header_image
Home
Tamil

एकादशः स्कन्धः :: अथ एकविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ एकविंशोऽध्यायः
द्रव्यदेशादिगुणदोषवर्णनम्
श्रीभगवानुवाच य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान्। क्षुद्रान्कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते॥ १ स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः। विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः॥ २ शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु। द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ॥ ३ धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ। दर्शितोऽयं मयाऽऽचारो धर्ममुद्वहतां धुरम्॥ ४ भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्च धातवः। आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः॥ ५ वेदेन नामरूपाणि विषमाणि समेष्वपि। धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये॥ ६ देशकालादिभावानां वस्तूनां मम सत्तम। गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम्॥ ७ अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत्। कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम्॥ ८ कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा। यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः॥ ९ द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च। संस्कारेणाथ कालेन महत्वाल्पतयाथवा॥ १० शक्त्याशक्त्याथवा बुद्ध्या समृद्ध्या च यदात्मने। अघं कुर्वन्ति हि यथा देशावस्थानुसारतः॥ ११ धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम्। कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः॥ १२ अमेध्यलिप्तं यद् येन गन्धं लेपं व्यपोहति। भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते॥ १३ स्नानदानतपोऽवस्थावीर्यसंस्कारकर्मभिः। मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः॥ १४ मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम्। धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः॥ १५ क्वचिद्गुणोऽपि दोषः स्याद् दोषोऽपि विधिना गुणः। गुणदोषार्थनियमस्तद्भिदामेव बाधते॥ १६ समानकर्माचरणं पतितानां न पातकम्। औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः॥ १७ यतो यतो निवर्तेत विमुच्येत ततस्ततः। एष धर्मो नृणां क्षेमः शोकमोहभयापहः॥ १८ विषयेषु गुणाध्यासात् पुंसः सङ्गस्ततो भवेत्। सङ्गात्तत्र भवेत् कामः कामादेव कलिर्नृणाम्॥ १९ कलेर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते। तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम्॥ २० तया विरहितः साधो जन्तुः शून्याय कल्पते। ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च॥ २१ विषयाभिनिवेशेन नात्मानं वेद नापरम्। वृक्षजीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन्॥ २२ फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम्। श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम्॥ २३ उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु॥ २४ न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि। कथं युञ्ज्यात् पुनस्तेषु तांस्तमो विशतो बुधः॥ २५ एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि॥ २६ कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते॥ २७ न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः। उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः॥ २८ ते मे मतमविज्ञाय परोक्षं विषयात्मकाः। हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना॥ २९ हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया। यजन्ते देवता यज्ञैः पितृभूतपतीन् खलाः॥ ३० स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम्। आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिक्॥३१ रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः। उपासत इन्द्रमुख्यान् देवादीन् न तथैव माम्॥ ३२ इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि। तस्यान्त इह भूयास्म महाशाला महाकुलाः॥ ३३ एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम्। मानिनां चातिलुब्धानां मद्वार्तापि न रोचते॥ ३४ वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे। परोक्षवादा ऋषयः परोक्षं मम च प्रियम्॥ ३५ शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम्। अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत्॥ ३६ मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना। भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते॥ ३७ यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात्। आकाशाद् घोषवान् प्राणो मनसा स्पर्शरूपिणा॥ ३८ छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः। ॐकाराद् व्यञ्जितस्पर्शस्वरोष्मान्तःस्थभूषिताम्॥ ३९ विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः। अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम्॥ ४० गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च। त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद् विराट्॥ ४१ किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत्। इत्यस्या हृदयं लोके नान्यो मद् वेद कश्चन॥ ४२ मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम्। एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम्। मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति॥ ४३ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे एकविंशोऽध्यायः॥ २१ ॥
Tamil