श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ द्वितीयोऽध्यायः
हिरण्यकशिपोः स्वभृत्येभ्यः प्रजापीडनार्थमादेशः पुत्रशोकाकुलाया दितेः स्वज्ञातीनां च सान्त्वनार्थमुपदेशश्च
नारद उवाच -
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना।
हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा॥ 1
आह चेदं रुषा घूर्णः सन्दष्टदशनच्छदः।
कोपोज्ज्वलदभ्यां चक्षुर्भ्यां निरीक्षन् ध्रुममम्बरम्॥ 2
करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः।
शूलमुद्यम्य सदसि दानवानिदमब्रवीत्॥ 3
भो भो दानवदैतेयाः द्विमूर्धस्त्रक्ष शम्बर।
शतबाहो हयग्रीव नमुचे पाक इल्वल॥ 4
विप्रचित्ते मम वचः पुलोमन् शकुनादयः।
श्रृणुतानन्तरं सर्व क्रियतामाशु मा चिरम्॥ 5
सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत्।
पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः॥ 6
तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः।
भजन्तं भजमानस्य बालस्येवास्थिरात्मनः॥ 7
मच्छूलाभिन्नग्रीवस्य भुरिणा रुधिरेण वै।
रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः॥ 8
तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ।
विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः॥ 9
तावद्यात भुवं युयं विप्रक्षत्रसमेधिताम्।
सुदयध्वं तपोयज्ञस्वाध्यायव्रतदानिनः॥ 10
विष्णूर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान्।
देवर्षिपितृभुतानां धर्मस्य च परयणम्॥ 11
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमः क्रियाः।
तं तं जनपदं यात सन्दीपयत वृश्चत॥ 12
इति ते भर्तुनिर्देशमादाय शिरसाऽऽदृताः।
तथा प्रजानां कदनं विदधुः कदनप्रियाः॥ 13
पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान्।
खेटखर्वटघोषांश्च ददहुः पत्तनानि च॥ 14
केचित्खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान्।
आजीव्यांश्चिच्चिदुर्वृक्षान् केचित्पशुरपाणयः।
प्रादहञ् शरणान्यन्ये प्रजानां ज्वालितोल्मुकैः॥ 15
एवं विप्रकृते लोके दैत्येन्दरानुचरैर्मुहुः।
दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः॥ 16
हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत्॥ 17
शकुनिं शम्बरं धृष्टं भूतसन्तापनं वृकम्।
कालनाभं महानाभं हरिश्मश्रुमथोत्कचम्॥ 18
तन्मातरं रुषाभानुं दितिं च जननीं गिरा।
श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वरः॥ 19
हिरण्यकशिपुरुवाच -
अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम्।
रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः॥ 20
भुतानामिह संवाहः प्रपायामिव सुव्रते।
दैवेनैकत्र नीतानामुन्नीतानं स्वकर्मभिः॥ 21
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः।
धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान्॥ 22
यथाम्भसा प्रचलता तरवोऽपि चला इव।
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीत भूः॥ 23
एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान्।
याति तत्साम्यतां भद्रे ह्यालिङ्गो लिङ्गवानिव॥ 24
एष आत्मविपर्यासो ह्यालिङ्गे लिङ्गभावना।
एष प्रियाप्रिर्यैर्योगो वियोगः कर्मसंसृतिः॥ 25
सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः।
अविवेकश्च चिन्ता च विवेकास्मृतिरेव च॥ 26
अत्राप्युदहरन्तीममितिहासं पुरातनम्।
यमस्य प्रेतबन्धुनां संवादं तं निबोधत॥ 27
उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः।
सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत॥ 28
विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम्।
शरनिर्भिन्नहृदयं शयानमसृगाविलम्॥ 29
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम्।
रजः कुण्ठमुखाम्भोजं छिन्नायुधभुजं मॄधे॥ 30
उशीनरेन्द्रं विधिना तथा कृतं
पतिं महिष्यः प्रसमीक्ष्य दुःखिताः।
हताः स्म नाथेति करैरुरो भृशं
घ्नन्त्यो मुहुस्तत्पदयोरुपापतन्॥ 31
रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं
सिञ्चन्त्य अस्त्रैः कुचकुङ्कुमारुणैः।
