header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ पञ्चमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ पञ्चमोऽध्यायः
नारदोपदेशेन हर्यश्वशबलाश्वाख्यानां दक्षपुत्राणां विरक्तिर्नारदाय दक्षकर्तृकं शापदानं च
श्रीशुक उवाच तस्यां स पाञ्चजन्यां वै विष्णुमायोपबृंहित। हर्यश्वसंज्ञानयुतं पुत्रानजनयद् विभुः॥ 1 अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप। पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम्॥ 2 तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः। सङ्गमो यत्र सुमहन्मुनिसिद्धनिषेवितम्॥ 3 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः। धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युत॥ 4 तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः। प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह॥ 5 उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः। अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः॥ 6 तथैकपुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम्। बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम्॥ 7 नदीमुभयतोवाहां पञ्चपञ्चाद्भुतं गृहम्। क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम्॥ 8 कथं स्वपितुरादेशमविद्वांसो विपश्चितः। अनुरूपमविज्ञाय अहो सर्गं करिष्यथ॥ 9 श्रीशुक उवाच तन्निशम्याथ हर्यश्वा औत्पत्तिकमनीषया। वाचःकूटं तु देवर्षेः स्वयं विममृशुर्धिया॥ 10 भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम्। अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत्॥ 11 एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः। तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत्॥ 12 पुमान् नैवैति यद् गत्वा बिलस्वर्गं गतो यथा। प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत्॥ 13 नानारूपाऽऽत्मनो बुद्धिः स्वैरिणीव गुणान्विता। तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत्॥ 14 तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत्। तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत्॥ 15 सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम्। मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत्॥ 16 पञ्चविंशतितत्त्वानां पुरुषोऽद्भुतदर्पणम्। अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत्॥ 17 ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम्। विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत्॥ 18 कालचक्रं भ्रमिस्तीक्ष्णं सर्वं निष्कर्षयज्जगत्। स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत्॥ 19 शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम्। कथं तदनुरूपाय गुणविश्रम्भ्युपक्रमेत्॥ 20 इति व्यवसिता राजन् हर्यश्वा एकचेतसः। प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम्॥ 21 स्वरब्रह्मणि निर्भातहृषीकेशपदाम्बुजे। अखण्डं चित्तमावेश्य लोकाननुचरन्मुनिः॥ 22 नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम्। अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम्॥ 23 स भूयः पाञ्चजन्यायामजेन परिसान्त्वितः। पुत्रानजनयद् दक्षः शबलाश्वान् सहस्रिणः॥ 24 तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः। नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः॥ 25 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः। जपन्तो ब्रह्म परमं तेपुस्तऽत्र महत् तपः॥ 26 अब्भक्षाः कतिचिन्मासान् कतिचिद्वायुभोजनाः। आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम्॥ 27 ॐ नमो नारायणाय पुरुषाय महात्मने। विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि॥ 28 इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः। उपेत्य नारदः प्राह वाचःकूटानि पूर्ववत्॥ 29 दाक्षायणाः संशृणुत गदतो निगमं मम। अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः॥ 30 भ्रातॄणां प्रायणं भ्राता योऽनुतिष्ठति धर्मवित्। स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते॥ 31 एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः। तेऽपि चान्वगमन्मार्गं भ्रातॄणामेव मारिष॥ 32 सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः। नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव॥ 33 एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः। पूर्ववन्नारदकृतं पुत्रनाशमुपाशृणोत्॥ 34 चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः। देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः॥ 35 श्रीदक्ष उवाच अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया। असाध्वकार्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः॥ 36 ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम्। विघातः श्रेयसः पाप लोकयोरुभयोः कृतः॥ 37 एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः। पार्षदमध्ये चरसि यशोहा निरपत्रपः॥ 38 ननु भागवता नित्यं भूतानुग्रहकातराः। ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम्॥ 39 नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा। मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम्॥ 40 नानुभूय न जानाति पुमान् विषयतीक्ष्णताम्। निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः॥ 41 यन्नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम्। कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम्॥ 42 तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः। तस्माल्लोकेषु ते मूढ न भवेद्भ्रमतः पदम्॥ 43 श्रीशुक उवाच प्रतिजग्राह तद्बाढं नारदः साधुसम्मतः। एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम्॥ 44 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नारदशापो नाम पञ्चमोऽध्याय॥ 5 ॥
Tamil