header_image
Home
Tamil

अष्टमः स्कन्धः ~:0:~ एकोनविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ एकोनविंशोऽध्यायः
बलिवामनसंवादः, पदत्रयभूमियाचनम्, शुक्रद्वारा दाननिषेधश्च
श्रीशुक उवाच - इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम्। निशम्य भगवान्प्रीतः प्रतिनन्द्येदमब्रवीत्॥ 1 श्रीभगवानुवाच - वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम्। यस्य प्रमाणं भृगवः सांपराये पितामहः कुलवृद्धः प्रशान्तः॥ 2 न ह्येतस्मिन्कुले कश्चित्निःसत्त्वः कृपणः पुमान्। प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये॥ 3 न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्‌मुखा ये त्वमनस्विनो नृपाः। युष्मत्कुले यद्यशसामलेन प्रह्राद उद्‍भाति यथोडुपः खे॥ 4 यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम्। प्रतिवीरं दिग्विजये नाविन्दत गदायुधः॥ 5 यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम्। नात्मानं जयिनं मेने तद्वीर्यं भूर्यनुस्मरन्॥ 6 निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा। हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः॥ 7 तमायान्तं समालोक्य शूलपाणिं कृतान्तवत्। चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः॥ 8 यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव। अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः॥ 9 एवं स निश्चित्य रिपोः शरीर- माधावतो निर्विविशेऽसुरेन्द्र। श्वासानिलान्तर्हितसूक्ष्मदेह- स्तत्प्राणरन्ध्रेण विविग्नचेताः॥ 10 स तन्निकेतं परिमृश्य शून्य- मपश्यमानः कुपितो ननाद। क्ष्मां द्यां दिशः खं विवरान्समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः॥ 11 अपश्यन्निति होवाच मयान्विष्टमिदं जगत्। भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान्॥ 12 वैरानुबन्ध एतावानामृत्योरिह देहिनाम्। अज्ञानप्रभवो मन्युरहंमानोपबृंहितः॥ 13 पिता प्रह्लादपुत्रस्ते तद्विद्वान्द्विजवत्सलः। स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्योऽदात् स याचितः॥ 14 भवानाचरितान्धर्मानास्थितो गृहमेधिभिः। ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः॥ 15 तस्मात् त्वत्तो महीमीषद् वृणेऽहं वरदर्षभात्। पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम॥ 16 नान्यत् ते कामये राजन्वदान्याज्जगदीश्वरात्। नैनः प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रहः॥ 17 श्रीबलिरुवाच - अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः। त्वं बालो बालिशमतिः स्वार्थं प्रत्यबुधो यथा॥ 18 मां वचोभिः समाराध्य लोकानामिकमीश्वरम्। पदत्रयं वृणीते योऽबुद्धिमान् द्वीपदाशुषम्॥ 19 न पुमान् मामुपव्रज्य भूयो याचितुमर्हति। तस्माद् वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे॥ 20 श्रीभगवानुवाच - यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम्। न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप॥ 21 त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते। नववर्षसमेतेन सप्तद्वीपवरेच्छया॥ 22 सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः। अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम्॥ 23 यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम्। नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः॥ 24 पुंसोऽयं संसृतेर्हेतुरसन्तोषोऽर्थकामयोः। यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः॥ 25 यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते। तत् प्रशाम्यत्यसन्तोषादम्भसेवाशुशुक्षणिः॥ 26 तस्मात् त्रीणि पदान्येव वृणे त्वद् वरदर्षभात्। एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम्॥ 27 श्रीशुक उवाच - इत्युक्तः स हसन्नाह वाञ्छातः प्रतिगृह्यताम्। वामनाय महीं दातुं जग्राह जलभाजनम्॥ 28 विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम्। जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः॥ 29 श्रीशुक्र उवाच - एष वैरोचने साक्षाद् भगवान् विष्णुरव्ययः। कश्यपाददितेर्जातो देवानां कार्यसाधकः॥ 30 प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता। न साधु मन्ये दैत्यानां महानुपगतोऽनयः॥ 31 एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम्। दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः॥ 32 त्रिभिः क्रमैरिमाल्ँलोकान्विश्वकायः क्रमिष्यति। सर्वस्वं विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम्॥ 33 क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः। खं च कायेन महता तार्तीयस्य कुतो गतिः॥ 34 निष्ठां ते नरके मन्ये ह्यप्रदातुः प्रतिश्रुतम्। प्रतिश्रुतस्य योऽनीशः प्रतिपादयितुं भवान्॥ 35 न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते। दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः॥ 36 धर्माय यशसेऽर्थाय कामाय स्वजनाय च। पञ्चधा विभजन्वित्तमिहामुत्र च मोदते॥ 37 अत्रापि बह्वृचैर्गीतं शृणु मेऽसुरसत्तम। सत्यमोमिति यत् प्रोक्तं यन्नेत्याहानृतं हि तत्॥ 38 सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते। वृक्षेऽजीवति तन्न स्याद्नृतं मूलमात्मनः॥ 39 तद् यथा वृक्ष उन्मूलः शुष्यत्युद्वर्ततेऽचिरात्। एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः॥ 40 पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति। यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान्। भिक्षवे सर्वमोङ्कुर्वन्नालं कामेन चात्मने॥ 41 अथैतत् पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः। सर्वं नेत्यनृतं ब्रूयात् स दुष्कीर्तिः श्वसन्मृतः॥ 42 स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसंकटे। गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम्॥ 43 ॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे वामनप्रादुर्भावे एकोनविंशोऽध्यायः ॥ 19 ॥
Tamil