header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ पञ्चाशीतितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ पञ्चाशीतितमोऽध्यायः
वसुदेवमुखेन भगवत्तत्त्वप्रतिपादनं भगवता देवकीप्रार्थनया तदीयमृतपुत्राणामानयनं च
श्रीबादरायणिरुवाच अथैकदाऽऽत्मजौ प्राप्तौ कृतपादाभिवन्दनौ। वसुदेवोऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ॥ 1 मुनीनां स वचः श्रुत्वा पुत्रयोर्धामसूचकम्। तद्वीर्यैर्जातविश्रम्भः परिभाष्याभ्यभाषत॥ 2 कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन। जाने वामस्य यत् साक्षात् प्रधानपुरुषौ परौ॥ 3 यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा। स्यादिदं भगवान् साक्षात् प्रधानपुरुषेश्वरः॥ 4 एतन्नानाविधं विश्वमात्मसृष्टमधोक्षज। आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्यज॥ 5 प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः। पारतन्त्र्याद् वै सादृश्याद् द्वयोश्चेष्टैव चेष्टताम्॥ 6 कान्तिस्तेजः प्रभा सत्ता चन्द्राग्न्यर्कर्क्षविद्युताम्। यत् स्थैर्यं भूभृतां भूमेर्वृत्तिर्गन्धोऽर्थतो भवान्॥ 7 तर्पणं प्राणनमपां देवत्वं ताश्च तद्रसः। ओजः सहो बलं चेष्टा गतिर्वायोस्तवेश्वर॥ 8 दिशां त्वमवकाशोऽसि दिशः खं स्फोट आश्रयः। नादो वर्णस्त्वमोङ्कार आकृतीनां पृथक्कृतिः॥ 9 इन्द्रियं त्विन्द्रियाणां त्वं देवाश्च तदनुग्रहः। अवबोधो भवान् बुद्धेर्जीवस्यानुस्मृतिः सती॥ 10 भूतानामसि भूतादिरिन्द्रियाणां च तैजसः। वैकारिको विकल्पानां प्रधानमनुशायिनाम्॥ 11 नश्वरेष्विह भावेषु तदसि त्वमनश्वरम्। यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम्॥ 12 सत्त्वं रजस्तम इति गुणास्तद्वृत्तयश्च याः। त्वय्यद्धा ब्रह्मणि परे कल्पिता योगमायया॥ 13 तस्मान्न सन्त्यमी भावा यर्हि त्वयि विकल्पिताः। त्वं चामीषु विकारेषु ह्यन्यदाव्यावहारिकः॥ 14 गुणप्रवाह एतस्मिन्नबुधास्त्वखिलात्मनः। गतिं सूक्ष्मामबोधेन संसरन्तीह कर्मभिः॥ 15 यदृच्छया नृतां प्राप्य सुकल्पामिह दुर्लभाम्। स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर॥ 16 असावहं ममैवैते देहे चास्यान्वयादिषु। स्नेहपाशैर्निबध्नाति भवान् सर्वमिदं जगत्॥ 17 युवां न नः सुतौ साक्षात् प्रधानपुरुषेश्वरौ। भूभारक्षत्रक्षपण अवतीर्णौ तथाऽऽत्थ ह॥ 18 तत्ते गतोऽस्म्यरणमद्य पदारविन्द- मापन्नसंसृतिभयापहमार्तबन्धो। एतावतालमलमिन्द्रियलालसेन मर्त्यात्मदृक् त्वयि परे यदपत्यबुद्धिः॥ 19 सूतीगृहे ननु जगाद भवानजो नौ सञ्जज्ञ इत्यनुयुगं निजधर्मगुप्त्यै। नानातनूर्गगनवद् विदधज्जहासि को वेद भूम्न उरुगाय विभूतिमायाम्॥ 20 श्रीशुक उवाच आकर्ण्येत्थं पितुर्वाक्यं भगवान् सात्वतर्षभः। प्रत्याह प्रश्रयानम्रः प्रहसन्श्लक्ष्णया गिरा॥ 21 श्रीभगवानुवाच वचो वः समवेतार्थं तातैतदुपमन्महे। यन्नः पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृतः॥ 22 अहं यूयमसावार्य इमे च द्वारकौकसः। सर्वेऽप्येवं यदुश्रेष्ठ विमृग्याः सचराचरम्॥ 23 आत्मा ह्येकः स्वयंज्योतिर्नित्योऽन्यो निर्गुणो गुणैः। आत्मसृष्टैस्तत्कृतेषु भूतेषु बहुधेयते॥ 24 खं वायुर्ज्योतिरापो भूस्तत्कृतेषु यथाशयम्। आविस्तिरोऽल्पभूर्येको नानात्वं यात्यसावपि॥ 25 श्रीशुक उवाच एवं भगवता राजन् वसुदेव उदाहृतम्। श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत्॥ 26 अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता। श्रुत्वाऽऽनीतं गुरोः पुत्रमात्मजाभ्यां सुविस्मिता॥ 27 कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान्। स्मरन्ती कृपणं प्राह वैक्लव्यादश्रुलोचना॥ 28 श्रीदेवक्युवाच राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर। वेदाहं वां विश्वसृजामीश्वरावादिपूरुषौ॥ 29 कालविध्वस्तसत्त्वानां राज्ञामुच्छास्त्रवर्तिनाम्। भूमेर्भारायमाणानामवतीर्णौ किलाद्य मे॥ 