header_image
Home
Tamil

सप्तमः स्कन्धः ~:०:~ अथ पञ्चदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: सप्तमः स्कन्धः
अथ पञ्चदशोऽध्यायः
गृहस्थानां कृते मोक्षधर्मनिरूपणं नारदस्य स्वप्राग्जन्मवृत्तान्तकथनं च
श्रीनारद उवाच कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे। स्वाध्यायेऽन्ये प्रवचने ये केचज्ज्ञानयोगयोः॥ 1 ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता। दैवे च तदभावे स्यादितरेभ्यो यथार्हतः॥ 2 द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा। भोजयेत् सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम्॥ 3 देशकालोचितश्रद्धाद्रव्यपात्रार्हणानि च। सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात्॥ 4 देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम्। श्रद्धया विधिवत् पात्रे न्यस्तं कामधुगक्षयम्॥ 5 देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च। अन्नं संविभजन्पश्येत् सर्वं तत् पुरुषात्मकम्॥ 6 न दद्यादामिषं श्राद्धे न चाद्याद् धर्मतत्त्ववित्। मुन्यन्नैः स्यात्परा प्रीतिर्यथा न पशुहिंसया॥ 7 नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम्। न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः॥ 8 एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः। आत्मसंयमनेऽनीहा जुह्वति ज्ञानदीपिते॥ 9 द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति। एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृब् ध्रुवम्॥ 10 तस्माद् दैवोपपन्नेन मुन्यन्नेनापि धर्मवित्। सन्तुष्टोऽहरहः कुर्यान्नित्यनैमित्तिकीः क्रियाः॥ 11 विधर्मः परधर्मश्च आभास उपमा छलः। अधर्मशाखाः पञ्चेमा धर्मज्ञोऽधर्मवत् त्यजेत्॥ 12 धर्मबाधो विधर्मः स्यात् परधर्मोऽन्यचोदितः। उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच्छलः॥ 13 यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात्पृथक्। स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये॥ 14 धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम्। अनीहानीहमानस्य महाहेरिव वृत्तिदा॥ 15 सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम्। कुतस्तत् कामलोभेन धावतोऽर्थेहया दिशः॥ 16 सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः। शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम्॥ 17 सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा। औपस्थ्यजैह्व्यकार्पण्याद् गृहपालायते जनः॥ 18 असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः। स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते॥ 19 कामस्यान्तं च क्षुत्तृड्भ्यां क्रोधस्यैतत्फलोदयात्। जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः॥20 पण्डिता बहवो राजन्बहुज्ञाः संशयच्छिदः। सदसस्पतयोऽप्येके असन्तोषात् पतन्त्यधः॥ 21 असङ्कल्पाज्जयेत् कामं क्रोधं कामविवर्जनात्। अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात्॥ 22 आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया। योगान्तरायान् मौनेन हिंसां कायाद्यनीहया॥ 23 कृपया भूतजं दुःखं दैवं जह्यात् समाधिना। आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया॥ 24 रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च। एतत् सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत्॥ 25 यस्य साक्षाद् भगवति ज्ञानदीपप्रदे गुरौ। मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत्॥ 26 एष वै भगवान्साक्षात् प्रधानपुरुषेश्वरः। योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम्॥ 27 षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः। तदन्ता यदि नो योगानावहेयुः श्रमावहाः॥ 28 यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति। अनर्थाय भवेयुस्ते पूर्तमिष्टं तथासतः॥ 29 यश्चित्तविजये यत्तः स्यान्निःसङ्गोऽपरिग्रहः। एको विविक्तशरणो भिक्षुर्भिक्षामिताशनः॥ 30 देशे शुचौ समे राजन्संस्थाप्यासनमात्मनः। स्थिरं समं सुखं तस्मिन्नासीतर्ज्वङ्ग ओमिति॥ 31 प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः। यावन्मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः॥ 32 यतो यतो निःसरति मनः कामहतं भ्रमत्। ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः॥ 33 एवमभ्यसतश्चित्तं कालेनाल्पीयसा यतेः। अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत्॥ 34 कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत्। चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित्॥ 35 यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः। यदि सेवेत तान्भिक्षुः स वै वान्ताश्यपत्रपः॥ 36 यैः स्वदेहः स्मृतो नात्मा मर्त्यो विट्कृमिभस्मसात्। त एनमात्मसात्कृत्वा श्लाघयन्ति ह्यसत्तमाः॥ 37 गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि। तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता॥ 38 आश्रमापसदा ह्येते खल्वाश्रमविडम्बकाः। देवमायाविमूढांस्तानुपेक्षेतानुकम्पया॥ 39 आत्मानं चेद् विजानीयात् परं ज्ञानधुताशयः। किमिच्छन्कस्य वा हेतोर्देहं पुष्णाति लम्पटः॥ 40 आहुः शरीरं रथमिन्द्रियाणि हयानभीषून् मन इन्द्रियेशम्। वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद् बन्धुरमीशसृष्टम्॥ 