header_image
Home
Tamil

एकादशः स्कन्धः :: अथ त्रयोविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ त्रयोविंशोऽध्यायः
तितिक्षुद्विजोपाख्यानम् - भिक्षुगीतम्
श्रीबादरायणिरुवाच स एवमाशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः। सभाजयन् भृत्यवचो मुकुन्द- स्तमाबभाषे श्रवणीयवीर्यः॥ १ श्रीभगवानुवाच बार्हस्पत्य स वै नात्र साधुर्वै दुर्जनेरितैः। दुरक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः॥ २ न तथा तप्यते विद्धः पुमान् बाणैः सुमर्मगैः। यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः॥ ३ कथयन्ति महत्पुण्यमितिहासमिहोद्धव। तमहं वर्णयिष्यामि निबोध सुसमाहितः॥ ४ केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः। स्मरता धृतियुक्तेन विपाकं निजकर्मणाम्॥ ५ अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया। वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः॥ ६ ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः। शून्यावसथ आत्मापि काले कामैरनर्चितः॥ ७ दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः। दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम्॥ ८ तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः। धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः॥ ९ तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद। अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः॥ १० ज्ञातयो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव। दैवतः कालतः किञ्चिद् ब्रह्मबन्धोर्नृपार्थिवात्॥ ११ स एवं द्रविणे नष्टे धर्मकामविवर्जितः। उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम्॥ १२ तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः। खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत्॥ १३ स चाहेदमहो कष्टं वृथाऽऽत्मा मेऽनुतापितः। न धर्माय न कामाय यस्यार्थायास ईदृशः॥ १४ प्रायेणार्थाः कदर्याणां न सुखाय कदाचन। इह चात्मोपतापाय मृतस्य नरकाय च॥ १५ यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः। लोभः स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम्॥ १६ अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये। नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम्॥ १७ स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः। भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च॥ १८ एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम्। तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत्॥ १९ भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा। एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः॥ २० अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः। त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम्॥ २१ लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम्। तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम्॥ २२ स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान्। द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि॥ २३ देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश्च भागिनः। असंविभज्य चात्मानं यक्षवित्तः पतत्यधः॥ २४ व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम्। कुशला येन सिध्यन्ति जरठः किं नु साधये॥ २५ कस्मात् संक्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत्। कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः॥ २६ किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत। मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः॥ २७ नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः। येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः॥ २८ सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः। अप्रमत्तोऽखिलस्वार्थे यदि स्यात् सिद्ध आत्मनि॥ २९ तत्र मामनुमोदेरन् देवास्त्रिभुवनेश्वराः। मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत्॥ ३० श्रीभगवानुवाच। इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः। उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनिः॥ ३१ स चचार महीमेतां संयतात्मेन्द्रियानिलः। भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत्॥ ३२ तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः। दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः॥ ३३ केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम्। पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन॥ ३४ प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः। अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे॥३५ मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि। यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत्॥ ३६ तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः। बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यतामिति॥ ३७ क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः। क्षीणवित्त इमां वृत्तिमग्रहीत् स्वजनोज्झितः॥ ३८ अहो एष महासारो धृतिमान् गिरिराडिव। मौनेन साधयत्यर्थं बकवद् दृढनिश्चयः॥ ३९ इत्येके विहसन्त्येनमेके दुर्वातयन्ति च। तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम्॥ ४० एवं स भौतिकं दुःखं दैविकं दैहिकं च यत्। भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत॥ ४१ परिभूत इमां गाथामगायत नराधमैः। पातयद्भिः स्वधर्मस्थो धृतिमास्थाय सात्त्विकीम्॥ ४२ द्विज उवाच। नायं जनो मे सुखदुःखहेतु- र्न देवताऽऽत्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद् यत्॥ ४३ मनो गुणान् वै सृजते बलीय- स्ततश्च कर्माणि विलक्षणानि। शुक्लानि कृष्णान्यथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति॥ ४४ अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे। मनः स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुणसङ्गतोऽसौ॥ ४५ दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि। सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः॥ ४६ समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम्। असंयतं यस्य मनो विनश्यद् दानादिभिश्चेदपरं किमेभिः॥ ४७ मनोवशेऽन्ये ह्यभवन् स्म देवा मनश्च नान्यस्य वशं समेति। भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद् वशे तं स हि देवदेवः॥ ४८ तं दुर्जयं शत्रुमसह्यवेग- मरुन्तुदं तन्न विजित्य केचित्। कुर्वन्त्यसद्विग्रहमत्र मर्त्यै- र्मित्राण्युदासीनरिपून् विमूढाः॥ ४९ देहं मनोमात्रमिमं गृहीत्वा ममाहमित्यन्धधियो मनुष्याः। एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति॥ ५० जनस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनश्चात्र ह भौमयोस्तत्। जिह्वां क्वचित् संदशति स्वदद्भि स्तद्वेदनायां कतमाय कुप्येत्॥ ५१ दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत्। यदङ्गमङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे॥ ५२ आत्मा यदि स्यात् सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः। न ह्यात्मनोऽन्यद् यदि तन्मृषा स्यात् क्रुध्येत कस्मान्न सुखं न दुःखम्॥ ५३ ग्रहा निमित्तं सुखदुःखयोश्चेत् किमात्मनोऽजस्य जनस्य ते वै। ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः॥ ५४ कर्मास्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तद्धि जडाजडत्वे। देहस्त्वचित् पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्ममूलम्॥ ५५ कालस्तु हेतुः सुखदुःखयोश्चेत् किमात्मनस्तत्र तदात्मकोऽसौ। नाग्नेर्हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम्॥ ५६ न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य। यथाहमः संसृतिरूपिणः स्या देवं प्रबुद्धो न बिभेति भूतैः॥ ५७ एतां स आस्थाय परात्मनिष्ठा- मध्यासितां पूर्वतमैर्महर्षिभिः। अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव॥ ५८ श्रीभगवानुवाच। निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम्। निराकृतोऽसद्भिरपि स्वधर्मा- दकम्पितोऽमूं मुनिराह गाथाम्॥ ५९ सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः। मित्रोदासीनरिपवः संसारस्तमसः कृतः॥ ६० तस्मात् सर्वात्मना तात निगृहाण मनो धिया। मय्यावेशितया युक्त एतावान् योगसंग्रहः॥ ६१ य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः। धारयञ्छ्रावयञ्छृण्वन् द्वन्द्वैर्नैवाभिभूयते॥ ६२ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे त्रयोविंशोऽध्यायः॥ २३ ॥
Tamil