header_image
Home
Tamil

एकादशः स्कन्धः :: अथ द्वाविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ द्वाविंशोऽध्यायः
तत्तवानां संख्या पुरुषप्रकृतिविवेकश्च
श्रीउद्धव उवाच कति तत्त्वानि विश्वेश संख्यातान्यृषिभिः प्रभो। नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम॥ १ केचित् षड्विंशतिं प्राहुरपरे पञ्चविंशतिम्। सप्तैके नव षट् केचिच्चत्वार्येकादशापरे॥ २ केचित् सप्तदश प्राहुः षोडशैके त्रयोदश। एतावत्त्वं हि संख्यानामृषयो यद्विवक्षया। गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि॥ ३ श्रीभगवानुवाच युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा। मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम्॥ ४ नैतदेवं यथाऽऽत्थ त्वं यदहं वच्मि तत्तथा। एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः॥ ५ यासां व्यतिकरादासीद् विकल्पो वदतां पदम्। प्राप्ते शमदमेऽप्येति वादस्तमनुशाम्यति॥ ६ परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ। पौर्वापर्यप्रसंख्यानं यथा वक्तुर्विवक्षितम्॥ ७ एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च। पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः॥ ८ पौर्वापर्यमतोऽमीषां प्रसंख्यानमभीप्सताम्। यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात्॥ ९ अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम्। स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत्॥ १० पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि। तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः॥ ११ प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः। सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः॥ १२ सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते। गुणव्यतिकरः कालः स्वभावः सूत्रमेव च॥ १३ पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः। ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव॥ १४ श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः। वाक्पाण्युपस्थपाय्वङ्घ्रिकर्माण्यङ्गोभयं मनः॥ १५ शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः। गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः॥ १६ सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी। सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते॥ १७ व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया। लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात्॥ १८ सप्तैव धातव इति तत्रार्थाः पञ्च खादयः। ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः॥ १९ षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान्। तैर्युक्त आत्मसम्भूतैः सृष्ट्वेदं समुपाविशत्॥ २० चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः। जातानि तैरिदं जातं जन्मावयविनः खलु॥ २१ संख्याने सप्तदशके भूतमात्रेन्द्रियाणि च। पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः॥ २२ तद्वत् षोडशसंख्याने आत्मैव मन उच्यते। भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश॥ २३ एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च। अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ॥ २४ इति नानाप्रसंख्यानं तत्त्वानामृषिभिः कृतम्। सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किमशोभनम्॥ २५ श्रीउद्धव उवाच प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ। अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः॥ २६ प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि। एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि। छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः॥ २७ त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः। त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः॥ २८ श्रीभगवानुवाच प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ। एष वैकारिकः सर्गो गुणव्यतिकरात्मकः॥ २९ ममाङ्ग माया गुणमय्यनेकधा विकल्पबुद्धीश्च गुणैर्विधत्ते। वैकारिकस्त्रिविधोऽध्यात्ममेक- मथाधिदैवमधिभूतमन्यत्॥ ३० दृग् रूपमार्कं वपुरत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे। आत्मा यदेषामपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः। एवं त्वगादि श्रवणादि चक्षु- र्जिह्वादि नासादि च चित्तयुक्तम्॥ ३१ योऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान्महतः प्रसूतः। अहं त्रिवृन्मोहविकल्पहेतु- र्वैकारिकस्तामस ऐन्द्रियश्च॥ ३२ आत्मा परिज्ञानमयो विवादो ह्यस्तीति नास्तीति भिदार्थनिष्ठः। व्यर्थोऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात्॥ ३३ श्रीउद्धव उवाच त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो। उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च॥ ३४ तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः। न ह्येतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः॥३५ श्रीभगवानुवाच मनः कर्ममयं नॄणामिन्द्रियैः पञ्चभिर्युतम्। लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते॥ ३६ ध्यायन् मनोऽनु विषयान् दृष्टान् वानुश्रुतानथ। उद्यत् सीदत् कर्मतन्त्रं स्मृतिस्तदनु शाम्यति॥ ३७ विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः। जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः॥ ३८ जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद। विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः॥ ३९ स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ। तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति॥ ४० इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि। बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद् यथा॥ ४१ नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च। कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते॥ ४२ यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः। तथैव सर्वभूतानां वयोऽवस्थादयः कृताः॥ ४३ सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम्। सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम्॥ ४४ मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान्। म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः॥ ४५ निषेकगर्भजन्मानि बाल्यकौमारयौवनम्। वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव॥ ४६ एता मनोरथमयीर्हान्यस्योच्चावचास्तनूः। गुणसङ्गादुपादत्ते क्वचित् कश्चिज्जहाति च॥ ४७ आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ। न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः॥ ४८ तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ। तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक्॥ ४९ प्रकृतेरेवमात्मानमविविच्याबुधः पुमान्। तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते॥ ५० सत्त्वसङ्गादृषीन् देवान् रजसासुरमानुषान्। तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः॥ ५१ नृत्यतो गायतः पश्यन् यथैवानुकरोति तान्। एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते॥ ५२ यथाम्भसा प्रचलता तरवोऽपि चला इव। चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः॥ ५३ यथा मनोरथधियो विषयानुभवो मृषा। स्वप्नदृष्टाश्च दाशार्ह तथा संसार आत्मनः॥ ५४ अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ ५५ तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः। आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम्॥ ५६ क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथवा। ताडितः सन्निबद्धो वा वृत्त्या वा परिहापितः॥ ५७ निष्ठ्युतो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः। श्रेयस्कामः कृच्छ्रगत आत्मनाऽऽत्मानमुद्धरेत्॥ ५८ श्रीउद्धव उवाच यथैवमनुबुध्येयं वद नो वदतां वर। सुदुःसहमिमं मन्ये आत्मन्यसदतिक्रमम्॥ ५९ विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी। ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान्॥ ६० इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे द्वाविंशोऽध्यायः॥ २२ ॥
Tamil