header_image
Home
Tamil

प्रथमः स्कन्धः :: अथ तृतीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: प्रथमः स्कन्धः
अथ तृतीयोऽध्यायः
भगवाश्चतुर्विंशत्यवताराणं संक्षेपतो वर्णनम्
सूतउवाच जगृहे पौरुषं रूपं भगवान्महदादिभिः। सम्भूतं षोडशकलमादौ लोकसिसृक्षय॥ 01 यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः॥ 02 यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः। तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्॥ 03 पश्यन्त्यदो रूपमदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम्। सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्॥ 04 एतन्नानावताराणां निधानं बीजमव्ययम्। यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः॥ 05 स एव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम्॥ 06 द्वितीयं तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः॥ 07 तृतीयमृषिसर्गं च देवर्षित्वमुपेत्य सः। तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥ 08 तुर्ये धर्मकलासर्गे नरनारायणावृषी। भूत्वाऽऽत्मोपशमोपेतमकरोद् दुश्चरं तपः॥ 09 पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम्। प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम्॥ 10 षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्॥ 11 ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत। स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम्॥ 12 अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः। दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम्॥ 13 ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः। दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः॥ 14 रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे। नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्॥ 15 सुरासुराणामुदधिं मथ्नतां मन्दराचलम्। दध्रे कमठरूपेण पृष्ठ एकादशे विभुः॥ 16 धान्वन्तरं द्वादशमं त्रयोदशम मेवच। अपाययत्सुरानन्यान्मोहिन्या मोहयन् स्त्रिया॥ 17 चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम्। ददार करजैर्वक्षस्येरकां कटकृद्यथा॥ 18 पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥ 19 अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान्। त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम्॥ 20 ततः सप्तदशे जातः सत्यवत्यां पराशरात्। चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥ 21 नरदेवत्वमापन्नः सुरकार्यचिकीर्षया। समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥ 22 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी। रामकृष्णाविति भुवो भगवानहरद्भरम्॥ 23 ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति॥ 24 अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु। जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥ 25 अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः। यथा विदासिनः कुल्याः सरसः स्युः सहस्रशः॥ 26 ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥ 27 एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्। इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥ 28 जन्म गुह्यं भगवतो य एतत्प्रयतो नरः। सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते॥ 29 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः। मायागुणैर्विरचितं महदादिभिरात्मनि॥ 30 यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले। एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः॥ 31 अतः परं यदव्यक्तमव्यूढगुणव्यूहितम्। अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः॥ 32 यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा। अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम्॥ 33 यद्येषोपरता देवी माया वैशारदी मतिः। सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते॥ 34 एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च। वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥ 35 स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्। भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥ 36 न चास्य कश्चिन्निपुणेन धातु रवैति जन्तुः कुमनीष ऊतीः। नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः॥ 37 स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः। योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्॥ 38 अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे। कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः॥ 39 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम्। उत्तमश्लोकचरितं चकार भगवानृषिः॥ 40 निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत्। तदिदं ग्राहयामास सुतमात्मवतां वरम्॥ 41 सर्ववेदेतिहासानां सारं सारं समुद्धृतम्। स तु संश्रावयामास महाराजं परीक्षितम्॥ 42 प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः। कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह॥ 43 कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः। तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥ 44 अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात्। सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥ 45 ॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः॥3॥
Tamil