header_image
Home
Tamil

द्वादश स्कन्धः :: अथ सप्तमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: द्वादश स्कन्धः
अथ सप्तमोऽध्यायः
अथर्ववेदविभागः, पुराणलक्षणवर्णनं च
सूत उवाच - अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम्। संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्॥ १ शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः। वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु। कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्॥ २ बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च। अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे॥ ३ नक्षत्रकल्पः शान्तिश्च कश्यपाङ्‌गिरसादयः। एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने॥ ४ त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः। वैशम्पायनहारीतौ षड् वै पौराणिका इमे॥ ५ अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात्। एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम्॥ ६ कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रणः। अधीमहि व्यासशिष्याच्चतस्त्रो मूलसंहिताः॥ ७ पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम्। श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥ ८ सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च। वंशो वंशानुचरितं संस्था हेतुरपाश्रयः॥ ९ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया॥ १० अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते॥ ११ पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम्॥ १२ वृत्तिर्भूतानि भूतानां चराणामचराणि च। कृता स्वेन नृणां तत्र कामात् चोदनयापि वा॥ १३ रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। तिर्यङ्‌मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः॥ १४ मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः। ऋषयोंऽशावताराश्च हरेः षड्‌विधमुच्यते॥ १५ राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः। वंशानुचरितं तेषां वृत्तं वंशधराश्च ये॥ १६ नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः। संस्थेति कविभिः प्रोक्तः चतुर्धास्य स्वभावतः॥ १७ हेतुर्जीवोऽस्य सर्गादे अविद्याकर्मकारकः। यं चानुशायिनं प्राहुरव्याकृतमुतापरे॥ १८ व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु। मायामयेषु तद् ब्रह्म जीववृत्तिष्वपाश्रयः॥ १९ पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु। बीजादिपञ्चतान्तासु ह्यवस्थासु युतायुतम्॥ २० विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम्। योगेन वा तदाऽऽत्मानं वेदेहाया निवर्तते॥ २१ एवंलक्षणलक्ष्याणि पुराणानि पुराविदः। मुनयोऽष्टादश प्राहुः क्षुल्लकानि महान्ति च॥ २२ ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्‌गं सगारुडम्। नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम्॥ २३ भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम्। वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट्॥ २४ ब्रह्मन्निदं समाख्यातं शाखाप्रणयनं मुनेः। शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम्॥ २५ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां द्वादशस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
Tamil