श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ चतुर्दशोऽध्यायः
वृत्रासुरस्य पूर्वजन्मवृत्तान्ते चित्रकेतु उपाख्यानम्, अङ्गिरःप्रसादेन लब्धे स्वसुते विनष्टे, चित्रकेतोरत्यन्त शोकः, कृतद्युतेर्विलापश्च
श्रीपरीक्षिदुवाच -
रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।
नारायणे भगवति कथमासीद् दृढा मतिः॥ 1
देवानां शुद्धसत्त्वानांऋषीणां चामलात्मनाम्।
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते॥ 2
रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः।
तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः॥ 3
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम।
मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिध्यति॥ 4
मुक्तानामपि सिद्धानां नारायणपरायणः।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने॥ 5
वृत्रस्तु स कथं पापः सर्वलोकोपतापनः।
इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे॥ 6
अत्र नः संशयो भूयाञ्छ्रोतुं कौतूहलं प्रभो।
यः पौरुषेण समरे सहस्राक्षमतोषयत्॥ 7
श्रीसूत उवाच -
परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत्॥ 8
श्रीशुक उवाच -
श्रृणुष्वावहितो राजन्नितिहासमिमं यथा।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि॥ 9
आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप।
चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्मही॥ 10
तस्य भार्यासहस्राणां सहस्राणि दशाभवन्।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम्॥ 11
रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः।
सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभूत्॥ 12
न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः।
सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः॥ 13
तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः।
लोकाननुचरन्नेतानुपागच्छद्यदृच्छया॥ 14
तं पूजयित्वा विधिवत्प्रत्युत्थानार्हणादिभिः।
कृतातिथ्यमुपासीदत्सुखासीनं समाहितः॥ 15
महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ।
प्रतिपूज्य महाराज समाभाष्येदमब्रवीत्॥ 16
अङ्गिरा उवाच -
अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः।
यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः॥ 17
आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात्।
राज्ञा तथा प्रकृतयो नरदेवाहिताधयः॥ 18
अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः।
पौरा जानपदा भूपा आत्मजा वशवर्तिनः॥ 19
यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे।
लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः॥ 20
आत्मनः प्रीयते नात्मा परतः स्वत एव वा।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम्॥ 21
एवं विकल्पितो राजन् विदुषा मुनिनापि सः।
प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम्॥ 22
चित्रकेतुरुवाच -
भगवन् किं न विदितं तपोज्ञानसमाधिभिः।
योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु॥ 23
तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम्।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया॥ 24
लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः।
न नन्दयन्त्यप्रजं मां क्षुत्तृट्काममिवापरे॥ 25
ततः पाहि महाभाग पूर्वैः सह गतं तमः।
यथा तरेम दुष्पारं प्रजया तद् विधेहि नः॥ 26
श्रीशुक उवाच -
इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः॥ 27
ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः॥ 28
अथाह नृपतिं राजन् भवितैकस्तवात्मजः।
हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ॥ 29
सापि तत्प्राशनादेव चित्रकेतोरधारयत्।
गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम्॥ 30
तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः।
ववृधे शूरसेनेशतेजसा शनकैर्नृप॥ 31
अथ काल उपावृत्ते कुमारः समजायत।
जनयन् शूरसेनानां श्रृण्वतां परमां मुदम्॥ 32
हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः।
वाचयित्वाऽऽशिषो विप्रैः कारयामास जातकम्॥ 33
तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च।
ग्रामान् हयान् गजान् प्रादाद् धेनूनामर्बुदानि षट्॥ 34
ववर्ष कामानन्येषां पर्जन्य इव देहिनाम्।
धन्यं यशस्यमायुष्यं कुमारस्य महामनाः॥ 35
कृच्छ्रलब्धेऽथ राजर्षेस्तनयेऽनुदिनं पितुः।
यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत॥ 36
मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः।
कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत्॥ 37
चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति।
न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम्॥ 38
ताः पर्यतप्यन्नात्मानं गर्हयन्त्योऽभ्यसूयया।
आनपत्येन दुःखेन राज्ञोऽनादरणेन च॥ 39
धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम्।
सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम्॥ 40
दासीनां को नु सन्तापः स्वामिनः परिचर्यया।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः॥ 41
एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा।
राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत्॥ 42
विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः।
गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति॥ 43
कृतद्युतिरजानन्ती सपत्नीनामघं महत्।
सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे॥ 44
शयानं सुचिरं बालमुपधार्य मनीषिणी।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत्॥ 45
सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम्।
प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि॥ 46
तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं
घ्नन्त्याः कराभ्यामुर उच्चकैरपि।
प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं
ददर्श बालं सहसा मृतं सुतम्॥ 47
पपात भूमौ परिवृद्धया शुचा
मुमोह विभ्रष्टशिरोरुहाम्बरा॥ 48
ततो नृपान्तःपुरवर्तिनो जना
नराश्च नार्यश्च निशम्य रोदनम्।
आगत्य तुल्यव्यसनाः सुदुःखिता-
स्ताश्च व्यलीकं रुरुदुः कृतागसः॥ 49
श्रुत्वा मृतं पुत्रमलक्षितान्तकं
विनष्टदृष्टिः प्रपतन् स्खलन् पथि।
स्नेहानुबन्धैधितया शुचा भृशं
विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः॥ 50
पपात बालस्य स पादमूले
मृतस्य विस्रस्तशिरोरुहाम्बरः।
दीर्घं श्वसन् बाष्पकलोपरोधतो
निरुद्धकण्ठो न शशाक भाषितुम्॥ 51
पतिं निरीक्ष्योरुशुचार्पितं तदा
मृतं च बालं सुतमेकसन्ततिम्।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं
सती दधाना विललाप चित्रधा॥ 52
स्तनद्वयं कुङ्कुमगन्धमण्डितं
निषिञ्चती साञ्जनबाष्पबिन्दुभिः।
विकीर्य केशान् विगलत्स्रजः सुतं
शुशोच चित्रं कुररीव सुस्वरम्॥ 53
अहो विधातस्त्वमतीव बालिशो
यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे।
परेऽनुजीवत्यपरस्य या मृतिः
विपर्ययश्चेत्त्वमसि ध्रुवः परः॥ 54
न हि क्रमश्चेदिह मृत्युजन्मनोः
शरीरिणामस्तु तदाऽऽत्मकर्मभिः।
यः स्नेहपाशो निजसर्गवृद्धये
स्वयं कृतस्ते तमिमं विवृश्चसि॥ 55
त्वं तात नार्हसि च मां कृपणामनाथां
त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम्।
अञ्जस्तरेम भवताप्रजदुस्तरं यद्
ध्वान्तं न याह्यकरुणेन यमेन दूरम्॥ 56
उत्तिष्ठ तात त इमे शिशवो वयस्याः
त्वामाह्वयन्ति नृपनन्दन संविहर्तुम्।
सुप्तश्चिरं ह्यशनया च भवान् परीतो
भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम्॥ 57
नाहं तनूज ददृशे हतमङ्गला ते
मुग्धस्मितं मुदितवीक्षणमाननाब्जम्।
किं वा गतोऽस्यपुनरन्वयमन्यलोकं
नीतोऽघृणेन न श्रृणोमि कला गिरस्ते॥ 58
श्रीशुक उवाच -
विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः।
चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह॥ 59
तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः।
रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम्॥ 60
एवं कश्मलमापन्नं नष्टसंज्ञमनायकम्।
ज्ञात्वाङ्गिरा नाम मुनिराजगाम सनारदः॥ 61
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्शोऽध्यायः॥ 14॥