41 अक्षं दशप्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम्। धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम्॥ 42 रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः। मानोऽवमानोऽसूया च माया हिंसा च मत्सरः॥ 43 रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः। रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित्॥ 44 यावन्नृकायरथमात्मवशोपकल्पं धत्ते गरिष्ठचरणार्चनया निशातम्। ज्ञानासिमच्युतबलो दधदस्तशत्रुः स्वाराज्यतुष्ट उपशान्त इदं विजह्यात्॥ 45 नो चेत् प्रमत्तमसदिन्द्रियवाजिसूता नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति। ते दस्यवः सहयसूतममुं तमोऽन्धे संसारकूप उरुमृत्युभये क्षिपन्ति॥ 46 प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्। आवर्तते प्रवृत्तेन निवृत्तेनाश्नुतेऽमृतम्॥ 47 हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम्। दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः॥ 48 एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च। पूर्तं सुरालयारामकूपाजीव्यादिलक्षणम्॥ 49 द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः। अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः॥ 50 अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः। एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते॥ 51 निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः। इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति॥ 52 इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः। वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे न्यसेत्। ओङ्कारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम्॥ 53 अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट्। विश्वश्च तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात्॥ 54 देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः। आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते॥ 55 य एते पितृदेवानामयने वेदनिर्मिते। शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति॥ 56 आदावन्ते जनानां सद् बहिरन्तः परावरम्। ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम्॥57 आबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः। दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम्॥ 58 क्षित्यादीनामिहार्थानां छाया न कतमापि हि। न सङ्घातो विकारोऽपि न पृथङ्नान्वितो मृषा॥ 59 धातवोऽवयवित्वाच्च तन्मात्रावयवैर्विना। न स्युर्ह्यसत्यवयविन्यसन्नवयवोऽन्ततः॥ 60 स्यात् सादृश्यभ्रमस्तावद् विकल्पे सति वस्तुनः। जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता॥ 61 भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथाऽऽत्मनः। वर्तयन्स्वानुभूत्येह त्रीन्स्वप्नान्धुनुते मुनिः॥ 62 कार्यकारणवस्त्वैक्यमर्शनं पटतन्तुवत्। अवस्तुत्वाद् विकल्पस्य भावाद्वैतं तदुच्यते॥ 63 यद् ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम्। मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते॥ 64 आत्मजायासुतादीनामन्येषां सर्वदेहिनाम्। यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते॥ 65 यद् यस्य वानिषिद्धं स्याद् येन यत्र यतो नृप। स तेनेहेत कर्माणि नरो नान्यैरनापदि॥ 66 एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः। गृहेऽप्यस्य गतिं यायाद् राजंस्तद्भक्तिभाङ्नरः॥ 67 यथा हि यूयं नृपदेव दुस्त्यजा- दापद्गणादुत्तरतात्मनः प्रभोः। यत्पादपङ्केरुहसेवया भवा- नहार्षीन्निर्जितदिग्गजः क्रतून्॥ 68 अहं पुराभवं कश्चिद् गन्धर्व उपबर्हणः। नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः॥ 69 रूपपेशलमाधुर्यसौगन्ध्यप्रियदर्शनः। स्त्रीणां प्रियतमो नित्यं मत्तस्तु पुरुलम्पटः॥ 70 एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः। उपहूता विश्वसृग्भिर्हरिगाथोपगायने॥ 71 अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः। ज्ञात्वा विश्वसृजस्तन्मे हेलनं शेपुरोजसा। याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः॥ 72 तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम्। शुश्रूषयानुषङ्गेण प्राप्तोऽहं ब्रह्मपुत्रताम्॥ 73 धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः। गृहस्थो येन पदवीमञ्जसा न्यासिनामियात्॥ 74 यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयोऽभियन्ति। येषां गृहानावसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम्॥ 75 स वा अयं ब्रह्म महद्विमृग्यं कैवल्यनिर्वाणसुखानुभूतिः। प्रियः सुहृद् वः खलु मातुलेय आत्मार्हणीयो विधिकृद् गुरुश्च॥ 76 न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम्। मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः॥ 77 श्रीशुक उवाच। इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः। पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः॥ 78 कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः। श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः॥ 79 इति दाक्षायिणीनां ते पृथग्वंशा प्रकीर्तिताः। देवासुरमनुष्याद्या लोका यत्र चराचराः॥ 80
॥ इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम पञ्चदशोऽध्यायः ॥ 15 ॥
॥ इति सप्तमः स्कन्धः समाप्तः ॥
॥हरिः ॐ तत्सत् ॥
Tamil