header_image
Home
Tamil

सप्तमः स्कन्धः ~:०:~ अथ तृतीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ तृतीयोऽध्यायः
हिरण्यकशिपोस्तपसा तप्तानां देवानां प्रार्थनया बह्माणा तस्मै वरदानम्
श्रीनारद उवाच। हिरण्यकशिपू राजन्नजेयमजरामरम्। आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत॥ १ स तेपे मन्दरद्रोण्यां तपः परमदारुणम्। ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः॥ २ जटादीधितिभी रेजे संवर्तार्क इवांशुभिः। तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे॥ ३ तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः। तिर्यगूर्ध्वमधोलोकानतपद्विष्वगीरितः॥ ४ चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः। निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश॥ ५ तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः। धात्रे विज्ञापयामासुर्देवदेव जगत्पते॥ ६ दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः। तस्य चोपशमं भूमन् विधेहि यदि मन्यसे॥ ७ लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः। तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः॥ ८ श्रूयतां किं न विदितस्तवाथापि निवेदितः। सृष्ट्वा चराचरमिदं तपोयोगसमाधिना। अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम्॥ ९ तदहं वर्धमानेन तपोयोगसमाधिना। कालात्मनोश्च नित्यत्वात्साधयिष्ये तथाऽऽत्मनः॥ १० अन्यथेदं विधास्येऽहमयथापूर्वमोजसा। किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः॥ ११ इति शुश्रुम निर्बन्धं तपः परममास्थितः। विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर॥ १२ तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते। भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च॥ १३ इति विज्ञापितो देवैर्भगवानात्मभूर्नृप। परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम्॥ १४ न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः। पिपीलिकाभिराचीर्णमेदस्त्वङ्मांसशोणितम्॥ १५ तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम्। विलक्ष्य विस्मितः प्राह प्रहसन् हंसवाहनः॥ १६ श्रीब्रह्मोवाच। उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धोऽसि काश्यप। वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वरः॥ १७ अद्राक्षमहमेत्तते हृत्सारं महदद्भुतम्। दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते॥ १८ नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे। निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमाः शतम्॥ १९ व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम्। तपोनिष्ठेन भवता जितोऽहं दितिनन्दन॥ २० ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव। मर्तस्य ते अमर्तस्य दर्शनं नाफलं मम॥ २१ श्रीनारद उवाच। इत्युक्त्वाऽऽदिभवो देवो भक्षिताङ्गं पिपीलिकैः। कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा॥ २२ स तत्कीचकवल्मीकात् सहओजोबलान्वितः। सर्वावयवसम्पन्नो वज्रसंहननो युवा। उत्थितस्तप्तहेमाभो विभावसुरिवैधसः॥ २३ स निरीक्ष्याम्बरे देवं हंसवाहमवस्थितम्। ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः॥ २४ उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम्। हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात्॥ २५ श्रीहिरण्यकशिपुरुवाच। कल्पान्ते कालसृष्टेन योऽन्धेन तमसाऽऽवृतम्। अभिव्यनग् जगदिदं स्वयञ्ज्योतिः स्वरोचिषा॥ २६ आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति। रजःसत्त्वतमोधाम्ने पराय महते नमः॥ २७ नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये। प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे॥ २८ त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम्। चित्तस्य चित्तेर्मनइन्द्रियाणां पतिर्महान् भूतगुणाशयेशः॥ २९ त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च। त्वमेक आत्माऽऽत्मवतामनादि- रनन्तपारः कविरन्तरात्मा॥ ३० त्वमेव कालोऽनिमिषो जनाना- मायुर्लवाद्यवयवैः क्षिणोषि। कूटस्थ आत्मा परमेष्ठ्यजो महां- स्त्वं जीवलोकस्य च जीव आत्मा॥ ३१ त्वत्तः परं नापरमप्यनेज- देजच्च किञ्चिद् व्यतिरिक्तमस्ति। विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भोऽसि बृहत्त्रिपृष्ठः॥ ३२ व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम्। भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः॥ ३३ अनन्ताव्यक्तरूपेण येनेदमखिलं ततम्। चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः॥ ३४ यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम। भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो॥ ३५ नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः। न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि॥ ३६ व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः। अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम्॥ ३७ सर्वेषां लोकपालानां महिमानं यथाऽऽत्मनः। तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित्॥ ३८ ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे हिरण्यकशिपोर्वरयाचनं नाम तृतीयोऽध्यायः ॥ ३ ॥
Tamil