header_image
Home
Tamil

सप्तमः स्कन्धः ~:०:~ अथ चतुर्थोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ चतुर्थोऽध्यायः
हिरण्यकशिपोः शासनम्, प्रह्रादस्य जन्म, तद्गुणानां च वर्णनम्
नारद उवाच - एवं वृतः शतधृतिर्हिरण्यकशिपोरथ। प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान्॥ 1 ब्रह्मोवाच - तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम। तथापि वितराम्यङ्‌ग वरान् यदपि दुर्लभान्॥ 2 ततो जगाम भगवानमोघानुग्रहो विभुः। पूजितोऽसुरवर्येण स्तूयमानः प्रजेश्वरैः॥ 3 एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः। भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन्॥ 4 स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः। देवासुरमनुष्येन्द्रान् गन्धर्वगरुडोरगान्॥ 5 सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून्। यक्षरक्षःपिशाचेशान् प्रेतभूतपतीनथ॥ 6 सर्वसत्त्वपतीन्जित्वा वशमानीय विश्वजित्। जहार लोकपालानां स्थानानि सह तेजसा॥ 7 देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम्। महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा। त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत्॥ 8 यत्र विद्रुमसोपाना महामारकता भुवः। यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्‌क्तयः॥ 9 यत्र चित्रवितानानि पद्मरागासनानि च। पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः॥ 10 कूजद्‌भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः। रत्‍नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम्॥ 11 तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट्। रेमेऽभिवन्द्याङ्‌घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः॥ 12 तमङ्‌ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः। उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम्॥ 13 जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः। गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुः विद्याधरा अप्सरसश्च पाण्डव॥ 14 स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः। इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा॥ 15 अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही। तथा कामदुघा द्यौस्तु नानाश्चर्यपदं नभः॥ 16 रत्‍नाकराश्च रत्‍नौघांस्तत्पत्‍न्यश्चोहुरूर्मिभिः। क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः॥ 17 शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः। दधार लोकपालानामेक एव पृथग्गुणान्॥ 18 स इत्थं निर्जितककुबेकराड् विषयान् प्रियान्। यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः॥ 19 एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः। कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः॥ 20 तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः। अन्यत्रालब्धशरणाः शरणं ययुरच्युतम्॥ 21 तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः। यद्‍गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः॥ 22 इति ते संयतात्मानः समाहितधियोऽमलाः। उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः॥ 23 तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना। सन्नादयन्ती ककुभः साधूनामभयङ्‌करी॥ 24 मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः। मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये॥ 25 ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य च। तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत॥ 26 यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु। धर्मे मयि च विद्वेषः स वा आशु विनश्यति॥ 27 निर्वैराय प्रशान्ताय स्वसुताय महात्मने। प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम्॥ 28 नारद उवाच - इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः। न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम्॥ 29 तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्‍भुताः। प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासकः॥ 30 ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः। आत्मवत्सर्वभूतानामेकः प्रियसुहृत्तमः॥ 31 दासवत्सन्नतार्याङ्‌घ्रिः पितृवद्दीनवत्सलः। भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः। विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः॥ 32 नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक्। दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरोऽसुरः॥ 33 यस्मिन्महद्‍गुणा राजन् गृह्यन्ते कविभिर्मुहुः। न तेऽधुनापिधीयन्ते यथा भगवतीश्वरे॥ 34 यं साधुगाथासदसि रिपवोऽपि सुरा नृप। प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः॥ 35 गुणैरलमसंख्येयैर्माहात्म्यं तस्य सूच्यते। वासुदेवे भगवति यस्य नैसर्गिकी रतिः॥ 36 न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया। कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम्॥ 37 आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन्। नानुसन्धत्त एतानि गोविन्दपरिरम्भितः॥ 38 क्वचिद्रुदति वैकुण्ठचिन्ताशबलचेतनः। क्वचिद्धसति तच्चिन्ताह्लाद उद्‍गायति क्वचित्॥ 39 नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित्। क्वचित्तद्‍भावनायुक्तस्तन्मयोऽनुचकार ह॥ 40 क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः। अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः॥ 41 स उत्तमश्लोकपदारविन्दयोः निषेवयाकिञ्चनसङ्‌गलब्धया। तन्वन् परां निर्वृतिमात्मनो मुहुः दुःसङ्‌गदीनन्यमनः शमं व्यधात्॥ 42 तस्मिन्महाभागवते महाभागे महात्मनि। हिरण्यकशिपू राजन्नकरोदघमात्मजे॥ 43 युधिष्ठिर उवाच - देवर्ष एतदिच्छामो वेदितुं तव सुव्रत। यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम्॥ 44 पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः। उपालभन्ते शिक्षार्थं नैवाघमपरो यथा॥ 45 किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान्। एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो। पितुः पुत्राय यद् द्वेषो मरणाय प्रयोजितः॥ 46 || इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः ॥ 4 ॥
Tamil