header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ दशमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ दशमोऽध्यायः
श्रीरामचरितम्
श्रीशुक उवाच। खट्वाङ्गाद् दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः। अजस्ततो महाराजस्तस्माद् दशरथोऽभवत्॥ 1 तस्यापि भगवान् एष साक्षाद् ब्रह्ममयो हरिः। अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः। रामलक्ष्मणभरतशत्रुघ्ना इति संज्ञया॥ 2 तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः। श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः॥ 3 गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्‍भ्यां प्रियायाः। पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम्। वैरूप्याच्छूर्पणख्याः प्रियविरहरुषा- ऽऽरोपितभ्रूविजृम्भ। त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रोऽवतान्नः॥ 4 विश्वामित्राध्वरे येन मारीचाद्या निशाचराः। पश्यतो लक्ष्मणस्यैव हता नैर्‌ऋतपुंगवाः॥ 5 यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम्। आदाय बालगजलील इवेक्षुयष्टिं सज्जीकृतं नृप विकृष्य बभञ्ज मध्ये॥ 6 जित्वानुरूपगुणशीलवयोऽङ्‌गरूपां सीताभिधां श्रियमुरस्यभिलब्धमानाम्। मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं दर्पं महीमकृत यस्त्रिरराजबीजाम्॥ 7 यः सत्यपाशपरिवीतपितुर्निदेशं स्त्रैणस्य चापि शिरसा जगृहे सभार्यः। राज्यं श्रियं प्रणयिनः सुहृदो निवासं त्यक्त्वा ययौ वनमसूनिव मुक्तसङ्‌गः॥ 8 रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धे- स्तस्याः खरत्रिशिरदूषणमुख्यबन्धून्। जघ्ने चतुर्दशसहस्रमपारणीय- कोदण्डपाणिरटमान उवास कृच्छ्रम्॥ 9 सीताकथाश्रवणदीपितहृच्छयेन सृष्टं विलोक्य नृपते दशकन्धरेण। जघ्नेऽद्‍भुतैणवपुषाऽऽश्रमतोऽपकृष्टो मारीचमाशु विशिखेन यथा कमुग्रः॥ 10 रक्षोऽधमेन वृकवद् विपिनेऽसमक्षं वैदेहराजदुहितर्यपयापितायाम् भ्रात्रा वने कृपणवत् प्रियया वियुक्तः स्त्रीसङ्‌गिनां गतिमिति प्रथयंश्चचार॥ 11 दग्ध्वाऽऽत्मकृत्यहतकृत्यमहन् कबन्धं सख्यं विधाय कपिभिर्दयितागतिं तैः। बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यै- र्वेलामगात् स मनुजोऽजभवार्चिताङ्‌घ्रि॥ 12 यद्रोषविभ्रमविवृत्तकटाक्षपात- सम्भ्रान्तनक्रमकरो भयगीर्णघोषः। सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्॥ 13 न त्वां वयं जडधियो नु विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम्। यत्सत्त्वतः सुरगणा रजसः प्रजेशा मन्योश्च भूतपतयः स भवान् गुणेशः॥ 14 कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्‍नीम्। बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः॥ 15 बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्‌गैः। सुग्रीवनीलहनुमत्प्रमुखैरनीकै- र्लङ्‌कां विभीषणदृशाऽऽविशदग्रदग्धाम्॥ 16 सा वानरेन्द्रबलरुद्धविहारकोष्ठ- श्रीद्वारगोपुरसदोवलभीविटङ्‌का। निर्भज्यमानधिषणध्वजहेमकुम्भ- श्रृङ्‌गाटका गजकुलैर्ह्रदिनीव घूर्णा॥ 17 रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ- धूम्राक्षदुर्मुखसुरान्तनरान्तकादीन्। पुत्रं प्रहस्तमतिकायविकम्पनादीन् सर्वानुगान् समहिनोदथ कुम्भकर्णम्॥ 18 तां यातुधानपृतनामसिशूलचाप- प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम्। सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद नीलाङ्‌गदर्क्षपनसादिभिरन्वितोऽगात्॥ 19 तेऽनीकपा रघुपतेरभिपत्य सर्वे द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः। जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्‌गदाद्याः सीताभिमर्शहतमङ्‌गलरावणेशान्॥ 20 रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट आरुह्य यानकमथाभिससार रामम्। स्वःस्यन्दने द्युमति मातलिनोपनीते विभ्राजमानमहनन्निशितैः क्षुरप्रैः॥ 21 रामस्तमाह पुरुषादपुरीष यन्नः कान्तासमक्षमसतापहृता श्ववत् ते। त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः॥ 22 एवं क्षिपन् धनुषि संधितमुत्ससर्ज बाणं स वज्रमिव तद्‌धृदयं बिभेद। सोऽसृग् वमन् दशमुखैर्न्यपतद् विमाना- द्धहेति जल्पति जने सुकृतीव रिक्तः॥ 