header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ त्रयोदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ त्रयोदशोऽध्यायः
ब्रह्महत्याभयादिन्द्रस्य पलायनम्, अश्वमेधयज्ञेन ब्रह्महत्यानिवारणं च
श्रीशुक उवाच वृत्रे हते त्रयो लोका विना शक्रेण भूरिद। सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः॥ 1 देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम्। प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः॥ 2 श्रीराजोवाच इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने। येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत्॥ 3 श्रीशुक उवाच वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः। तद्वधायार्थयन्निन्द्रं नैच्छद् भीतो बृहद्वधात्॥ 4 इन्द्र उवाच स्त्रीभूजलद्रुमैरेनो विश्वरूपवधोद्भवम्। विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम्॥ 5 श्रीशुक उवाच ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन्। याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः॥ 6 हयमेधेन पुरुषं परमात्मानमीश्वरम्। इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात्॥ 7 ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान्। श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात्॥ 8 तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन। हत्वापि सब्रह्म चराचरं त्वं न लिप्यसे किं खलनिग्रहेण॥ 9 श्रीशुक उवाच एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम्। ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम्॥ 10 तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत्। ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः॥ 11 तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम्। जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम्॥ 12 विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम्। मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम्॥ 13 नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते। प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम्॥ 14 स आवसत्पुष्करनालतन्तू- नलब्धभोगो यदिहाग्निदूतः। वर्षाणि साहस्रमलक्षितोऽन्तः स चिन्तयन् ब्रह्मवधाद् विमोक्षम्॥ 15 तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः। स सम्पदैश्वर्यमदान्धबुद्धि- र्नीतस्तिरश्चां गतिमिन्द्रपत्न्या॥ 16 ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः। पापस्तु दिग्देवतया हतौजा- स्तं नाभ्यभूदवितं विष्णुपत्न्या॥ 17 तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत। यथावद्दीक्षयाञ्चक्रुः पुरुषाराधनेन ह॥ 18 अथेज्यमाने पुरुषे सर्वदेवमयात्मनि। अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः॥ 19 स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप। नीतस्तेनैव शून्याय नीहार इव भानुना॥ 20 स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः। इष्ट्वाधियज्ञं पुरुषं पुराण- मिन्द्रो महानास विधूतपापः॥ 21 इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम्। भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः॥ 22 पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम्। धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम्॥ 23 इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रविजयो नाम त्रयोदशोऽध्या‍यः ॥ 13 ॥
Tamil