header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ चतुरशीतितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ चतुरशीतितमोऽध्यायः
ऋषिगणकृता भगवत्स्तुतिः, वसुदेवयज्ञोत्सवः, बन्धूनां प्रस्थापनादिकं च
श्रीशुक उवाच - श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्‍न्य उत स्वगोप्यः। कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः॥ 1 इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु। आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया॥ 2 द्वैपायनो नारदश्च च्यवनो देवलोऽसितः। विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः॥ 3 रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः। पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः॥ 4 द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्‌गिराः। अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे॥ 5 तान् दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः। पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान्॥ 6 तानानर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत्। स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः॥ 7 उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः। सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः॥ 8 श्रीभगवानुवाच - अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम्। देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम्॥ 9 किं स्वल्पतपसां नॄणामर्चायां देवचक्षुषाम्। दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम्॥ 10 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधवः॥ 11 नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्‌मनः। उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया॥ 12 यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः। यत्तीर्थबुद्धिः सलिले न कर्हिचि- ज्जनेष्वभिज्ञेषु स एव गोखरः॥ 13 श्रीशुक उवाच - निशम्येत्थं भगवतः कृष्णस्याकुण्ठमेधसः। वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धियः॥ 14 चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम्। जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्‌गुरुम्॥ 15 श्रीमुनय ऊचुः - यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः। यदीशितव्यायति गूढ ईहया अहो विचित्रं भगवद्विचेष्टितम्॥ 16 अनीह एतद्‌ बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा। भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम्॥ 17 अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च। स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान्॥ 18 ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः। यत्रोपलब्धं सद् व्यक्तमव्यक्तं च ततः परम्॥ 19 तस्माद्‌ ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः। सभाजयसि सद्धाम तद्‌ ब्रह्मण्याग्रणीर्भवान्॥ 20 अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः। त्वया सङ्गम्य सद्‌गत्या यदन्तः श्रेयसां परः॥ 21 नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे। स्वयोगमाययाच्छन्नमहिम्ने परमात्मने॥ 22 न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः। मायाजवनिकाच्छन्नमात्मानं कालमीश्वरम्॥ 23 यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक्। नाममात्रेन्द्रियाभातं न वेद रहितं परम्॥ 24 एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया। मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात्॥ 25 तस्याद्य ते ददृशिमाङ्‌घ्रिमघौघमर्ष- तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः। उत्सिक्तभक्त्युपहताशय जीवकोशा आपुर्भवद्‌गतिमथोऽनुगृहाण भक्तान्॥ 26 श्रीशुक उवाच - इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम्। राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः॥ 27 तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः। प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः॥ 28 श्रीवसुदेव उवाच - नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ। कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम्॥ 29 श्रीनारद उवाच - नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया। कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः॥ 30 सन्निकर्षो हि मर्त्यानामनादरणकारणम्। गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये॥ 31 यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै। स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति॥ 32 तं क्लेशकर्मपरिपाकगुणप्रवाहैः अव्याहतानुभवमीश्वरमद्वितीयम्। प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः॥ 33 अथोचुर्मुनयो राजन्नाभाष्यानकदुंदुभिम्। सर्वेषां श्रृणतां राज्ञां तथैवाच्युतरामयोः॥ 34 कर्मणा कर्मनिर्हार एष साधु निरूपितः। यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः॥ 35 चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा। दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः॥ 36 अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः। यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः॥ 37 वित्तैषणां यज्ञदानैर्गृहैर्दारसुतैषणाम्। आत्मलोकैषणां देव कालेन विसृजेद् बुधः। ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम्॥ 38 ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो। यज्ञाध्ययनपुत्रैस्तान्यनिस्तीर्य त्यजन् पतेत्॥ 39 त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते। यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव॥ 40 वसुदेव भवान् नूनं भक्त्या परमया हरिम्। जगतामीश्वरं प्रार्चः स यद् वां पुत्रतां गतः॥ 41 श्रीशुक उवाच - इति तद्वचनं श्रुत्वा वसुदेवो महामनाः। तानृषीनृत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च॥ 42 त एनमृषयो राजन् वृता धर्मेण धार्मिकम्। तस्मिन्नयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः॥ 43 तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः। स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः॥ 44 तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः। दीक्षाशालामुपाजग्मुरालिप्ता वस्तुपाणयः॥ 45 नेदुर्मृदङ्गपटहशङ्खभेर्यानकादयः। ननृतुर्नटनर्तक्यस्तुष्टुवुः सूतमागधाः। जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः॥ 46 तमभ्यषिञ्चन् विधिवदक्तमभ्यक्तमृत्विजः। पत्‍नीभिरष्टादशभिः सोमराजमिवोडुभिः॥ 47 ताभिर्दुकूलवलयैर्हारनूपुरकुण्डलैः। स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः॥ 48 तस्यर्त्विजो महाराज रत्‍नकौशेयवाससः। ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे॥ 49 तदा रामश्च कृष्णश्च स्वैः स्वैर्बन्धुभिरन्वितौ। रेजतुः स्वसुतैर्दारैर्जीवेशौ स्वविभूतिभिः॥ 50 ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः। प्राकृतैर्वैकृतैर्यज्ञैर्द्रव्यज्ञानक्रियेश्वरम्॥ 51 अथर्त्विग्भ्योऽददात् काले यथाम्नातं स दक्षिणाः। स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः॥ 52 पत्‍नीसंयाजावभृथ्यैश्चरित्वा ते महर्षयः। सस्नू रामह्रदे विप्रा यजमानपुरःसराः॥ 53 स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः। ततः स्वलङ्कृतो वर्णानाश्वभ्योऽन्नेन पूजयत्॥ 54 बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा। विदर्भकोशलकुरून् काशिकेकयसृञ्जयान्॥ 55 सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान्। श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम्॥ 56 धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ। नारदो भगवान् व्यासः सुहृत्संबंधिबान्धवाः॥ 57 बन्धून् परिष्वज्य यदून् सौहृदात् क्लिन्नचेतसः। ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः॥ 58 नन्दस्तु सह गोपालैर्बृहत्या पूजयार्चितः। कृष्णरामोग्रसेनाद्यैर्न्यवात्सीद्‌बन्धुवत्सलः॥ 59 वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम्। सुहृद्‌वृतः प्रीतमना नन्दमाह करे स्पृशन्॥ 60 श्रीवसुदेव उवाच - भ्रातरीशकृतः पाशो नृणां यः स्नेहसंज्ञितः। तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम्॥ 61 अस्मास्वप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः। मैत्र्यर्पिताफला वापि न निवर्तेत कर्हिचित्॥ 62 प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि। अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः॥ 63 मा राज्यश्रीरभूत् पुंसः श्रेयस्कामस्य मानद। स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक्॥ 64 श्रीशुक उवाच - एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः। रुरोद तत्कृतां मैत्रीं स्मरन्नश्रुविलोचनः॥ 65 नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः। अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत्॥ 66 ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः। परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदैः॥ 67 वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः। दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ॥ 68 नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे। मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः॥ 69 बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः। वीक्ष्य प्रावृषमासन्नां ययुर्द्वारवतीं पुनः॥ 70 जनेभ्यः कथयाञ्चक्रुर्यदुदेवमहोत्सवम्। यदासीत्तीर्थयात्रायां सुहृत्सन्दर्शनादिकम्॥ 71 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः॥ 84॥
Tamil