header_image
Home
Tamil

अष्टमः स्कन्धः ~:०:~ अथ प्रथमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: अष्टमः स्कन्धः
अथ प्रथमोऽध्यायः
स्वायम्भुवादिमन्वन्तरचतुष्टयवर्णनं यज्ञावतारचरितं च
श्रीराजोवाच स्वायम्भुवस्येह गुरो वंशोऽयं विस्तराच्छ्रुतः। यत्र विश्वसृजां सर्गो मनूनन्यान्वदस्व नः॥ 1 यत्र यत्र हरेर्जन्म कर्माणि च महीयसः। गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम्॥ 2 यद्यस्मिन्नन्तरे ब्रह्मन्भगवान्विश्वभावनः। कृतवान्कुरुते कर्ता ह्यतीतेऽनागतेऽद्य वा॥ 3 श्रीऋषिरुवाच। मनवोऽस्मिन्व्यतीताः षट् कल्पे स्वायम्भुवादयः। आद्यस्ते कथितो यत्र देवादीनां च सम्भवः॥ 4 आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः। धर्मज्ञानोपदेशार्थं भगवान्पुत्रतां गतः॥ 5 कृतं पुरा भगवतः कपिलस्यानुवर्णितम्। आख्यास्ये भगवान्यज्ञो यच्चकार कुरूद्वह॥ 6 विरक्तः कामभोगेषु शतरूपापतिः प्रभुः। विसृज्य राज्यं तपसे सभार्यो वनमाविशत् 7 सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन्। तप्यमानस्तपो घोरमिदमन्वाह भारत॥ 8 श्रीमनुरुवाच। येन चेतयते विश्वं विश्वं चेतयते न यम्। यो जागर्ति शयानेऽस्मिन्नायं तं वेद वेद सः॥ 9 आत्मावास्यमिदं विश्वं यत् किञ्चिज्जगत्यां जगत्। तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥ 10 यं न पश्यति पश्यन्तं चक्षुर्यस्य न रिष्यति। तं भूतनिलयं देवं सुपर्णमुपधावत॥ 11 न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः। विश्वस्यामूनि यद् यस्माद् विश्वं च तदृतं महत्॥ 12 स विश्वकायः पुरुहूत ईशः सत्यः स्वयंज्योतिरजः पुराणः। धत्तेऽस्य जन्माद्यजयाऽऽत्मशक्त्या तां विद्ययोदस्य निरीह आस्ते॥ 13 अथाग्रे ऋषयः कर्माणीहन्तेऽकर्महेतवे। ईहमानो हि पुरुषः प्रायोऽनीहां प्रपद्यते॥ 14 ईहते भगवानीशो न हि तत्र विषज्जते। आत्मलाभेन पूर्णार्थो नावसीदन्ति येऽनु तम्॥ 15 तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम्। नॄन्शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्येऽखिलधर्मभावनम्॥ 16 श्रीशुक उवाच। इति मन्त्रोपनिषदं व्याहरन्तं समाहितम्। दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा॥ 17 तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः। यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम्॥ 18 स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतोऽभवत्। द्युमत्सुषेणरोचिष्मत्प्रमुखास्तस्य चात्मजाः॥ 19 तत्रेन्द्रो रोचनस्त्वासीद् देवाश्च तुषितादयः। ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः॥ 20 ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्यभूत्। तस्यां जज्ञे ततो देवो विभुरित्यभिविश्रुतः॥ 21 अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः। अन्वशिक्षन्व्रतं तस्य कौमारब्रह्मचारिणः॥ 22 तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः। पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप॥ 23 वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः। सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित्॥ 24 धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः। सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह॥ 25 सोऽनृतव्रतदुःशीलानसतो यक्षराक्षसान्। भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सखः॥ 26 चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः। पृथुः ख्यातिर्नरः केतुरित्याद्या दश तत्सुताः॥ 27 सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः। ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे॥ 28 देवा वैधृतयो नाम विधृतेस्तनया नृप। नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा॥ 29 तत्रापि जज्ञे भगवान्हरिण्यां हरिमेधसः। हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात्॥ 30 श्रीराजोवाच। बादरायण एतत् ते श्रोतुमिच्छामहे वयम्। हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत्॥ 31 तत्कथा सुमहत् पुण्यं धन्यं स्वस्त्ययनं शुभम्। यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः॥ 32 श्रीसूत उवाच। परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः। उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम्॥ 33 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुचरिते प्रथमोऽध्यायः ॥ 1 ॥
Tamil