श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ षष्ठोऽध्यायः
दक्षस्य षष्टिकन्यानां वंशविस्तारः
श्रीशुक उवाच
ततः प्राचेतसोऽसिक्न्यामनुनीतः स्वयम्भुवा।
षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः॥ 1
दश धर्माय कायेन्दोर्द्विषट् त्रिणव दत्तवान्।
भूताङ्गिरः कृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः॥ 2
नामधेयान्यमूषां त्वं सापत्यानां च मे शृणु।
यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः॥ 3
भानुर्लम्बा ककुब्जामिर्विश्वा साध्या मरुत्वती।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः सुताञ् शृणु॥ 4
भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप।
विद्योत आसील्लम्बायास्ततश्च स्तनयित्नवः॥ 5
ककुभः सङ्कटस्तस्य कीकटस्तनयो यतः।
भुवो दुर्गाणि जामेयः स्वर्गो नन्दिस्ततोऽभवत्॥ 6
विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते।
साध्यो गणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः॥ 7
मरुत्वांश्च जयन्तश्च मरुत्वत्यां बभूवतुः।
जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः॥ 8
मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे।
ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम्॥ 9
सङ्कल्पायाश्च सङ्कल्पः कामः सङ्कल्पजः स्मृतः।
वसवोऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु॥ 10
द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वासुर्विभावसुः।
द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः॥ 11
प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः।
ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः॥ 12
अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः।
अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः॥ 13
स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः।
दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला॥ 14
वसोराङ्गिरसी पुत्रो विश्वकर्मा कृतीपतिः।
ततो मनुश्चाक्षुषोऽभूद् विश्वे साध्या मनोः सुताः॥ 15
विभावसोरसूतोषा व्युष्टं रोचिषमातपम्।
पञ्चयामोऽथ भूतानि येन जाग्रति कर्मसु॥ 16
सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः॥ 17
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति।
रुद्रस्य पार्षदाश्चान्ये घोराः भूतविनायकाः॥ 18
प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄनथ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती॥ 19
कृशाश्वोऽर्चिषि भार्यायां धूमकेशमजीजनत्।
धिषणायां वेदशिरो देवलं वयुनं मनुम्॥ 20
तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च।
पतङ्ग्यसूत पतगान् यामिनी शलभानथ॥ 21
सुपर्णासूत गरुडं साक्षाद् यज्ञेशवाहनम्।
सूर्यसूतमनूरुं च कद्रूर्नागाननेकशः॥ 22
कृत्तिकादीनि नक्षत्राणीन्दोः पत्न्यस्तु भारत।
दक्षशापात् सोऽनपत्यस्तासु यक्ष्मग्रहार्दितः॥ 23
पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः।
शृणु नामानि लोकानां मातॄणां शङ्कराणि च॥ 24
अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत्।
अदितिर्दितिर्दनुः काष्ठा अरिष्टा सुरसा इला॥ 25
मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः।
तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः॥ 26
सुरभेर्महिषागावो ये चान्ये द्विशफा नृप।
ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः॥ 27
दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः।
इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः॥ 28
अरिष्टायाश्च गन्धर्वाः काष्ठाया द्विशफेतराः।
सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् शृणु॥ 29
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसुः।
अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलोऽरुणः॥ 30
पुलोमा वृषपर्वा च एकचक्रोऽनुतापनः।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः॥ 31
स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल।
वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली॥ 32
वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः।
उपदानवी हयशिरा पुलोमा कालका तथा॥ 33
उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप।
पुलोमां कालकां च द्वे वैश्वानरसुते तु कः॥ 34
उपयेमेऽथ भगवान् कश्यपो ब्रह्मचोदितः।
पौलोमाः कालकेयाश्च दानवा युद्धशालिनः॥ 35
तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता।
जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः॥ 36
विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत्।
राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः॥ 37
अथातः श्रूयतां वंशो योऽदितेरनुपूर्वशः।
यत्र नारायणो देवः स्वांशेनावातरद् विभुः॥ 38
विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः।
धाता विधाता वरुणो मित्रः शक्र उरुक्रमः॥ 39
विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम्।
मिथुनं च महाभागा यमं देवं यमीं तथा।
सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि॥ 40
छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः।
कन्यां च तपतीं या वै वव्रे संवरणं पतिम्॥ 41
अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः।
यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता॥ 42
पूषानपत्यः पिष्टादो भग्नदन्तोऽभवत् पुरा।
योऽसौ दक्षाय कुपितं जहास विवृतद्विजः॥ 43
त्वष्टुर्दैत्यानुजा भार्या रचना नाम कन्यका।
सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान्॥ 44
तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि।
विमतेन परित्यक्ता गुरुणाऽऽङ्गिरसेन यत्॥ 45
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे षष्ठोऽध्यायः॥ 6 ॥