header_image
Home
Tamil

सप्तमः स्कन्धः ~:०:~ अथ द्वादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ द्वादशोऽध्यायः
ब्रह्मचर्यवानप्रस्थाश्रमयोर्धर्माः
नारद उवाच - ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम्। आचरन्दासवन्नीचो गुरौ सुदृढसौहृदः॥ 1 सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान्। उभे सन्ध्ये च यतवाग् जपन्ब्रह्म समाहितः॥ 2 छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः। उपक्रमेऽवसाने च चरणौ शिरसा नमेत्॥ 3 मेखलाजिनवासांसि जटादण्डकमण्डलून्। बिभृयादुपवीतं च दर्भपाणिर्यथोदितम्॥ 4 सायं प्रातश्चरेद्‍भैक्षं गुरवे तन्निवेदयेत्। भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित्॥ 5 सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः। यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च॥ 6 वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः। इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः॥ 7 केशप्रसाधनोन्मर्दस्नपनाभ्यञ्जनादिकम्। गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा॥ 8 नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान्। सुतामपि रहो जह्यादन्यदा यावदर्थकृत्॥ 9 कल्पयित्वाऽऽत्मना यावदाभासमिदमीश्वरः। द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः॥ 10 एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि। गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः॥ 11 अञ्जनाभ्यञ्जनोन्मर्दस्त्र्यवलेखामिषं मधु। स्रग्गन्धलेपालंकारांस्त्यजेयुर्ये धृतव्रताः॥ 12 उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च। त्रयीं साङ्‌गोपनिषदं यावदर्थं यथाबलम्॥ 13 दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः। गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत्॥ 14 अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम्। भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत्॥ 15 एवंविधो ब्रह्मचारी वानप्रस्थो यतिर्गृही। चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति॥ 16 वानप्रस्थस्य वक्ष्यामि नियमान्मुनिसम्मतान्। यानातिष्ठन् मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा॥ 17 न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः। अग्निपक्वमथामं वा अर्कपक्वमुताहरेत्॥ 18 वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान्। लब्धे नवे नवेऽन्नाद्ये पुराणं तु परित्यजेत्॥ 19 अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दराम्। श्रयेत हिमवाय्वग्निवर्षार्कातपषाट् स्वयम्॥ 20 केशरोमनखश्मश्रुमलानि जटिलो दधत्। कमण्डल्वजिने दण्डवल्कलाग्निपरिच्छदान्॥ 21 चरेद् वने द्वादशाब्दानष्टौ वा चतुरो मुनिः। द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः॥ 22 यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा। आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम्॥ 23 आत्मन्यग्नीन् समारोप्य संन्यस्याहंममात्मताम्। कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः॥ 24 खे खानि वायौ निश्वासांस्तेजस्युष्माणमात्मवान्। अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्‍भवम्॥ 25 वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि। पदानि गत्या वयसि रत्योपस्थं प्रजापतौ॥ 26 मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत्। दिक्षु श्रोत्रं सनादेन स्पर्शेमध्यात्मनि त्वचम्॥ 27 रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत्। अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत्॥ 28 मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे। कर्माण्यध्यात्मना रुद्रे यदहंममताक्रिया। सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे॥ 29 अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम्। कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत्॥ 30 इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम्। ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानलः॥ 31
इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥ 12 ॥

Tamil