header_image
Home
Tamil

एकादशः स्कन्धः :: अथ पञ्चविंशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ पञ्चविंशोऽध्यायः
सत्त्वादिगुणत्रयवृत्तिनिरूपणम्
श्रीभगवानुवाच गुणानामसम्मिश्राणां पुमान् येन यथा भवेत्। तन्मे पुरुषवर्येदमुपधारय शंसतः॥ १ शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः। तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः॥ २ काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम्। मदोत्साहो यशःप्रीतिर्हास्यं वीर्यं बलोद्यमः॥ ३ क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः। शोकमोहौ विषादार्ती निद्राऽऽशा भीरनुद्यमः॥ ४ सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः। वृत्तयो वर्णितप्रायाः सन्निपातमथो शृणु॥ ५ सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः। व्यवहारः सन्निपातो मनोमात्रेन्द्रियासुभिः॥ ६ धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः। गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः॥ ७ प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे। स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा॥ ८ पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः। कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम्॥ ९ यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः। तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियमेव वा॥ १० यदा आशिष आशास्य मां भजेत स्वकर्मभिः। तं रजःप्रकृतिं विद्याद्धिंसामाशास्य तामसम्॥ ११ सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे। चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते॥ १२ यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम्। तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान्॥ १३ यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम्। तदा दुःखेन युज्येत कर्मणा यशसा श्रिया॥ १४ यदा जयेद् रजः सत्त्वं तमो मूढं लयं जडम्। युज्येत शोकमोहाभ्यां निद्रया हिंसयाऽऽशया॥ १५ यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः। देहेऽभयं मनोऽसङ्गं तत् सत्त्वं विद्धि मत्पदम्॥ १६ विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसाम्। गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर्निशामय॥ १७ सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम्। मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय॥ १८ एधमाने गुणे सत्त्वे देवानां बलमेधते। असुराणां च रजसि तमस्युद्धव रक्षसाम्॥ १९ सत्त्वाज्जागरणं विद्याद् रजसा स्वप्नमादिशेत्। प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम्॥ २० उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः। तमसाधोऽध आमुख्याद् रजसान्तरचारिणः॥ २१ सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः। तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः॥ २२ मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत्। राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम्॥ २३ कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत्। प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम्॥ २४ वनं तु सात्त्विको वासो ग्रामो राजस उच्यते। तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम्॥ २५ सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः। तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः॥ २६ सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी। तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा॥ २७ पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम्। राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि॥ २८ सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम्। तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम्॥ २९ द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः। श्रद्धावस्थाऽऽकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि॥ ३० सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः। दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ॥ ३१ एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः। येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः। भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते॥ ३२ तस्माद् देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम्। गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः॥ ३३ निःसङ्गो मां भजेद् विद्वानप्रमत्तो जितेन्द्रियः। रजस्तमश्चाभिजयेत् सत्त्वसंसेवया मुनिः॥ ३४ सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्तधीः। सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम्॥ ३५ जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः। मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत्॥ ३६ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे पञ्चविंशोऽध्यायः॥ २५ ॥
Tamil