30 यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः। भवन्ति किल विश्वात्मंस्तं त्वाद्याहं गतिं गता॥ 31 चिरान्मृतसुतादाने गुरुणा किलचोदितौ। आनिन्यथुः पितृस्थानाद् गुरवे गुरुदक्षिणाम्॥ 32 तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ। भोजराजहतान् पुत्रान् कामये द्रष्टुमाहृतान्॥ 33 ऋषिरुवाच एवं सञ्चोदितौ मात्रा रामः कृष्णश्च भारत। सुतलं संविविशतुर्योगमायामुपाश्रितौ॥ 34 तस्मिन् प्रविष्टावुपलभ्य दैत्यराड् विश्वात्मदैवं सुतरां तथाऽऽत्मनः। तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम सान्वयः॥ 35 तयोः समानीय वरासनं मुदा निविष्टयोस्तत्र महात्मनोस्तयोः। दधार पादाववनिज्य तज्जलं सवृन्द आब्रह्म पुनद् यदम्बु ह॥ 36 समर्हयामास स तौ विभूतिभि- र्महार्हवस्त्राभरणानुलेपनैः। ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च॥ 37 स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन्मुहुः प्रेमविभिन्नया धिया। उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम्॥ 38 बलिरुवाच नमोऽनन्ताय बृहते नमः कृष्णाय वेधसे। साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने॥ 39 दर्शनं वां हि भूतानां दुष्प्रापं चाप्यदुर्लभम्। रजस्तमः स्वभावानां यन्नः प्राप्तौ यदृच्छया॥ 40 दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः। यक्षरक्षः पिशाचाश्च भूतप्रमथनायकाः॥ 41 विशुद्धसत्त्वधाम्न्यद्धा त्वयि शास्त्रशरीरिणि। नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः॥ 42 केचनोद्बद्धवैरेण भक्त्या केचन कामतः। न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः॥ 43 इदमित्थमिति प्रायस्तव योगेश्वरेश्वर। न विदन्त्यपि योगेशा योगमायां कुतो वयम्॥ 44 तन्नः प्रसीद निरपेक्षविमृग्ययुष्मत्- पादारविन्दधिषणान्यगृहान्धकूपात्। निष्क्रम्य विश्वशरणाङ्घ्र्युपलब्धवृत्तिः शान्तो यथैक उत सर्वसखैश्चरामि॥ 45 शाध्यस्मानीशितव्येश निष्पापान् कुरु नः प्रभो। पुमान् यच्छ्रद्धयाऽऽतिष्ठंश्चोदनाया विमुच्यते॥ 46 श्रीभगवानुवाच आसन्मरीचेः षट् पुत्रा ऊर्णायां प्रथमेऽन्तरे। देवाः कं जहसुर्वीक्ष्य सुतं यभितुमुद्यतम्॥ 47 तेनासुरीमगन् योनिमधुनावद्यकर्मणा। हिरण्यकशिपोर्जाता नीतास्ते योगमायया॥ 48 देवक्या उदरे जाता राजन् कंसविहिंसिताः। सा तान्शोचत्यात्मजान्स्वांस्त इमेऽध्यासतेऽन्तिके॥49 इत एतान् प्रणेष्यामो मातृशोकापनुत्तये। ततः शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वराः॥50 स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी। षडिमे मत्प्रसादेन पुनर्यास्यन्ति सद्गतिम्॥ 51 इत्युक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ। पुनर्द्वारवतीमेत्य मातुः पुत्रानयच्छताम्॥ 52 तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्नुतस्तनी। परिष्वज्याङ्कमारोप्य मूर्ध्न्यजिघ्रदभीक्ष्णशः॥ 53 अपाययत् स्तनं प्रीता सुतस्पर्शपरिप्लुता। मोहिता मायया विष्णोर्यया सृष्टिः प्रवर्तते॥ 54 पीत्वामृतं पयस्तस्याः पीतशेषं गदाभृतः। नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः॥ 55 ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम्। मिषतां सर्वभूतानां ययुर्धाम दिवौकसाम्॥ 56 तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम्। मेने सुविस्मिता मायां कृष्णस्य रचितां नृप॥ 57 एवंविधान्यद्भुतानि कृष्णस्य परमात्मनः। वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत॥ 58 श्रीसूत उवाच य इदमनुशृणोति श्रावयेद् वा मुरारे- श्चरितममृतकीर्तेर्वर्णितं व्यासपुत्रैः। जगदघभिदलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम॥ 59 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनं नाम पञ्चाशीतितमोऽध्यायः॥ 85 ॥
Tamil