header_image
Home
Tamil

एकादशः स्कन्धः :: अथ षड्विंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ षड्विंशोऽध्यायः
ऐलगीतम्
श्रीभगवानुवाच - मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः। आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १ गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया। गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः। वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २ सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित्। तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३ ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः। उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे ॥ ४ त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः। विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५ कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः। न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः ॥ ६ ऐल उवाच - अहो मे मोहविस्तारः कामकश्मलचेतसः। देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ ७ नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया। मूषितो वर्षपूगानां बताहानि गतान्युत ॥ ८ अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः। क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९ सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम्। यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ १० कुतस्तस्यानुभावः स्यात् तेज ईशत्वमेव वा। योऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ ११ किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा। किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२ स्वार्थस्याकोविदं धिङ्मां मूर्खं पण्डितमानिनम्। योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३ सेवतो वर्षपूगान् मे उर्वश्या अधरासवम्। न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४ पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः। आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ १५ बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः। मनोगतो महामोहो नापयात्यजितात्मनः ॥ १६ किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः। रज्जुस्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७ क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः। क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८ पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः। किमात्मनः किं सुहृदामिति यो नावसीयते ॥ १९ तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते। अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ २० त्वङ्‌मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ। विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१ अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित्। विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥ २२ अदृष्टादश्रुताद् भावान्न भाव उपजायते। असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३ तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः। विदुषां चाप्यविश्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४ श्रीभगवानुवाच - एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकमथो विहाय। आत्मानमात्मन्यवगम्य मां वै उपारमज्ज्ञानविधूतमोहः ॥ २५ ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान्। सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६ सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः। निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७ तेषु नित्यं महाभाग महाभागेषु मत्कथाः। सम्भवन्ति हिता नृणां जुषतां प्रपुनन्त्यघम् ॥ २८ ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः। मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९ भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते। मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३० यथोपश्रयमाणस्य भगवन्तं विभावसुम्। शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१ निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम्। सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२ अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम्। धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम् ॥ ३३ सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः। देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४ वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिःस्पृहः। मुक्तसङ्गो महीमेतमात्मारामश्चचार ह ॥ ३५ ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षड्‌विंशोऽध्यायः ॥ २६ ॥
Tamil