header_image
Home
Tamil

सप्तमः स्कन्धः ~:०:~ अथ चतुर्दशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ चतुर्दशोऽध्यायः
देशकालादिविशेषेण गृहस्थधर्मनिरूपणम्
युधिष्ठिर उवाच - गृहस्थ एतां पदवीं विधिना येन चाञ्जसा। याति देवऋषे ब्रूहि मादृशो गृहमूढधीः॥ 1 श्रीनारद उवाच - गृहेष्ववस्थितो राजन्क्रियाः कुर्वगृहोचिताः। वासुदेवार्पणं साक्षादुपासीत महामुनीन्॥ 2 श्रृण्वन्भगवतोऽभीक्ष्णमवतारकथामृतम्। श्रद्दधानो यथाकालमुपशान्तजनावृतः॥ 3 सत्सङ्‌गाच्छनकैः सङ्‌गमात्मजायात्मजादिषु। विमुञ्चेन्मुच्यमानेषु स्वयं स्वप्नवदुत्थितः॥ 4 यावदर्थमुपासीनो देहे गेहे च पण्डितः। विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत्॥ 5 ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे। यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः॥ 6 दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम्। तत् सर्वमुपभुञ्जान एतत् कुर्यात् स्वतो बुधः॥ 7 यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम्। अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति॥ 8 मृगोष्ट्रखरमर्काखुसरीसृप्खगमक्षिकाः। आत्मनः पुत्रवत् पश्येत्तैरेषामन्तरं कियत्॥ 9 त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि। यथादेशं यथाकालं यावद्दैवोपपादितम्॥ 10 आश्वाघान्तेऽवसायिभ्यः कामान्संविभजेद् यथा। अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः॥ 11
जह्याद् यदर्थे स्वप्राणान्हन्याद् वा पितरं गुरुम्।
तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः॥ 12
कृमिविड् भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम्। क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः॥ 13 सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः। शेषे स्वत्वं त्यजन्प्राज्ञः पदवीं महतामियात्॥ 14 देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम्। स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक्॥ 15 यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः। वैतानिकेन विधिना अग्निहोत्रादिना यजेत्॥ 16 न ह्यग्निमुखतोऽयं वै भगवान्सर्वयज्ञभुक्। इज्येत हविषा राजन्यथा विप्रमुखे हुतैः॥ 17 तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः। तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु॥ 18 कुर्यादापरपक्षीयं मासि प्रौष्ठपदे द्विजः। श्राद्धं पित्रोर्यथावित्तं तद्‍बन्धूनां च वित्तवान्॥ 19 अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये। चन्द्रादित्योपरागे च द्वादशीश्रवणेषु च॥ 20 तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके। चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा॥ 21 माघे च सितसप्तम्यां मघाराकासमागमे। राकया चानुमत्या वा मासर्क्षाणि युतान्यपि॥ 22 द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः। तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक्॥ 23 त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः। कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः॥ 24 एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम्। पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम्॥ 25 संस्कारकालो जायाया अपत्यस्यात्मनस्तथा। प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप॥ 26 अथ देशान्प्रवक्ष्यामि धर्मादिश्रेय आवहान्। स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते॥ 27 बिम्बं भगवतो यत्र सर्वमेतच्चराचरम्। यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम्॥ 28 यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम्। यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः॥ 29 सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत। कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः॥ 30 नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली। वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा॥ 31 नारायणाश्रमो नन्दा सीतारामाश्रमादयः। सर्वे कुलाचला राजन्महेन्द्रमलयादयः॥ 32 एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये। एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः। धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः॥ 33 पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः। हरिरेवैक उर्वीश यन्मयं वै चराचरम्॥ 34 देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु। राजन्यदग्रपूजायां मतः पात्रतयाच्युतः॥ 35 जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान्। तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम्॥ 36 पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः। शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ॥ 37 तेष्वेषु भगवान् राजन् तारतम्येन वर्तते। तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते॥ 38 दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप। त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता॥ 39 ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया। उपासत उपास्तापि नार्थदा पुरुषद्विषाम्॥ 40 पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः। तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम्॥ 41 नन्वस्य ब्राह्मणा राजन्कृष्णस्य जगदात्मनः। पुनन्तः पादरजसा त्रिलोकीं दैवतं महत्॥ 42 ॥इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥14॥
Tamil