श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ षड्शीतितमोऽध्यायः
सुभद्राहरणं श्रीकृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेशः
श्रीराजोवाच -
ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः।
यथोपयेमे विजयो या ममासीत् पितामही॥ 1
श्रीशुक उवाच -
अर्जुनस्तीर्थयात्रायां पर्यटन्नवनीं प्रभुः।
गतः प्रभासमश्रृणोन्मातुलेयीं स आत्मनः॥ 2
दुर्योधनाय रामस्तां दास्यतीति न चापरे।
तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात्॥ 3
तत्र वै वार्षिकान् मासानवात्सीत् स्वार्थसाधकः।
पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः॥ 4
एकदा गृहमानीय आतिथ्येन निमंत्र्य तम्।
श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल॥ 5
सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम्।
प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे॥ 6
सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम्।
हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा॥ 7
तां परं समनुध्यायन्नन्तरं प्रेप्सुरर्जुनः।
न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा॥ 8
महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां।
जहारानुमतः पित्रोः कृष्णस्य च महारथः॥ 9
रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान्।
विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव॥ 10
तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः।
गृहीतपादः कृष्णेन सुहृद्भिश्चान्वशाम्यत॥ 11
प्राहिणोत् पारिबर्हाणि वरवध्वोर्मुदा बलः।
महाधनोपस्करेभरथाश्वनरयोषितः॥ 12
श्रीशुक उवाच -
कृष्णस्यासीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः।
कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः॥ 13
स उवास विदेहेषु मिथिलायां गृहाश्रमी।
अनीहयाऽऽगताहार्यनिर्वर्तितनिजक्रियः॥ 14
यात्रामात्रं त्वहरहर्दैवादुपनमत्युत।
नाधिकं तावता तुष्टः क्रियाचक्रे यथोचिताः॥ 15
तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः।
मैथिलो निरहम्मान उभावप्यच्युतप्रियौ॥ 16
तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम्।
आरुह्य साकं मुनिभिर्विदेहान् प्रययौ प्रभुः॥ 17
नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः।
अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः॥ 18
तत्र तत्र तमायान्तं पौरा जानपदा नृप।
उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम्॥ 19
आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य
पाञ्चालकुन्तिमधुकेकयकोशलार्णाः।
अन्ये च तन्मुखसरोजमुदारहास-
स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः॥ 20
तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः
क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन्।
श्रृणवन् दिगन्तधवलं स्वयशोऽशुभघ्नं
गीतं सुरैर्नृभिरगाच्छनकैर्विदेहान्॥ 21
तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप।
अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः॥ 22
दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुल्लाननाशयाः।
कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वांस्तथा मुनीन्॥ 23
स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम्।
मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः॥ 24
न्यमन्त्रयेतां दाशार्हमातिथ्येन सह द्विजैः।
मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली॥ 25
भगवांस्तदभिप्रेत्य द्वयोः प्रियचिकीर्षया।
उभयोराविशद् गेहमुभाभ्यां तदलक्षितः॥ 26
श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान्।
आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः॥ 27
प्रवृद्धभक्त्या उद्धर्षहृदयास्राविलेक्षणः।
नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः॥ 28
सकुटुम्बो वहन् मूर्ध्ना पूजयाञ्चक्र ईश्वरान्।
गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः॥ 29
वाचा मधुरया प्रीणन्निदमाहान्नतर्पितान्।
पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा॥ 30
राजोवाच -
भवान् हि सर्वभूतानामात्मा साक्षी स्वदृग् विभो।
अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः॥ 31
स्ववचस्तदृतं कर्तुमस्मद्दृग्गोचरो भवान्।
यदात्थैकान्तभक्तान् मे नानन्तः श्रीरजः प्रियः॥ 32
को नु त्वच्चरणाम्भोजमेवंविद् विसृजेत् पुमान्।
निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः॥ 33
योऽवतीर्य यदोर्वंशे नृणां संसरतामिह।
यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम्॥ 34
नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे।
नारायणाय ऋषये सुशान्तं तप ईयुषे॥ 35
दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः।
समेतः पादरजसा पुनीहीदं निमेः कुलम्॥ 36
इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः।
उवास कुर्वन् कल्याणं मिथिलानरयोषिताम्॥ 37
श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा।
नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह॥ 38
तृणपीठबृसीष्वेतानानीतेषूपवेश्य सः।
स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा॥ 39
तदम्भसा महाभाग आत्मानं सगृहान्वयम्।
स्नापयाञ्चक्र उद्धर्षो लब्धसर्वमनोरथः॥ 40
फलार्हणोशीरशिवामृताम्बुभिः
मृदा सुरभ्या तुलसीकुशाम्बुजैः।
आराधयामास यथोपपन्नया
सपर्यया सत्त्वविवर्धनान्धसा॥ 41
स तर्कयामास कुतो ममान्वभूद्
गृहान्धकुपे पतितस्य सङ्गमः।
यः सर्वतीर्थास्पदपादरेणुभिः
कृष्णेन चास्यात्मनिकेतभूसुरैः॥ 42
सूपविष्टान् कृतातिथ्याञ्छ्रुतदेव उपस्थितः।
सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः॥ 43
श्रुतदेव उवाच -
नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः।
यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया॥ 44
यथा शयानः पुरुषो मनसैवात्ममायया।
सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासते॥ 45
श्रृणतां गदतां शश्वदर्चतां त्वाभिवन्दताम्।
नृणां संवदतामन्तर्हृदि भास्यमलात्मनाम्॥ 46
हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम्।
आत्मशक्तिभिरग्राह्योऽप्यन्त्युपेतगुणात्मनाम्॥ 47
नमोऽस्तु तेऽध्यात्मविदां परात्मने
अनात्मने स्वात्मविभक्तमृत्यवे।
सकारणाकारणलिङ्गमीयुषे
स्वमाययासंवृतरुद्धदृष्टये॥ 48
स त्वं शाधि स्वभृत्यान् नः किं देव करवाम हे।
एतदन्तो नृणां क्लेशो यद् भवानक्षिगोचरः॥ 49
श्रीशुक उवाच -
तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा।
गृहीत्वा पाणिना पाणिं प्रहसंस्तमुवाच ह॥ 50
श्रीभगवानुवाच -
ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन्।
सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः॥ 51
देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः।
शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया॥ 52
ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह।
तपसा विद्यया तुष्ट्या किमु मत्कलया युतः॥ 53
न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम्।
सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम्॥ 54
दुष्प्रज्ञा अविदित्वैवमवजानन्त्यसूयवः।
गुरुं मां विप्रमात्मानमर्चादाविज्यदृष्टयः॥ 55
चराचरमिदं विश्वं भावा ये चास्य हेतवः।
मद्रूपाणीति चेतस्याधत्ते विप्रो मदीक्षया॥ 56
तस्माद् ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय।
एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः॥ 57
श्रीशुक उवाच -
स इत्थं प्रभुणाऽऽदिष्टः सहकृष्णान् द्विजोत्तमान्।
आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम्॥ 58
एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान्।
उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात्॥ 59
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः॥ 86॥