header_image
Home
Tamil

षष्ठः स्कन्धः ~:०:~ अथ एकादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: षष्ठः स्कन्ध
अथ एकादशोऽध्यायः
वृत्रस्य भक्तिज्ञानवैराग्ययुक्तवीरोचितोद्गाराः
श्रीशुक उवाच - त एवं शंसतो धर्मं वचः पत्युरचेतसः। नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप॥ 1 विशीर्यमाणां पृतनामासुरीमसुरर्षभः। कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत्॥ 2 दृष्ट्वातप्यत सङ्‌क्रुद्ध इन्द्रशत्रुरमर्षितः। तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह॥ 3 किं व उच्चरितैर्मातुर्धावद्‌भिः पृष्ठतो हतैः। न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम्॥ 4 यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि। अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्यसुखे स्पृहा॥ 5 एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून्। व्यनदत् सुमहाप्राणो येन लोका विचेतसः॥ 6 तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै। निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः॥ 7 ममर्द पद्‍भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्‌गदुर्मदः। गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः॥ 8 विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम्। चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया॥ 9 स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोग्रविक्रमः। जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन्नृप॥ 10 ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा। अपासरद्‌ भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः॥ 11 न सन्नवाहाय विषण्णचेतसे प्रायुङ्‌क्त भूयः स गदां महात्मा। इन्द्रोऽमृतस्यन्दिकराभिमर्श- वीतव्यथक्षतवाहोऽवतस्थे॥ 12 स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य। स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसञ्जगाद॥ 13 श्रीवृत्र उवाच दिष्ट्या भवान् मे समवस्थितो रिपुः यो ब्रह्महा गुरुहा भ्रातृहा च। दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्‌धृदाचिरात्॥ 14 यो नोऽग्रजस्यात्मविदो द्विजातेः गुरोरपापस्य च दीक्षितस्य। विश्रभ्य खड्गेन शिरांस्यवृश्चय् पशोरिवाकरुणः स्वर्गकामः॥ 15 ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम्। कृच्छ्रेण मच्छूलविभिन्नदेहं अस्पृष्टवह्निं समदन्ति गृध्राः॥ 16 अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम्। तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि॥ 17 अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह। तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये॥ 18 सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम्। मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा॥ 19 नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः। तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः॥ 20 अहं समाधाय मनो यथाऽऽह सङ्‌कर्षणस्तच्चरणारविन्दे। त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः॥ 21 पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम्। न राति यद् द्वेष उद्वेग आधिः मदः कलिर्व्यसनं सम्प्रयासः॥ 22 त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र। ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः॥ 23 अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः। मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः॥ 24 न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम्। न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्‌क्षे॥ 25 अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः। प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम्॥ 26 ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययाऽऽत्मात्मजदारगेहे ष्वासक्तचित्तस्य न नाथ भूयात्॥ 27 इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रास्येन्द्रोप्देशो नामैकादशोऽध्या‍यः॥ 11 ॥
Tamil