header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ नवमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ नवमोऽध्यायः
विश्वरूपवधः, वृत्रस्योत्पत्तिर्देवकृतभगवत्स्तवनं भगवद्वरप्रदानं च
श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत। सोमपीथं सुरापीथमन्नादमिति शुश्रुम॥ 1 स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः। अवदद् यस्य पितरो देवाः सप्रश्रयं नृप॥ 2 स एव हि ददौ भागं परोक्षमसुरान् प्रति। यजमानोऽवहद् भागं मातृस्नेहवशानुगः॥ 3 तद् देवहेलनं तस्य धर्मालीकं सुरेश्वरः। आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद् रुषा॥ 4 सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः। कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः॥ 5 ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः। संवत्सरान्ते तदघं भूतानां स विशुद्धये। भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः॥ 6 भूमिस्तुरीयं जग्राह खातपूरवरेण वै। ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते॥ 7 तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः। तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते॥ 8 शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः। रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते॥ 9 द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम्। तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन्॥ 10 हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे। इन्द्रशत्रो विवर्धस्व माचिरं जहि विद्विषम्॥ 11 अथान्वाहार्यपचनादुत्थितो घोरदर्शनः। कृतान्त इव लोकानां युगान्तसमये यथा॥ 12 विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने। दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम्॥ 13 तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम्॥ 14 देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी। नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम्॥ 15 दरीगम्भीरवक्त्रेण पिबता च नभस्तलम्। लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम्॥ 16 महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः। वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश॥ 17 येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना। स वै वृत्र इति प्रोक्तः पापः परमदारुणः॥ 18 तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः। स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत् तानि कृत्स्नशः॥ 19 ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः। प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः॥ 20 श्रीदेवा ऊचुः वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः। हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः॥ 21 अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम्। विनोपसर्पत्यपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम्॥ 22 यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाऽऽबध्य ततार दुर्गम्। स एव नस्त्वाष्ट्रभयाद् दुरन्तात् त्राताऽऽश्रितान् वारिचरोऽपि नूनम्॥ 23 पुरा स्वयम्भूरपि संयमाम्भ स्युदीर्णवातोर्मिरवैः कराले। एकोऽरविन्दात् पतितस्ततार तस्माद् भयाद् येन स नोऽस्तु पारः॥ 24 य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम्। वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथगीशमानिनः॥ 25 यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव। कृतावतारस्तनुभिः स्वमायया कृत्वाऽऽत्मसात् पाति युगे युगे च॥ 26 तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम्। व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा॥ 27 श्रीशुक उवाच इति तेषां महाराज सुराणामुपतिष्ठताम्। प्रतीच्यां दिश्यभूदाविः शङ्खचक्रगदाधरः॥ 28 आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ। पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम्॥ 29 दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः। दण्डवत् पतिता राजञ्छनैरुत्थाय तुष्टुवुः॥ 30 श्रीदेवा ऊचुः नमस्ते यज्ञवीर्याय वयसे उत ते नमः। नमस्ते ह्यस्तचक्राय नमः सुपुरुहूतये॥ 31 यत् ते गतीनां तिसृणामीशितुः परमं पदम्। नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति॥ 32
ॐ नमस्तेऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान्॥ 33
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि॥ 34
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः॥ 35
न हि विरोध उभयं भगवत्यपरिणितगुणगणो ईश्वरेऽनवगाह्य-माहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणा-भासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रह-वादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात्॥ 36
समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम्॥ 37
स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः॥ 38
अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारित-दृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्यात्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः॥ 39
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामनुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रित-जलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे॥ 40
अस्माकं तावकानां तव नतानां तत ततामह तव चरणनलिनयुगलध्यानानुबद्ध-हृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनु-कम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम्॥ 41
अथ भगवंस्तवास्माभि-रखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमाया-विनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मणः परमात्मनः कियानिह वा अर्थविशेषो विज्ञापनीयः स्याद् विस्फुलिङ्गादिभिरिव हिरण्यरेतसः॥ 42
अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनी-मुपसृतानां वयं यत्कामेनोपसादिताः॥ 43
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम्। ग्रस्तानि येन नः कृष्ण तेजांस्यस्त्रायुधानि च॥ 44 हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय। सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ता- वन्ते परीष्टगतये हरये नमस्ते॥ 45 श्रीशुक उवाच अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः। स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः॥ 46 श्रीभगवानुवाच प्रीतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया। आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि॥ 47 किं दुरापं मयि प्रीते तथापि विबुधर्षभाः। मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित्॥ 48 न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक्। तस्य तानिच्छतो यच्छेद् यादि सोऽपि तथाविधः॥ 49 स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि। न राति रोगिणोऽपथ्यं वाञ्छतो हि भिषक्तमः॥ 50 मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम्। विद्याव्रततपःसारं गात्रं याचत मा चिरम्॥ 51 स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम्। यद् वा अश्वशिरो नाम तयोरमरतां व्यधात्॥ 52 दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम्। विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः॥ 53 युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति। ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः। येन वृत्रशिरो हर्ता मत्तेज उपबृंहितः॥ 54 तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पदः। भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान्॥ 55 ॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे नवमोऽध्यायः ॥ 9॥
Tamil