header_image
Home
Tamil

अष्टमः स्कन्धः ~:०:~ अथ नवमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ नवमोऽध्यायः
देवानाममृतपानं दैत्यवञ्चनं राहुशिरश्छेदश्च
श्रीशुक उवाच - तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः। क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम्॥ 1 अहो रूपमहो धाम अहो अस्या नवं वयः। इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः॥ 2 का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि। कस्यासि वद वामोरु मथ्नन्तीव मनांसि नः॥ 3 न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः। नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः॥ 4 नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम्। सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम्॥ 5 सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि। ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे॥ 6 वयं कश्यपदायादा भ्रातरः कृतपौरुषाः। विभजस्व यथान्यायं नैव भेदो यथा भवेत्॥ 7 इत्युपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः। प्रहस्य रुचिरापाङ्‌गैर्निरीक्षन्निदमब्रवीत्॥ 8 श्रीभगवानुवाच - कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः। विश्वासं पण्डितो जातु कामिनीषु न याति हि॥ 9 सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः। सख्यान्याहुरनित्यानि नूत्‍नं नूत्‍नं विचिन्वताम्॥ 10 श्रीशुक उवाच - इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः। जहसुर्भावगम्भीरं ददुश्चामृतभाजनम्॥ 11 ततो गृहीत्वामृतभाजनं हरिः बभाष ईषत्स्मितशोभया गिरा। यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम्॥ 12 इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः। अप्रमाणविदस्तस्यास्तत् तथेत्यन्वमंसत॥ 13 अथोपोष्य कृतस्नाना हुत्वा च हविषानलम्। दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः॥ 14 यथोपजोषं वासांसि परिधायाहतानि ते। कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभूषिताः॥ 15 प्राङ्‌मुखेषूपविष्टेषु सुरेषु दितिजेषु च। धूपामोदितशालायां जुष्टायां माल्यदीपकैः॥ 16 तस्यां नरेन्द्र करभोरुरुशद्दुकूल- श्रोणीतटालसगतिर्मदविह्वलाक्षी। सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश॥ 17 तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम्। संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम्॥ 18 असुराणां सुधादानं सर्पाणामिव दुर्नयम्। मत्वा जातिनृशंसानां न तां व्यभजदच्युतः॥ 19 कल्पयित्वा पृथक् पंङ्क्तीरुभयेषां जगत्पतिः। तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु॥ 20 दैत्यान्गृहीतकलसो वञ्चयन्नुपसञ्चरैः। दूरस्थान् पाययामास जरामृत्युहरां सुधाम्॥ 21 ते पालयन्तः समयमसुराः स्वकृतं नृप। तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया॥ 22 तस्यां कृतातिप्रणयाः प्रणयापायकातराः। बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम्॥ 23 देवलिङ्‌गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि। प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सूचितः॥ 24 चक्रेण क्षुरधारेण जहार पिबतः शिरः। हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत्॥ 25 शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत्। यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः॥ 26 पीतप्रायेऽमृते देवैर्भगवाल्ँलोकभावनः। पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः॥ 27 एवं सुरासुरगणाः समदेशकाल- हेत्वर्थकर्ममतयोऽपि फले विकल्पाः। तत्रामृतं सुरगणाः फलमञ्जसाऽऽपु- र्यत्पादपङ्कजरजःश्रयणान्न दैत्याः॥ 28 यद् युज्यतेऽसुवसुकर्ममनोवचोभि- र्देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात्। तैरेव सद् भवति यत् क्रियतेऽपृथक्त्वात् सर्वस्य तद् भवति मूलनिषेचनं यत्॥ 29 ॥इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ 9 ॥
Tamil