header_image
Home
Tamil

अष्टमः स्कन्धः ~:०:~ अथ एकादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ एकादशोऽध्यायः
बलेः, पराजयः, दैत्यानां विनाशः, नारदोक्त्या युद्धसमाप्तिः, शुक्रद्वारा बलेः संजीवनं च
श्रीशुक उवाच अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया। जघ्नुर्भृशं शक्रसमीरणादय- स्तांस्तान्रणे यैरभिसंहताः पुरा॥ 1 वैरोचनाय संरब्धो भगवान्पाकशासनः। उदयच्छद् यदा वज्रं प्रजा हाहेति चुक्रुशुः॥ 2 वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम्। मनस्विनं सुसम्पन्नं विचरन्तं महामृधे॥ 3 नटवन्मूढ मायाभिर्मायेशान् नो जिगीषसि। जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम्॥ 4 आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम्। तान्दस्यून्विधुनोम्यज्ञान्पूर्वस्माच्च पदादधः॥ 5 सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा। शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह॥ 6 श्रीबलिरुवाच। सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम्। कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात्॥ 7 तदिदं कालरशनं जनाः पश्यन्ति सूरयः। न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः॥ 8 न वयं मन्यमानानामात्मानं तत्र साधनम्। गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः॥ 9 श्रीशुक उवाच इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः। आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः॥ 10 एवं निराकृतो देवो वैरिणा तथ्यवादिना। नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः॥ 11 प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः। सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचलः॥ 12 सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत्। अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन्॥ 13 स सिंहवाह आसाद्य गदामुद्यम्य रंहसा। जत्रावताडयच्छक्रं गजं च सुमहाबलः॥ 14 गदाप्रहारव्यथितो भृशं विह्वलितो गजः। जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ॥ 15 ततो रथो मातलिना हरिभिर्दशशतैर्वृतः। आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः॥ 16 तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः। शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे॥ 17 सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः। इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच्छिरः॥ 18 जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः। नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः॥ 19 वचोभिः परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु। शरैरवाकिरन् मेघा धाराभिरिव पर्वतम्॥ 20 हरीन्दशशतान्याजौ हर्यश्वस्य बलः शरैः। तावद्भिरर्दयामास युगपल्लघुहस्तवान्॥ 21 शताभ्यां मातलिं पाको रथं सावयवं पृथक्। सकृत्सन्धानमोक्षेण तदद्भुतमभूद् रणे॥ 22 नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः। आहत्य व्यनदत्सङ्ख्ये सतोय इव तोयदः॥ 23 सर्वतः शरकूटेन शक्रं सरथसारथिम्। छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः॥ 24 अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः। अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे॥ 25 ततस्तुराषाडिषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः। बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये॥ 26 निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे। उदयच्छद् रिपुं हन्तुं वज्रं वज्रधरो रुषा॥ 27 स तेनैवाष्टधारेण शिरसी बलपाकयोः। ज्ञातीनां पश्यतां राजञ्जहार जनयन्भयम्॥ 28 नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः जिघांसुरिन्द्रं नृपते चकार परमोद्यमम्॥ 29 अश्मसारमयं शूलं घण्टावद्धेमभूषणम्। प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन्। प्राहिणोद् देवराजाय निनदन् मृगराडिव॥ 30 तदापतद् गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा। तमाहनन्नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन्॥ 31 न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः। तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा॥ 32 तस्मादिन्द्रोऽबिभेच्छत्रोर्वज्रः प्रतिहतो यतः। किमिदं दैवयोगेन भूतं लोकविमोहनम्॥ 33 येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये। कृतो निविशतां भारैः पतत्त्रैः पततां भुवि॥ 34 तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः। अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः॥ 35 सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके। नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम्॥ 36 इति शक्रं विषीदन्तमाह वागशरीरिणी। नायं शुष्कैरथो नाद्रैर्वधमर्हति दानवः॥ 37 मयास्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः। अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः॥ 38 तां दैवीं गिरमाकर्ण्य मघवान्सुसमाहितः। ध्यायन् फेनमथापश्यदुपायमुभयात्मकम्॥ 39 न शुष्केण न चार्द्रेण जहार नमुचेः शिरः। तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन्विभुम्॥ 40 गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू। देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा॥ 41 अन्येऽप्येवं प्रतिद्वन्द्वान्वाय्वग्निवरुणादयः। सूदयामासुरस्त्रौघैर्मृगान्केसरिणो यथा॥ 42 ब्रह्मणा प्रेषितो देवान्देवर्षिर्नारदो नृप। वारयामास विबुधान्दृष्ट्वा दानवसङ्क्षयम्॥ 43 श्रीनारद उवाच। भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः। श्रिया समेधिताः सर्व उपारमत विग्रहात्॥ 44 श्रीशुक उवाच संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः। उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम्॥ 45 येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते। बलिं विपन्नमादाय अस्तं गिरिमुपागमन्॥ 46 तत्राविनष्टावयवान् विद्यमानशिरोधरान्। उशना जीवयामास संजीवन्या स्वविद्यया॥ 47 बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः। पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः॥ 48 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्यायः ॥ 11 ॥
Tamil