header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ दशमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ दशमोऽध्यायः
देवानां दधीचेः सकाशात्तद्स्थियाचनं वज्रनिर्माणं देवदानवयुद्धं च
श्रीशुक उवाच - इन्द्रमेवं समादिश्य भगवान् विश्वभावनः। पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः॥ 1 तथाभियाचितो देवैर्ऋषिराथर्वणो महान्। मोदमान उवाचेदं प्रहसन्निव भारत॥ 2 अपि वृन्दारका यूयं न जानीथ शरीरिणाम्। संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः॥ 3 जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः। क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे॥ 4 श्रीदेवा ऊचुः - किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम्। भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम्॥ 5 ननु स्वार्थपरो लोको न वेद परसङ्‌कटम्। यदि वेद न याचेत नेति नाह यदीश्वरः॥ 6 श्रीऋषिरुवाच - धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः। एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम्॥ 7 योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्। ईहेत भूतदयया स शोच्यः स्थावरैरपि॥ 8 एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः। यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति॥ 9 अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्‌गुरैः। यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः॥ 10 श्रीशुक उवाच - एवं कृतव्यवसितो दध्यङ्‌ङाथर्वणस्तनुम्। परे भगवति ब्रह्मण्यात्मानं सन्नयन्जहौ॥ 11 यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः। आस्थितः परमं योगं न देहं बुबुधे गतम्॥ 12 अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा। मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः॥ 13 वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत। स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव॥ 14 वृत्रमभ्यद्रवच्छेत्तुमसुरानीकयूथपैः। पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम्॥ 15 ततः सुराणामसुरै रणः परमदारुणः। त्रेतामुखे नर्मदायामभवत् प्रथमे युगे॥ 16 रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः। मरुद्‌भिर्ऋभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम्॥ 17 दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया। नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः॥ 18 नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः। हयग्रीवः शङ्‌कुशिरा विप्रचित्तिरयोमुखः॥ 19 पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः। दैतेया दानवा यक्षा रक्षांसि च सहस्रशः॥ 20 सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः। प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम्॥ 21 अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः। गदाभिः परिघैर्बाणैः प्रासमुद्‍गरतोमरैः॥ 22 शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः। सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान्॥ 23 न तेऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः। पुङ्‌खानुपुङ्‌खपतितैर्ज्योतींषीव नभोघनैः॥ 24 न ते शस्त्रास्त्रवर्षौघा ह्यासेदुः सुरसैनिकान्। छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा॥ 25 अथ क्षीणास्त्रशस्त्रौघा गिरिश्रृङ्‌गद्रुमोपलैः। अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत्॥ 26 तानक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः। द्रुमैर्दृषद्‍भिर्विविधाद्रिश्रृङ्‌गैः अविक्षतांस्तत्रसुरिन्द्रसैनिकान्॥ 27 सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः। कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः॥ 28 ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः। पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः॥ 29 वृत्रोऽसुरांस्ताननुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत्। पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः॥ 30 कालोपपन्नां रुचिरां मनस्विना- मुवाच वाचं पुरुषप्रवीरः। हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन्छम्बर मे श्रृणुध्वम्॥ 31 जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता। लोको यशश्चाथ ततो यदि ह्यमुं को नाम मृत्युं न वृणीत युक्तम् ॥ 32 द्वौ सम्मताविह मृत्यू दुरापौ यद् ब्रह्मसन्धारणया जितासुः। कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशयेऽनिवृत्तः॥ 33 इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्या‍यः॥10
Tamil