header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ त्र्यशीतितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ त्र्यशीतितमोऽध्यायः
द्रौपदीं प्रति श्रीकृष्णपत्नीनां स्वस्वोद्वाहवृत्तान्तवर्णनम्
श्रीशुक उवाच तथानुगृह्य भगवान् गोपीनां स गुरुर्गतिः। युधिष्ठिरमथापृच्छत् सर्वांश्च सुहृदोऽव्ययम्॥ 1 त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः। प्रत्यूचुर्हृष्टमनसस्तत्पादेक्षाहतांहसः॥ 2 कुतोऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित्। पिबन्ति ये कर्णपुटैरलं प्रभो देहंभृतां देहकृदस्मृतिच्छिदम्॥ 3 हित्वाऽऽत्मधामविधुतात्मकृतत्र्यवस्थ- मानन्दसम्प्लवमखण्डमकुण्ठबोधम्। कालोपसृष्टनिगमावन आत्तयोग- मायाकृतिं परमहंसगतिं नताः स्म॥ 4 श्रीऋषिरुवाच इत्युत्तमश्लोकशिखामणिं जने- ष्वभिष्टुवत्स्वन्धककौरवस्त्रियः। समेत्य गोविन्दकथा मिथोऽगृणं- स्त्रिलोकगीताः शृणु वर्णयामि ते॥ 5 श्रीद्रौपद्युवाच हे वैदर्भ्यच्युतो भद्रे हे जाम्बवति कौशले। हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे॥ 6 हे कृष्णपत्न्य एतन्नो ब्रूत वो भगवान् स्वयम्। उपयेमे यथा लोकमनुकुर्वन् स्वमायया॥ 7 श्रीरुक्मिण्युवाच चैद्याय मार्पयितुमुद्यतकार्मुकेषु राजस्वजेयभटशेखरिताङ्घ्रिरेणुः। निन्ये मृगेन्द्र इव भागमजावियूथात् तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय॥ 8 श्रीसत्यभामोवाच यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार। जित्वर्क्षराजमथ रत्नमदात् स तेन भीतः पितादिशत मां प्रभवेऽपि दत्ताम्॥ 9 श्रीजाम्बवत्युवाच प्राज्ञाय देहकृदमुं निजनाथदैवं सीतापतिं त्रिणवहान्यमुनाभ्ययुध्यत्। ज्ञात्वा परीक्षित उपाहरदर्हणं मां पादौ प्रगृह्य मणिनाहममुष्य दासी॥ 10 श्रीकालिन्द्युवाच तपश्चरन्तीमाज्ञाय स्वपादस्पर्शनाशया। सख्योपेत्याग्रहीत् पाणिं योऽहं तद्गृहमार्जनी॥ 11 श्रीमित्रविन्दोवाच यो मां स्वयंवर उपेत्य विजित्य भूपान् निन्ये श्वयूथगमिवात्मबलिं द्विपारिः। भ्रातॄंश्च मेऽपकुरुतः स्वपुरं श्रियौक- स्तस्यास्तु मेऽनुभवमङ्घ्र्यवनेजनत्वम्॥ 12 श्रीसत्योवाच सप्तोक्षणोऽतिबलवीर्यसुतीक्ष्णशृङ्गान् पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय। तान् वीरदुर्मदहनस्तरसा निगृह्य क्रीडन् बबन्ध ह यथा शिशवोऽजतोकान्॥ 13 य इत्थं वीर्यशुल्कां मां दासीभिश्चतुरङ्गिणीम्। पथि निर्जित्य राजन्यान् निन्ये तद्दास्यमस्तु मे॥ 14 श्रीभद्रोवाच पिता मे मातुलेयाय स्वयमाहूय दत्तवान्। कृष्णे कृष्णाय तच्चित्तामक्षौहिण्या सखीजनैः॥ 15 अस्य मे पादसंस्पर्शो भवेज्जन्मनि जन्मनि। कर्मभिर्भ्राम्यमाणाया येन तच्छ्रेय आत्मनः॥ 16 श्रीलक्ष्मणोवाच ममापि राज्ञ्यच्युतजन्मकर्म श्रुत्वा मुहुर्नारदगीतमास ह। चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान्॥ 17 ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत्॥ 18 यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः। अयं तु बहिराच्छन्नो दृश्यते स जले परम्॥ 