header_image
Home
Tamil

द्वादश स्कन्धः :: अथ अष्टमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: द्वादश स्कन्धः
अथ अष्टमोऽध्यायः
मार्कण्डेयस्य तपस्या तत्कृतनरनारायणस्तुतिश्च
श्रीशौनक उवाच – सूत जीव चिरं साधो वद नो वदतां वर। तमस्यपारे भ्रमतां नृणां त्वं पारदर्शनः॥ १ आहुश्चिरायुषमृषिं मृकण्डतनयं जनाः। यः कल्पान्ते उर्वरितो येन ग्रस्तमिदं जगत्॥ २ स वा अस्मत्कुलोत्पन्नः कल्पेऽस्मिन् भार्गवर्षभः। नैवाधुनापि भूतानां सम्प्लवः कोऽपि जायते॥ ३ एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल। वटपत्रपुटे तोकं शयानं त्वेकमद्‌भुतम्॥ ४ एष नः संशयो भूयान् सूत कौतूहलं यतः। तं नश्छिन्धि महायोगिन् पुराणेष्वपि सम्मतः॥ ५ सूत उवाच - प्रश्नस्त्वया महर्षेऽयं कृतो लोकभ्रमापहः। नारायणकथा यत्र गीता कलिमलापहा॥ ६ प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात्। छन्दांस्यधीत्य धर्मेण तपःस्वाध्यायसंयुतः॥ ७ बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः। बिभ्रत् कमण्डलुं दण्डमुपवीतं समेखलम्॥ ८ कृष्णाजिनं साक्षसूत्रं कुशांश्च नियमर्द्धये। अग्न्यर्कगुरुविप्रात्मस्वर्चयन् सन्ध्ययोर्हरिम्॥ ९ सायं प्रातः स गुरवे भैक्ष्यमाहृत्य वाग्यतः। बुभुजे गुर्वनुज्ञातः सकृन्नो चेदुपोषितः॥ १० एवं तपःस्वाध्यायपरो वर्षाणामयुतायुतम्। आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम्॥ ११ ब्रह्मा भृगुर्भवो दक्षो ब्रह्मपुत्राश्च ये परे। नृदेवपितृभूतानि तेनासन्नतिविस्मिताः॥ १२ इत्थं बृहद्व्रतधरस्तपःस्वाध्यायसंयमैः। दध्यावधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना॥ १३ तस्यैवं युञ्जतश्चित्तं महायोगेन योगिनः। व्यतीयाय महान् कालो मन्वन्तरषडात्मकः॥ १४ एतत् पुरन्दरो ज्ञात्वा सप्तमेऽस्मिन् किलान्तरे। तपोविशङ्‌कितो ब्रह्मन्नारेभे तद्विघातनम्॥ १५ गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ। मुनये प्रेषयामास रजस्तोकमदौ तथा॥ १६ ते वै तदाश्रमं जग्मुर्हिमाद्रेः पार्श्व उत्तरे। पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो॥ १७ तदाश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम्। पुण्यद्विजकुलाकीर्णं पुण्यामलजलाशयम्॥ १८ मत्तभ्रमरसङ्‌गीतं मत्तकोकिलकूजितम्। मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम्॥ १९ वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान्। सुमनोभिः परिष्वक्तो ववावुत्तम्भयन् स्मरम्॥ २० उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः। गोपद्रुमलताजालैस्तत्रासीत् कुसुमाकरः॥ २१ अन्वीयमानो गन्धर्वैर्गीतवादित्रयूथकैः। अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः॥ २२ हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्‌कराः। मीलिताक्षं दुराधर्षं मूर्तिमन्तमिवानलम्॥ २३ ननृतुस्तस्य पुरतः स्त्रियोऽथो गायका जगुः। मृदङ्‌गवीणापणवैर्वाद्यं चक्रुर्मनोरमम्॥ २४ सन्दधेऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा। मधुर्मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन्॥ २५ क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात्। भृशमुद्विग्नमध्यायाः केशविस्रंसितस्रजः॥ २६ इतस्ततोभ्रमद्दृष्टेश्चलन्त्या अनुकन्दुकम्। वायुर्जहार तद्वासः सूक्ष्मं त्रुटितमेखलम्॥ २७ विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः। सर्वं तत्राभवन् मोघमनीशस्य यथोद्यमः॥ २८ त इत्थमपकुर्वन्तो मुनेस्तत्तेजसा मुने। दह्यमाना निववृतुः प्रबोध्याहिमिवार्भकाः॥ २९ इतीन्द्रानुचरैर्ब्रह्मन् धर्षितोऽपि महामुनिः। यन्नागादहमो भावं न तच्चित्रं महत्सु हि॥ ३० दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट्। श्रुत्वानुभावं ब्रह्मर्षेर्विस्मयं समगात् परम्॥ ३१ तस्यैवं युञ्जतश्चित्तं तपःस्वाध्यायसंयमैः। अनुग्रहायाविरासीन्नरनारायणो हरिः॥ ३२ तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ। पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डमृजुं च वैणवम्॥ ३३ पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात्तप एव रूपिणौ। तपत्तडिद्वर्णपिशङ्‌गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ॥ ३४ ते वै भगवतो रूपे नरनारायणवृषी। दृष्ट्वोत्थायादरेणोच्चैर्ननामाङ्‌गेन दण्डवत्॥ ३५ स तत्सन्दर्शनानन्द निर्वृतात्मेन्द्रियाशयः। हृष्टरोमाश्रुपूर्णाक्षो न सेहे तावुदीक्षितुम्॥ ३६ उत्थाय प्राञ्जलिः प्रह्व औत्सुक्यादाश्लिषन्निव। नमो नम इतीशानौ बभाषे गद्‌गदाक्षरः॥ ३७ तयोरासनमादाय पादयोरवनिज्य च। अर्हणेनानुलेपेन धूपमाल्यैरपूजयत्॥ ३८ सुखमासनमासीनौ प्रसादाभिमुखौ मुनी। पुनरानम्य पादाभ्यां गरिष्ठाविदमब्रवीत्॥ ३९ श्रीमार्कण्डेय उवाच - किं वर्णये तव विभो यदुदीरितोऽसुः संस्पन्दते तमनु वाङ्‌मनइन्द्रियाणि। स्पन्दन्ति वै तनुभृतामजशर्वयोश्च स्वस्याप्यथापि भजतामसि भावबन्धुः॥ ४० मूर्ती इमे भगवतो भगवंस्त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै। नाना बिभर्ष्यवितुमन्यतनूर्यथेदं सृष्ट्वा पुनर्ग्रससि सर्वमिवोर्णनाभिः॥ ४१ तस्यावितुः स्थिरचरेशितुरङ्‌घ्रिमूलं यत्स्थं न कर्मगुणकालरुजः स्पृशन्ति। यद् वै स्तुवन्ति निनमन्ति यजन्त्यभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस्तदाप्त्यै॥ ४२ नान्यं तवाङ्‌घ्र्युपनयादपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः। ब्रह्मा बिभेत्यलमतो द्विपरार्धधिष्ण्यः कालस्य ते किमुत तत्कृतभौतिकानाम्॥ ४३ तद् वै भजाम्यृतधियस्तव पादमूलं हित्वेदमात्मच्छदि चात्मगुरोः परस्य। देहाद्यपार्थमसदन्त्यमभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम्॥ ४४ सत्त्वं रजस्तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवोऽस्य। लीला धृता यदपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश्च याभ्याम्॥ ४५ तस्मात्तवेह भगवन्नथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति। यत् सात्वताः पुरुषरूपमुशन्ति सत्त्वं लोको यतोऽभयमुतात्मसुखं न चान्यत्॥ ४६ तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदेवतायै। नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय॥ ४७ यं वै न वेद वितथाक्षपथैर्भ्रमद्धीः सन्तं स्वखेष्वसुषु हृद्यपि दृक्पथेषु। तन्माययाऽऽवृतमतिः स उ एव साक्षा- दाद्यस्तवाखिलगुरोरुपसाद्य वेदम्॥ ४८ यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयोऽजपरा यतन्तः। तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषमात्मनिगूढबोधम्॥ ४९ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥
Tamil