header_image
Home
Tamil

एकादशः स्कन्धः :: अथ विंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ विंशोऽध्यायः
ज्ञानकर्मभक्तियोगानां वर्णनम्
श्रीउद्धव उवाच - विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते। अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम्॥ १ वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम्। द्रव्यदेशवयः कालान् स्वर्गं नरकमेव च॥ २ गुणदोषभिदादृष्टिमन्तरेण वचस्तव। निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम्॥ ३ पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर। श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि॥ ४ गुणदोषभिदादृष्टिर्निगमात्ते न हि स्वतः। निगमेनापवादश्च भिदाया इति ह भ्रमः॥ ५ श्रीभगवानुवाच - योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया। ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित्॥ ६ निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु। तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम्॥ ७ यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान्। न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः॥ ८ तावत् कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते॥ ९ स्वधर्मस्थो यजन् यज्ञैरनाशीःकाम उद्धव। न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत्॥ १० अस्मिल्ँलोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः। ज्ञानं विशुद्धमाप्नोति मद्‍भक्तिं वा यदृच्छया॥ ११ स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा। साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम्॥ १२ न नरः स्वर्गतिं काङ्क्षेन्नारकीं वा विचक्षणः। नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति॥ १३ एतद् विद्वान् पुरा मृत्योरभवाय घटेत सः। अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम्॥ १४ छिद्यमानं यमैरेतैः कृतनीडं वनस्पतिम्। खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः॥ १५ अहोरात्रैश्छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः। मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति॥ १६ नृदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम्। मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्महा॥ १७ यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः। अभ्यासेनात्मनो योगी धारयेदचलं मनः॥ १८ धार्यमाणं मनो यर्हि भ्राम्यदाश्वनवस्थितम्। अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत्॥ १९ मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रियः। सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत्॥ २० एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः। हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः॥ २१ सांख्येन सर्वभावानां प्रतिलोमानुलोमतः। भवाप्ययावनुध्यायेन्मनो यावत् प्रसीदति॥ २२ निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः। मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया॥ २३ यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया। ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः॥ २४ यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम्। योगेनैव दहेदंहो नान्यत्तत्र कदाचन॥ २५ स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः। कर्मणां जात्यशुद्धानामनेन नियमः कृतः। गुणदोषविधानेन सङ्गानां त्याजनेच्छया॥ २६ जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु। वेद दुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः॥ २७ ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः। जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन्॥ २८ प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः। कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते॥ २९ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि॥ ३० तस्मान्मद्‍भक्तियुक्तस्य योगिनो वै मदात्मनः। न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह॥ ३१ यत् कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत्। योगेन दानधर्मेण श्रेयोभिरितरैरपि॥ ३२ सर्वं मद्‍भक्तियोगेन मद्‍भक्तो लभतेऽञ्जसा। स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति॥ ३३ न किञ्चित् साधवो धीरा भक्ता ह्येकान्तिनो मम। वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम्॥ ३४ नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम्। तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत्॥ ३५ न मय्येकान्तभक्तानां गुणदोषोद्‍भवा गुणाः। साधूनां समचित्तानां बुद्धेः परमुपेयुषाम्॥ ३६ एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः। क्षेमं विन्दन्ति मत्स्थानं यद्‍ ब्रह्म परमं विदुः॥ ३७ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे विंशोऽध्यायः ॥ २० ॥
Tamil