19 श्रुत्वैतत् सर्वतो भूपा आययुर्मत्पितुः पुरम्। सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः॥ 20 पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः। आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः॥ 21 आदाय व्यसृजन् केचित् सज्यं कर्तुमनीश्वराः। आकोटि ज्यां समुत्कृष्य पेतुरेकेऽमुना हताः॥ 22 सज्यं कृत्वा परे वीरा मागधाम्बष्ठचेदिपाः। भीमो दुर्योधनः कर्णो नाविदंस्तदवस्थितिम्॥ 23 मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तदवस्थितिम्। पार्थो यत्तोऽसृजद् बाणं नाच्छिनत् पस्पृशे परम्॥ 24 राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु। भगवान् धनुरादाय सज्यं कृत्वाथ लीलया॥ 25 तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज्जले। छित्त्वेषुणापातयत्तं सूर्ये चाभिजिति स्थिते॥ 26 दिवि दुन्दुभयो नेदुर्जयशब्दयुता भुवि। देवाश्च कुसुमासारान् मुमुचुर्हर्षविह्वलाः॥ 27 तद् रङ्गमाविशमहं कलनूपुराभ्यां पद्भ्यां प्रगृह्य कनकोज्वलरत्नमालाम्। नूत्ने निवीय परिधाय च कौशिकाग्र्ये सव्रीडहासवदना कवरीधृतस्रक्॥ 28 उन्नीय वक्त्रमुरुकुन्तलकुण्डलत्विड्- गण्डस्थलं शिशिरहासकटाक्षमोक्षैः। राज्ञो निरीक्ष्य परितः शनकैर्मुरारे- रंसेऽनुरक्तहृदया निदधे स्वमालाम्॥ 29 तावन्मृदङ्गपटहाः शङ्खभेर्यानकादयः। निनेदुर्नटनर्तक्यो ननृतुर्गायका जगुः॥ 30 एवं वृते भगवति मयेशे नृपयूथपाः। न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः॥ 31 मां तावद् रथमारोप्य हयरत्नचतुष्टयम्। शार्ङ्गमुद्यम्य सन्नद्धस्तस्थावाजौ चतुर्भुजः॥ 32 दारुकश्चोदयामास काञ्चनोपस्करं रथम्। मिषतां भूभुजां राज्ञि मृगाणां मृगराडिव॥ 33 तेऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन। संयत्ता उद्धृतेष्वासा ग्रामसिंहा यथा हरिम्॥ 34 ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्वङ्घ्रिकन्धराः। निपेतुः प्रधने केचिदेके सन्त्यज्य दुद्रुवुः॥ 35 ततः पुरीं यदुपतिरत्यलङ्कृतां रविच्छदध्वजपटचित्रतोरणाम्। कुशस्थलीं दिवि भुवि चाभिसंस्तुतां समाविशत्तरणिरिव स्वकेतनम्॥ 36 पिता मे पूजयामास सुहृत्सम्बन्धिबान्धवान्। महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः॥ 37 दासीभिः सर्वसम्पद्भिर्भटेभरथवाजिभिः। आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः॥ 38 आत्मारामस्य तस्येमा वयं वै गृहदासिकाः। सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम॥ 39 महिष्य ऊचुः भौमं निहत्य सगणं युधि तेन रुद्धा ज्ञात्वाथ नः क्षितिजये जितराजकन्याः। निर्मुच्य संसृतिविमोक्षमनुस्मरन्तीः पादाम्बुजं परिणिनाय य आप्तकामः॥ 40 न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत। वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम्॥ 41 कामयामह एतस्य श्रीमत्पादरजः श्रियः। कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः॥ 42 व्रजस्त्रियो यद् वाञ्छन्ति पुलिन्द्यस्तृणवीरुधः। गावश्चारयतो गोपाः पदस्पर्शं महात्मनः॥ 43 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः॥ 83 ॥
Tamil