header_image
Home
Tamil

प्रथमः स्कन्धः :: अथ चतुर्थोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: प्रथमः स्कन्धः
अथ चतुर्थोऽध्यायः
महर्षेर्व्यासस्यापरितोषः, तदाश्रमे देवर्षिनारदस्यागमनं च
व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम्। वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत्॥ 01 शौनक उवाच सूत सूत महाभाग वद नो वदतां वर। कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः॥ 02 कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना। कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः॥ 03 तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः। एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते॥ 04 दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम्। तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः॥ 05 कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान्। उन्मत्तमूकजडवद्विचरन् गजसाह्वये॥ 06 कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह। संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः॥ 07 स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम्। अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम्॥ 08 अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम्। तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः॥ 09 स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः। प्रायोपविष्टो गङ्गायामनादृत्याधिराट्श्रियम्॥ 10 नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः। कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत्स्रष्टुमहो सहासुभिः॥ 11 शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः। जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्॥ 12 तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन। मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्॥ 13 सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये। जातः पराशराद्योगी वासव्यां कलया हरेः॥ 14 स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः। विविक्तदेश आसीन उदिते रविमण्डले॥ 15 परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा। युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे॥ 16 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम्। अश्रद्दधानान्निःसत्त्वान्दुर्मेधान् ह्रसितायुषः॥ 17 दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा। सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक्॥ 18 चातुर्होत्रं कर्मशुद्धं प्रजानां वीक्ष्य वैदिकम्। व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम्॥ 19 ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः। इतिहासपुराणं च पञ्चमो वेद उच्यते॥ 20 तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः। वैशम्पायन एवैको निष्णातो यजुषामुत॥ 21 अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः। इतिहासपुराणानां पिता मे रोमहर्षणः॥ 22 त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा। शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्॥ 23 त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा। एवं चकार भगवान् व्यासः कृपणवत्सलः॥ 24 स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा। कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह। इति भारतमाख्यानं कृपया मुनिना कृतम्॥ 25 एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः। सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः॥ 26 नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ। वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित्॥ 27 धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः। मानिता निर्व्यलीकेन गृहीतं चानुशासनम्॥ 28 भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः। दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत॥ 29 तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः। असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः॥ 30 किं वा भागवता धर्मा न प्रायेण निरूपिताः। प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः॥ 31 तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः। कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम्॥ 32 तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः। पूजयामास विधिवन्नारदं सुरपूजितम्॥ 33 इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने चतुर्थोऽध्यायः॥4॥
Tamil