header_image
Home
Tamil

अष्टमः स्कन्धः ~:0:~ विंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ विंशोऽध्यायः
बलिकर्तृकं पद्त्रयमितभूमिदानं भगवतो विराड्‍रूपग्रहणं च
श्रीशुक उवाच - बलिरेवं गृहपतिः कुलाचार्येण भाषितः। तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम्॥ 1 श्रीबलिरुवाच - सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम्। अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित्॥ 2 स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम्। प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा॥ 3 न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम्। सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम्॥ 4 नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात्। न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात्॥ 5 यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम्। तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत्॥ 6 श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः। दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु॥ 7 यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभिः। तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि॥ 8 सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः। न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः॥ 9 मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः। कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि वाञ्छितम्॥ 10 यजन्ति यज्ञक्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः। स एव विष्णुर्वरदोऽस्तु वा परो दास्याम्यमुष्मै क्षितिमीप्सितां मुने॥ 11 यद्यपसावधर्मेण मां बध्नीयादनागसम्। तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम्॥ 12 एष वा उत्तमश्लोको न जिहासति यद् यशः। हत्वा मैनां हरेद् युद्धे शयीत निहतो मया॥ 13 श्रीशुक उवाच - एवमश्रद्धितं शिष्यमनादेशकरं गुरुः। शशाप दैवप्रहितः सत्यसन्धं मनस्विनम्॥ 14 दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया। मच्छासनातिगो यस्त्वमचिराद् भ्रश्यसे श्रियः॥ 15 एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान्। वामनाय ददावेनामर्चित्वोदकपूर्वकम्॥ 16 विन्ध्यावलिस्तदाऽऽगत्य पत्‍नी जालकमालिनी। आनिन्ये कलशं हैममवनेजन्यपां भृतम्॥ 17 यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा। अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः॥ 18 तदाऽसुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः। तत्कर्म सर्वेऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः॥ 19 नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः। मनस्विनानेन कृतं सुदुष्करं विद्वानदाद् यद् रिपवे जगत्त्रयम्॥ 20 तद् वामनं रूपमवर्धताद्‍भुतं हरेरनन्तस्य गुणत्रयात्मकम्। भूः खं दिशो द्यौर्विवराः पयोधय स्तिर्यङ्‌नृदेवा ऋषयो यदासत॥ 21 काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत्। ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम्॥ 22 रसामचष्टाङ्‌घ्रितलेऽथ पादयो- र्महीं महीध्रान्पुरुषस्य जङ्घयोः। पतत्त्रिणो जानुनि विश्वमूर्ते- रूर्वोर्गणं मारुतमिन्द्रसेनः॥ 23 सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन्जघने आत्ममुख्यान्। नाभ्यां नभः कुक्षिषु सप्तसिन्धू- नुरुक्रमस्योरसि चर्क्षमालाम्॥ 24 हृद्यङ्ग धर्मं स्तनयोर्मुरारे- र्ऋतं च सत्यं च मनस्यथेन्दुम्। श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान्॥ 25 इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि। केशेषु मेघाञ्छ्वसनं नासिकाया मक्ष्णोश्च सूर्यं वदने च वह्निम्॥ 26 वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु। अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम्॥ 27 स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम्। छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च॥ 28 नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषींश्च। प्राणेषु गात्रे स्थिरजंगमानि सर्वाणि भूतानि ददर्श वीरः॥ 29 सर्वात्मनीदं भुवनं निरीक्ष्य सर्वेऽसुराः कश्मलमापुरङ्ग। सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्‌गं स्तनयित्‍नुघोषम्॥ 30 पर्जन्यघोषो जलजः पाञ्चजन्यः कौमोदकी विष्णुगदा तरस्विनी। विद्याधरोऽसिः शतचन्द्रयुक्त स्तूणोत्तमावक्षयसायकौ च॥ 31 सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः। स्फुरत्किरीटाङ्‌गदमीनकुण्डल- श्रीवत्सरत्‍नोत्तममेखलाम्बरैः॥ 32 मधुव्रतस्रग्वनमालया वृतो रराज राजन्भगवानुरुक्रमः। क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः॥ 33 पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि। उरुक्रमस्याङ्‌घ्रिरुपर्युपर्यथो महर्जनाभ्यां तपसः परं गतः॥ 34 ॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः॥ 20 ॥
Tamil