23 ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः। मन्दोदर्या समं तस्मिन् प्ररुदन्त्य उपाद्रवन्॥ 24 स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान्। रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना॥ 25 हा हताः स्म वयं नाथ लोकरावण रावण। कं यायाच्छरणं लङ्का त्वद्विहीना परार्दिता॥ 26 नैवं वेद महाभाग भवान् कामवशं गतः। तेजोऽनुभावं सीताया येन नीतो दशामिमाम्॥ 27 कृतैषा विधवा लङ्का वयं च कुलनन्दन। देहः कृतोऽन्नं गृध्राणामात्मा नरकहेतवे॥ 28 श्रीशुक उवाच। स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः। पितृमेधविधानेन यदुक्तं साम्परायिकम्॥ 29 ततो ददर्श भगवानशोकवनिकाश्रमे। क्षामां स्वविरहव्याधिं शिंशपामूलमास्थिताम्॥ 30 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत। आत्मसंदर्शनाह्लादविकसन्मुखपङ्कजाम्॥ 31 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः। विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम्॥ 32 लंकामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम्। अवकीर्यमाणः कुसुमैर्लोकपालार्पितैः पथि॥ 33 उपगीयमानचरितः शतधृत्यादिभिर्मुदा। गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम्॥ 34 महाकारुणिकोऽतप्यज्जटिलं स्थण्डिलेशयम्। भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः॥ 35 पादुके शिरसि न्यस्य रामं प्रत्युद्यतोऽग्रजम्। नन्दिग्रामात् स्वशिबिराद् गीतवादित्रनिःस्वनैः॥ 36 ब्रह्मघोषेण च मुहुः पठद्‌भिर्ब्रह्मवादिभिः। स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः॥ 37 सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः। श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः॥ 38 पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च। पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः॥ 39 पादुके न्यस्य पुरतः प्राञ्जलिर्वाष्पलोचनः। तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैःrrr 40 रामो लक्ष्मणसीताभ्यां विप्रेभ्यो येऽर्हसत्तमाः। तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः॥ 41 धुन्वन्त उत्तरासङ्‌गान् पतिं वीक्ष्य चिरागतम्। उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा॥ 42 पादुके भरतोऽगृह्णाच्चामरव्यजनोत्तमे। विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः॥ 43 धनुर्निषङ्‌गाञ्चत्रुघ्नः सीता तीर्थकमण्डलुम्। अबिभ्रदङ्‌गदः खड्गं हैमं चर्मर्क्षराण् नृप॥ 44 पुष्पकस्थोऽन्वितः स्त्रीभिः स्तूयमानश्च वन्दिभिः। विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः॥ 45 भ्रातृभिर्नन्दितः सोऽपि सोत्सवां प्राविशत् पुरीम्। प्रविश्य राजभवनं गुरुपत्‍नीः स्वमातरम्॥ 46 गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत्। वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः॥ 47 पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः। आरोप्याङ्‌केऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः॥ 48 जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः। अभ्यषिञ्चद् यथैवेन्द्रं चतुःसिन्धुजलादिभिः॥ 49 एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः। स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ॥ 50 अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः। प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः। जुगोप पितृवद् रामो मेनिरे पितरं च तम्॥ 51 त्रेतायां वर्तमानायां कालः कृतसमोऽभवत्। रामे राजनि धर्मज्ञे सर्वभूतसुखावहे॥ 52 वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः। सर्वे कामदुघा आसन् प्रजानां भरतर्षभ॥ 53 नाधिव्याधिजराग्लानिदुःखशोकभयक्लमाः। मृत्युश्चानिच्छतां नासीद् रामे राजन्यधोक्षजे॥ 54 एकपत्‍नीव्रतधरो राजर्षिचरितः शुचिः। स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत्॥ 55 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती। धिया ह्रिया च भावज्ञा भर्तुः सीताहरन्मनः॥ 56 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे रामचरिते दशमोऽध्यायः॥ 10 ॥
Tamil