header_image
Home
Tamil

नवमः स्कन्धः ~:0:~ नवमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: नवमः स्कन्धः
अथ नवमोऽध्यायः
गङ्गावतरणकथा भगीरथवृत्तं सौदासचरितं च
श्रीशुक उवाच। अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया। कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः॥ 1 दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान्। भगीरथस्तस्य पुत्रस्तेपे स सुमहत् तपः॥ 2 दर्शयामास तं देवी प्रसन्ना वरदास्मि ते। इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः॥ 3 कोऽपि धारयिता वेगं पतन्त्या मे महीतले। अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम्॥ 4 किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम्। मृजामि तदघं कुत्र राजंस्तत्र विचिन्त्यताम्॥ 5 श्रीभगीरथ उवाच। साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः। हरन्त्यघं तेऽङ्गसङ्गात् तेष्वास्ते ह्यघभिद्धरिः॥ 6 धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम्। यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु॥ 7 इत्युक्त्वा स नृपो देवं तपसातोषयच्छिवम्। कालेनाल्पीयसा राजंस्तस्येशः समतुष्यत॥ 8 तथेति राज्ञाभिहितं सर्वलोकहितः शिवः। दधारावहितो गङ्गां पादपूतजलां हरेः॥ 9 भगीरथः स राजर्षिर्निन्ये भुवनपावनीम्। यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते॥ 10 रथेन वायुवेगेन प्रयान्तमनुधावती। देशान् पुनन्ती निर्दग्धानासिञ्चत् सगरात्मजान्॥ 11 यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि। सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः॥ 12 भस्मीभूताङ्गसंगेन स्वर्याताः सगरात्मजाः। किं पुनः श्रद्धया देवीं ये सेवन्ते धृतव्रताः॥ 13 न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम्। अनन्तचरणाम्भोजप्रसूताया भवच्छिदः॥ 14 संनिवेश्य मनो यस्मिञ्छ्रद्धया मुनयोऽमलाः। त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम्॥ 15 श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत्। सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततोऽभवत्॥ 16 ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात्। दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतः॥ 17 ततः सुदासस्तत्पुत्रो मदयन्तीपतिर्नृपः। आहुर्मित्रसहं यं वै कल्माषाङ्‌घ्रिमुत क्वचित्। वसिष्ठशापाद् रक्षोऽभूदनपत्यः स्वकर्मणा॥ 18 श्रीराजोवाच। किं निमित्तो गुरोः शापः सौदासस्य महात्मनः। एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि॥ 19 श्रीशुक उवाच। सौदासो मृगयां किञ्चिच्चरन् रक्षो जघान ह। मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया॥ 20 स चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे। गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम्॥ 21 परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा। राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि॥ 22 रक्षःकृतं तद् विदित्वा चक्रे द्वादशवार्षिकम्। सोऽप्यपोऽञ्जलिनाऽऽदाय गुरुं शप्तुं समुद्यतः॥ 23 वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ। दिशः खमवनीं सर्वं पश्यञ्जीवमयं नृपः॥ 24 राक्षसं भावमापन्नः पादे कल्माषतां गतः। व्यवायकाले ददृशे वनौकोदम्पती द्विजौ॥ 25 क्षुधार्तो जगृहे विप्रं तत्पत्‍न्याहाकृतार्थवत्। न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः॥ 26 मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि। देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम्॥ 27 देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः। तस्मादस्य वधो वीर सर्वार्थवध उच्यते॥ 28 एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः। आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम्। सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः॥ 29 सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो। कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः॥ 30 तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः। कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान्॥ 31 यद्वयं क्रियते भक्षस्तर्हि मां खाद पूर्वतः। न जीविष्ये विना येन क्षणं च मृतकं यथा॥ 32 एवं करुणभाषिण्या विलपन्त्या अनाथवत्। व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः॥ 33 ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम्। शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती॥ 34 यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया। तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः॥ 35 एवं मित्रसहं शप्त्वा पतिलोकपरायणा। तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता॥ 36 विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः। विज्ञाय ब्राह्मणीशापं महिष्या स निवारितः॥ 37 अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः। वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात्॥ 38 सा वै सप्त समा गर्भमबिभ्रन्न व्यजायत। जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते॥ 39 अश्मकान्मूलको जज्ञे यः स्त्रीभिः परिरक्षितः। नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत्॥ 40 ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः। राजा विश्वसहो यस्य खट्वांगश्चक्रवर्त्यभूत्॥ 41 यो देवैरर्थितो दैत्यानवधीद् युधि दुर्जयः। मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः॥ 42 न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः। न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः॥ 43 न बाल्येऽपि मतिर्मह्यमधर्मे रमते क्वचित्। नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्वहम्॥ 44 देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः। न वृणे तमहं कामं भूतभावनभावनः॥ 45 ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम्। न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे॥ 46 अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु। रूढं प्रकृत्याऽऽत्मनि विश्वकर्तु- र्भावेन हित्वा तमहं प्रपद्ये॥ 47 इति व्यवसितो बुद्ध्या नारायणगृहीतया। हित्वान्यभावमज्ञानं ततः स्वं भावमाश्रितः॥ 48 यत् तद् ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम्। भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः॥ 49 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सूर्यवंशानुवर्णने नवमोऽध्यायः ॥ 9 ॥
Tamil