header_image
Home
Tamil

एकादशः स्कन्धः :: अथ सप्तविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ सप्तविंशोऽध्यायः
साङ्गक्रियायोगवर्णनम्
श्रीउद्धव उवाच - क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो। यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ॥ १ एतद् वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम्। नारदो भगवान् व्यास आचार्योऽग्‌गिरसः सुतः॥ २ निःसृतं ते मुखाम्भोजाद् यदाह भगवानजः। पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः॥ ३ एतद् वै सर्ववर्णानामाश्रमाणां च सम्मतम्। श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद॥ ४ एतत् कमलपत्राक्ष कर्मबन्धविमोचनम्। भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर॥ ५ श्रीभगवानुवाच - न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव। संक्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः॥ ६ वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः। त्रयाणामीप्सितेनैव विधिना मां समर्चरेत्॥ ७ यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः। यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे॥ ८ अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः। द्रव्येण भक्तियुक्तोऽर्चेत् स्वगुरुं माममायया॥ ९ पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये। उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना॥ १० सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे। पूजां तैः कल्पयेत् सम्यक्सङ्कल्पः कर्मपावनीम्॥ ११ शैली दारुमयी लौही लेप्या लेख्या च सैकती। मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता॥ १२ चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम्। उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने॥ १३ अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम्। स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम्॥ १४ द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः। भक्तस्य च यथालब्धैर्हृदि भावेन चैव हि॥ १५ स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव। स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः॥ १६ सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः। श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि॥ १७ भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते। गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः॥ १८ शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः। आसीनः प्रागुदग् वार्चेदर्चायामथ सम्मुखः॥ १९ कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत्। कलशं प्रोक्षणीयं च यथावदुपसाधयेत्॥ २० तदद्‌भिर्देवयजनं द्रव्याण्यात्मानमेव च। प्रोक्ष्य पात्राणि त्रीण्यद्‌भिस्तैस्तैर्द्रव्यैश्च साधयेत्॥ २१ पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः। हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत्॥ २२ पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम। अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम्॥ २३ तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः। आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत्॥ २४ पाद्योपस्पर्शाहणादीनुपचारान् प्रकल्पयेत्। धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम॥ २५ पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम्। उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये॥ २६ सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान्। मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत्॥ २७ नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च। महाबलं बलं चैव कुमुदं कुमुदेक्षणम्॥ २८ दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान्। स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः॥ २९ चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः। सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति॥ ३० स्वर्णघर्मानुवाकेन महापुरुषविद्यया। पौरुषेणापि सूक्तेन सामभी राजनादिभिः॥ ३१ वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः। अलङ्कुर्वीत सप्रेम मद्‍भक्तो मां यथोचितम्॥ ३२ पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान्। धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः॥ ३३ गुडपायससर्पींषि शष्कुल्यापूपमोदकान्। संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत्॥ ३४ अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम्। अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम्॥ ३५ विधिना विहिते कुण्डे मेखलागर्तवेदिभिः। अग्निमाधाय परितः समूहेत् पाणिनोदितम्॥ ३६ परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि। प्रोक्षण्याऽऽसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम्॥ ३७ तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः। लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम्॥ ३८ स्फुरत्किरीटकटककटिसूत्रवराङ्गदम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम्॥ ३९ ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च। प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः॥ ४० जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः। धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टकृतं बुधः॥ ४१ अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत्। मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम्॥ ४२ दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत्। मुखवासं सुरभिमत् ताम्बूलाद्यमथार्हयेत्॥ ४३ उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम। मत्कथाः श्रावयञ्छृण्वन् मुहूर्तं क्षणिको भवेत्॥ ४४ स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि। स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत्॥ ४५ शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्। प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात्॥ ४६ इति शेषां मया दत्तां शिरस्याधाय सादरम्। उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत् पुनः॥ ४७ अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत्। सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः॥ ४८ एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः। अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम्॥ ४९ मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम्। पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान्॥ ५० पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम्। क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात्॥ ५१ प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम्। पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात्॥ ५२ मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति। भक्तियोगं स लभते एवं यः पूजयेत माम्॥ ५३ यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः। वृत्तिं स जायते विड्भुग् वर्षाणामयुतायुतम्॥ ५४ कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च। कर्मणां भागिनः प्रेत्य भूयो भूयसि तत् फलम्॥ ५५ ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तविंशोऽध्यायः॥ २७ ॥
Tamil