header_image
Home
Tamil

सप्तमः स्कन्धः ~:०:~ अथ त्रयोदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ त्रयोदशोऽध्यायः
संन्यासधर्मवर्णनम्, अवधूतप्रह्रादसंवादश्च
श्रीनारद उवाच। कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः। ग्रामैकरात्रविधिना निरपेक्षश्चरेन्महीम्॥ 1 बिभृयाद् यद्यसौ वासः कौपीनाच्छादनं परम्। त्यक्तं न दण्डलिङ्गादेरन्यत् किञ्चिदनापदि॥ 2 एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः। सर्वभूतसुहृच्छान्तो नारायणपरायणः॥ 3 पश्येदात्मन्यदो विश्वं परे सदसतोऽव्यये। आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये॥ 4 सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक्। पश्यन्बन्धं च मोक्षं च मायामात्रं न वस्तुतः॥ 5 नाभिनन्देद् ध्रुवं मृत्युमध्रुवं वास्य जीवितम्। कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम्॥ 6 नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम्। वादवादांस्त्यजेत् तर्कान्पक्षं कं च न संश्रयेत्॥ 7 न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद् बहून्। न व्याख्यामुपयुञ्जीत नारम्भानारभेत् क्वचित्॥ 8 न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः। शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत्॥ 9 अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत्। कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन्नृणाम्॥ 10 अत्राप्युदाहरन्तीममितिहासं पुरातनम्। प्रह्रादस्य च संवादं मुनेराजगरस्य च॥ 11 तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि। रजस्वलैस्तनूदेशैर्निगूढामलतेजसम्॥ 12 ददर्श लोकान्विचरल्ँलोकतत्त्वविवित्सया। वृतोऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः॥ 13 कर्मणाऽऽकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः। न विदन्ति जना यं वै सोऽसाविति न वेति च॥ 14 तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन्। विवित्सुरिदमप्राक्षीन्महाभागवतोऽसुरः॥ 15 बिभर्षि कायं पीवानं सोद्यमो भोगवान्यथा। वित्तं चैवोद्यमवतां भोगो वित्तवतामिह। भोगिनां खलु देहोऽयं पीवा भवति नान्यथा॥ 16 न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः। अभोगिनोऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत्॥ 17 कविः कल्पो निपुणदृक् चित्रप्रियकथः समः। लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा॥ 18 श्रीनारद उवाच। स इत्थं दैत्यपतिना परिपृष्टो महामुनिः। स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः॥ 19 श्रीब्राह्मण उवाच। वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः। ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा॥ 20 यस्य नारायणो देवो भगवान्हृद्गतः सदा। भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत्॥ 21 अथापि ब्रूमहे प्रश्नांस्तव राजन्यथाश्रुतम्। सम्भावणीयो हि भवानात्मनः शुद्धिमिच्छताम्॥ 22 तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया। कर्माणि कार्यमाणोऽहं नानायोनिषु योजितः॥ 23 यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन्। स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च॥ 24 अत्रापि दम्पतीनां च सुखायान्यापनुत्तये। कर्माणि कुर्वतां दृष्ट्वा निवृत्तोऽस्मि विपर्ययम्॥ 25 सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः। मनःसंस्पर्शजान् दृष्ट्वा भोगान्स्वप्स्यामि संविशन्॥ 26 इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान्। विचित्रामसति द्वैते घोरामाप्नोति संसृतिम्॥ 27 जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया। मृगतृष्णामुपाधावेद् यथान्यत्रार्थदृक् स्वतः॥ 28 देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः। दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः॥ 29 आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित्। मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम्॥ 30 पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम्। भयादलब्धनिद्राणां सर्वतोऽभिविशङ्किनाम्॥ 31 राजतश्चोरतः शत्रोः स्वजनात्पशुपक्षितः। अर्थिभ्यः कालतः स्वस्मान्नित्यं प्राणार्थवद्भयम्॥ 32 शोकमोहभयक्रोधरागक्लैब्यश्रमादयः। यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः॥ 33 मधुकारमहासर्पौ लोकेऽस्मिन्नो गुरूत्तमौ। वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम्॥ 34 विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात्। कृच्छ्राप्तं मधुवद् वित्तं हत्वाप्यन्यो हरेत्पतिम्॥ 35 अनीहः परितुष्टात्मा यदृच्छोपनतादहम्। नो चेच्छये बह्वहानि महाहिरिव सत्त्ववान्॥ 36 क्वचिदल्पं क्वचिद् भूरि भुञ्जेऽन्नं स्वाद्वस्वादु वा। क्वचिद् भूरिगुणोपेतं गुणहीनमुत क्वचित्॥ 37 श्रद्धयोपहृतं क्वापि कदाचिन्मानवर्जितम्। भुञ्जे भुक्त्वाथ कस्मिंश्चिद् दिवा नक्तं यदृच्छया॥ 38 क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा। वसेऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम्॥ 39 क्वचिच्छये धरोपस्थे तृणपर्णाश्मभस्मसु। क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया॥ 40 क्वचित् स्नातोऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः। रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद् विभो॥ 41 नाहं निन्दे न च स्तौमि स्वभावविषमं जनम्। एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि॥ 42 विकल्पं जुहुयाच्चित्तौ तां मनस्यर्थविभ्रमे। मनो वैकारिके हुत्वा तन्मायायां जुहोत्यनु॥ 43 आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ्मुनिः। ततो निरीहो विरमेत् स्वानुभूत्याऽऽत्मनि स्थितः॥ 44 स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम्। व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः॥ 45 श्रीनारद उवाच। धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः। पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम्॥ 46
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे यतिधर्मे त्रयोदशोऽध्यायः ॥ 13 ॥

Tamil