header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ चतुर्थोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ चतुर्थोऽध्यायः
दक्षजन्म, तत्कृततपसोऽवसाने भगवतो दर्शनं हंसगुह्यस्तोत्रं दक्षभगवत्संवादश्च्
श्रीराजोवाच देवासुरनृणां सर्गो नागानां मृगपक्षिणाम्। सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवेऽन्तरे॥ 1 तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा। अनुसर्गं यया शक्त्या ससर्ज भगवान्परः॥ 2 श्रीसूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः। प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः॥ 3 श्रीशुक उवाच यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः। अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम्॥ 4 द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः। मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया॥ 5 ताभ्यां निर्दह्यमानांस्तानुपलभ्य कुरूद्वह। राजोवाच महान् सोमो मन्युं प्रशमयन्निव॥ 6 मा द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ। विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः॥ 7 अहो प्रजापतिपतिर्भगवान् हरिरव्ययः। वनस्पतीनोषधीश्च ससर्जोर्जमिषं विभुः॥ 8 अन्नं चराणामचरा ह्यपदः पादचारिणाम्। अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः॥ 9 यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः। प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ॥ 10 आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम्। पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः॥ 11 तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः। पतिः प्रजानां भिक्षूणां गृह्यज्ञानां बुधः सुहृत्॥ 12 अन्तर्देहेषु भूतानामात्माऽऽस्ते हरिरीश्वरः। सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्यसौ॥ 13 यः समुत्पतितं देह आकाशान्मन्युमुल्बणम्। आत्मजिज्ञासया यच्छेत् स गुणानतिवर्तते॥ 14 अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः। वार्क्षी ह्येषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम्॥ 15 इत्यामन्त्र्य वरारोहां कन्यामाप्सरसीं नृप। सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे॥ 16 तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल। यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः॥ 17 यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः। रेतसा मनसा चैव तन्ममावहितः शृणु॥ 18 मनसैवासृजत्पूर्वं प्रजापतिरिमाः प्रजाः। देवासुरमनुष्यादीन्नभःस्थलजलौकसः॥ 19 तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः। विन्ध्यपादानुपव्रज्य सोऽचरद्दुष्करं तपः॥ 20 तत्राघमर्षणं नाम तीर्थं पापहरं परम्। उपस्पृश्यानुसवनं तपसातोषयद्धरिम्॥ 21 अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम्। तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः॥ 22 श्रीप्रजापतिरुवाच नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे। अदृष्टधाम्ने गुणतत्त्वबुद्धिभि- र्निवृत्तमानाय दधे स्वयम्भुवे॥ 23 न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः पुरेऽस्मिन्। गुणो यथा गुणिनो व्यक्तदृष्टे- स्तस्मै महेशाय नमस्करोमि॥ 24 देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च विदुः परं यत्। सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे॥ 25 यदोपरामो मनसो नामरूप- रूपस्य दृष्टस्मृतिसम्प्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः॥ 26 मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः। वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति गूढम्॥ 27 स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः। स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः॥ 28 यद्यन्निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसा वोत यस्य। मा भूत् स्वरूपं गुणरूपं हि तत्तत् स वै गुणापायविसर्गलक्षणः॥ 29 यस्मिन् यतो येन च यस्य यस्मै यद् यो यथा कुरुते कार्यते च। परावरेषां परमं प्राक् प्रासिद्धं तद् ब्रह्म तद्धेतुरनन्यदेकम्॥ 30 यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति। कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूम्ने॥ 31 अस्तीति नास्तीति च वस्तुनिष्ठयो- रेकस्थयोर्भिन्नविरुद्धधर्मयोः। अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्यनुकूलं बृहत्तत्॥ 32 योऽनुग्रहार्थं भजतां पादमूल- मनामरूपो भगवाननन्तः। नामानि रूपाणि च जन्मकर्मभि- र्भेजे स मह्यं परमः प्रसीदतु॥ 33 यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति। यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम्॥ 34 श्रीशुक उवाच इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे। आविरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः॥ 35 कृतपादः सुपर्णांसे प्रलम्बाष्टमहाभुजः। चक्रशङ्खासिचर्मेषुधनुःपाशगदाधरः॥ 36 पीतवासा घनश्यामः प्रसन्नवदनेक्षणः। वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः॥ 37 महाकिरीटकटकः स्फुरन्मकरकुण्डलः। काञ्च्यङ्गुलीयवलयनूपुराङ्गदभूषितः॥ 38 त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः। वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः॥ 39 स्तूयमानोऽनुगायद्भिः सिद्धगन्धर्वचारणैः। रूपं तन्महदाश्चर्यं विचक्ष्यागतसाध्वसः॥ 40 ननाम दण्डवद् भूमौ प्रहृष्टात्मा प्रजापतिः। न किञ्चनोदीरयितुमशकत् तीव्रया मुदा। आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः॥ 41 तं तथावनतं भक्तं प्रजाकामं प्रजापतिम्। चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः॥ 42 श्रीभगवानुवाच प्राचेतस महाभाग संसिद्धस्तपसा भवान्। यच्छ्रद्धया मत्परया मयि भावं परं गतः॥ 43 प्रीतोऽहं ते प्रजानाथ यत्तेऽस्योद्बृंहणं तपः। ममैष कामो भूतानां यद् भूयासुर्विभूतयः॥ 44 ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः। विभूतयो मम ह्येता भूतानां भूतिहेतवः॥ 45 तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाऽऽकृतिः। अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः॥ 46 अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः। संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः॥ 47 मय्यनन्तगुणेऽनन्ते गुणतो गुणविग्रहः। यदाऽऽसीत्तत एवाद्यः स्वयम्भूः समभूदजः॥ 48 स वै यदा महादेवो मम वीर्योपबृंहितः। मेने खिलमिवात्मानमुद्यतः सर्गकर्मणि॥ 49 अथ मेऽभिहितो देवस्तपोऽतप्यत दारुणम्। नव विश्वसृजो युष्मान् येनादावसृजद्विभुः॥ 50 एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः। असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम्॥ 51 मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः। मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि॥ 52 त्वत्तोऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया। मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम्॥ 53 श्रीशुक उवाच इत्युक्त्वा मिषतस्तस्य भगवान् विश्वभावनः। स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः॥ 54 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चतुर्थोऽध्यायः॥ 4 ॥
Tamil