विस्रस्तकेशाभरणाः शुचं नृणां
सृजन्त्य आक्रन्दनया विलेपिरे॥ 32
अहो विधात्राकरुणेन नः प्रभो
भवान् प्रणीतो दृदगोचरां दशाम्।
उशीनराणामासि वृत्तिदः पुरा
कृतोऽधुना येन शुचां विवर्धनः॥ 33
त्वया कृतज्ञेन वयं महीपते
कथं विना स्याम सुहृत्तमेन ते।
तत्रानुयानं तव वीर पादयोः
शुश्रूषतीनां दिश यत्र यास्यसि॥ 34
एवं विलपतीनां वै परिगृह्या मृतं पतिम्।
अनिच्छतीनां निर्हारमर्कोऽस्तं संन्यवर्तत॥ 35
तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम्।
आह तान् बालको भूत्वा यमः स्वयमुपागतः॥ 36
यम उवाच -
अहो अमीषां वयसाधिकानां
विपश्यतां लोकविधिं विमोहः।
यत्रगतस्तत्र गतं मनुष्यं
स्वयं सधर्मा अपि शोचन्त्यपार्थम्॥ 37
अहो वयं धन्यतमा यदत्र
त्यक्ता पितृभ्यां न विचिन्तयामः।
अभक्ष्यमाणा अबला वृकादिभिः
स रक्षिता रक्षति यो हि गर्भे॥ 38
य इच्छयेशः सृजतीदमव्ययो
य एव रक्षत्यवलुम्पते च यः।
तस्याबलाः क्रीडनमाहुरीशितु-
श्चराचरं निग्रहसङ्ग्रेहे प्रभुः॥ 39
पथि च्युतं तिष्ठति दिष्टरक्षितं
गृहे स्थितं तद्विहतं विनश्यति।
जीवत्यनाथोऽपि तदीक्षितो वने
गृहेऽपि गुप्तोऽस्य हतो न जीवति॥ 40
भुतानि तैस्तैर्निजयोनिकर्मभि-
र्भवन्ति काले न भवन्ति सर्वशः।
न तत्र हात्मा प्रकृतावपि स्थित-
स्तस्या गुणैरन्यतमो निबध्यते॥ 41
इदं शरीरं पुरुषस्य मोहजं
यथा पृथग्भौतिकमीयते गृहम्।
यथौदकैः पार्थिवतैजसैर्जनः
कालेन जातो विकृतो विनश्यति॥ 42
यथानलो दारुषु भिन्न ईयते
यथानिलो देहगतः पृथक् स्थितः।
यथा नभः सर्वगतं न सज्जते
तथा पुमान् सर्वगुणाश्रयः परः॥ 43
सुयज्ञो नन्वयं शेते मुढा यमनुशोचथ।
यः श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित्॥ 44
न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसुः।
यस्त्विहेन्द्रियवानात्मा स चान्यः प्राणदेहयोः॥ 45
भुतेन्द्रियमनोलिङ्गन् देहानुच्चावचान् विभुः।
भजत्युत्सृजति ह्यान्यस्तच्चापि स्वेन तेजसा॥ 46
यावाल्लिङ्गन्वितो ह्यात्मा तावत् कर्म निबन्धनम्।
ततो विपर्ययः क्लेशो मायायोगोऽनुवर्तते॥ 47
वितथाभिनिवेशोऽयं यद् गुणेष्वर्थदृग्वचः।
यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा॥ 48
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः।
नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति॥ 49
लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तकः।
वितत्य जालं विदधे तत्र तत्र प्रलोभयन्॥ 50
कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत।
तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता॥ 51
सासज्जत शिचस्तन्त्यां महिषी कालयन्त्रिता।
कुलिङ्गस्तां तथाऽऽपन्नां निरीक्ष्य भृशदुःखितः।
स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत्॥ 52
अहो अकरुणो देवः स्त्रियाऽऽकरुणया विभुः।
कृपणं मानुशोचन्त्या दीनया किं करिष्यति॥ 53
कामं नयतु मां देवः किमर्धेनात्मनो हि मे।
दीनेन जीवता दुःखमनेन विधुरायुषा॥ 54
कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम्।
मन्दभाग्यः प्रतीक्षन्ते नीडे मे मातरं प्रजाः॥ 55
एवं कुलिङ्गं विलपन्तमारात्
प्रियावियोगातुरमश्रुकण्ठम्।
स एव तं शाकुनिकः शरेण
विव्याध कालप्रहितो विलीनः॥ 56
एवं यूयमपश्यन्त्य आत्मापायमबुद्धयाः।
नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि॥ 57
हिरण्यकशिपुरुवाच -
बाल एवं प्रवदति सर्वे विस्मितचेतसः।
ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम्॥ 58
यम एतदुपाख्याय तत्रैवान्तरधीयत।
ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यत्साम्परायिकम्॥ 59
ततः शोचत मा यूयं परं चात्मानमेव च।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा।
स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम्॥ 60
नारद उवाच
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा।
पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ 61
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां
सप्तमस्कन्धे दितिशोकापनयनं नाम
द्वितीयोऽध्यायः॥2॥