुरानीकोपरि प्रभो॥ 45 ततो निपेतुस्तरवो दह्यमाना दवाग्निना। शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम्॥ 46 महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः। सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजान्॥ 47 यातुधान्यश्च शतशः शूलहस्ता विवाससः। छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो॥ 48 ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः। अङ्गारान्मुमुचुर्वातैराहताः स्तनयित्नवः॥ 49 सृष्टो दैत्येन सुमहान्वह्निः श्वसनसारथिः। सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक्॥ 50 ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत। प्रचण्डवातैरुद्धूततरङ्गावर्तभीषणः॥ 51 एवं दैत्यैर्महामायैरलक्ष्यगतिभीषणैः। सृज्यमानासु मायासु विषेदुः सुरसैनिकाः॥ 52 न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप। ध्यातः प्रादुरभूत् तत्र भगवान्विश्वभावनः॥ 53 ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः। अदृश्यताष्टायुधबाहुरुल्लस- च्छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः॥ 54 तस्मिन्प्रविष्टेऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः। स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम्॥ 55 दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः। तल्लीलया गरुडमूर्ध्नि पतद् गृहीत्वा तेनाहनन्नृप सवाहमरिं त्र्यधीशः॥ 56 माली सुमाल्यतिबलौ युधि पेततुर्य- च्चक्रेण कृत्तशिरसावथ माल्यवांस्तम्। आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच्छिरोऽच्छिनदरेर्नदतोऽरिणाऽऽद्यः॥ 57 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः ॥ 10 ॥
Tamil