header_image
Home
Tamil

एकादशः स्कन्धः :: अथ द्वितीयोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ द्वितीयोऽध्यायः
वसुदेवाय देवर्षिनारदोपदेशः - तत्र निमिनवयोगेश्वरसंवादरूपेण पूर्वं भागवतधर्मस्य भागवतलक्षणस्य च वर्णनम्
श्रीशुक उवाच। गोविन्दभुजगुप्तायां द्वारवत्यां कुरूद्वह। अवात्सीन्नारदोऽभीक्ष्णं कृष्णोपासनलालसः॥ १ को नु राजन्निन्द्रियवान् मुकन्दचरणम्बुजम्। न भजेत् सर्वतोमृत्युरुपास्यममरोत्तमैः॥ २ तमेकदा तु देवर्षिं वसुदेवो गृहागतम्। अर्चितं सुखमासीनमभिवाद्येदमब्रवीत्॥ ३ श्रीवसुदेव उवाच। भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनाम्। कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनाम्॥ ४ भूतानां देवचरितं दुःखाय च सुखाय च। सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम्॥ ५ भजन्ति ये यथा देवान् देवा अपि तथैव तान्। छायेव कर्मसचिवाः साधवो दीनवत्सलाः॥ ६ ब्रह्मंस्तथापि पृच्छामो धर्मान् भागवतांस्तव। याञ्छ्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतोभयात्॥ ७ अहं किल पुरानन्तं प्रजार्थो भुवि मुक्तिदम्। अपूजयं न मोक्षाय मोहितो देवमायया॥ ८ यथा विचित्रव्यसनाद् भवद्‌भिर्विश्वतोभयात्। मुच्येम ह्यञ्जसैवाद्धा तथा नः शाधि सुव्रत॥ ९ श्रीशुक उवाच - राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता। प्रीतस्तमाह देवर्षिर्हरेः संस्मारितो गुणैः॥ १० श्रीनारद उवाच - सम्यगेतद् व्यवसितं भवता सात्वतर्षभ। यत् पृच्छसे भागवतान् धर्मांस्त्वं विश्वभावनान्॥ ११ श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः। सद्यः पुनाति सद्धर्मो देव विश्वद्रुहोऽपि हि॥ १२ त्वया परमकल्याणः पुण्यश्रवणकीर्तनः। स्मारितो भगवानद्य देवो नारायणो मम॥ १३ अत्राप्युदाहरन्तीममितिहासं पुरातनम्। आर्षभाणां च संवादं विदेहस्य महात्मनः॥ १४ प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः। तस्याग्नीध्रस्ततो नाभिर्ऋषभस्तत्सुतः स्मृतः॥ १५ तमाहुर्वासुदेवांशं मोक्षधर्मविवक्षया। अवतीर्णं सुतशतं तस्यासीद् ब्रह्मपारगम्॥ १६ तेषां वै भरतो ज्येष्ठो नारायणपरायणः। विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्‍भुतम्॥ १७ स भुक्तभोगां त्यक्त्वेमां निर्गतस्तपसा हरिम्। उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः॥ १८ तेषां नव नवद्वीपपतयोऽस्य समन्ततः। कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः॥ १९ नवाभवन् महाभागा मुनयो ह्यर्थशंसिनः। श्रमणा वातरशना आत्मविद्याविशारदाः॥ २० कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः। आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः॥ २१ त एते भगवद्‌रूपं विश्वं सदसदात्मकम्। आत्मनोऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम्॥ २२ अव्याहतेष्टगतयः सुरसिद्धसाध्य- गन्धर्वयक्षनरकिन्नरनागलोकान्। मुक्ताश्चरन्ति मुनिचारणभूतनाथ- विद्याधरद्विजगवां भुवनानि कामम्॥ २३ त एकदा निमेः सत्रमुपजग्मुर्यदृच्छया। वितायमानमृषिभिरजनाभे महात्मनः॥ २४ तान् दृष्ट्वा सूर्यसंकाशान् महाभागवतान् नृप। यजमानोऽग्नयो विप्राः सर्व एवोपतस्थिरे॥ २५ विदेहस्तानभिप्रेत्य नारायणपरायणान्। प्रीतः सम्पूजयाञ्चक्रे आसनस्थान् यथार्हतः॥ २६ तान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमान् नव। पप्रच्छ परमप्रीतः प्रश्रयावनतो नृपः॥ २७ श्रीविदेह उवाच। मन्ये भगवतः साक्षात् पार्षदान् वो मधुद्विषः। विष्णोर्भूतानि लोकानां पावनाय चरन्ति हि॥ २८ दुर्लभो मानुषो देहो देहिनां क्षणभङ्‌गुरः। तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम्॥ २९ अत आत्यन्तिकं क्षेमं पृच्छामो भवतोऽनघाः। संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गः शेवधिर्नृणाम्॥ ३० धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम्। यैः प्रसन्नः प्रपन्नाय, दास्यत्यात्मानमप्यजः॥ ३१ श्रीनारद उवाच। एवं ते निमिना पृष्टा वसुदेव महत्तमाः। प्रतिपूज्याब्रुवन् प्रीत्या ससदस्यर्त्विजं नृपम्॥ ३२ श्रीकविरुवाच - मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजोपासनमत्र नित्यम्। उद्विग्नबुद्धेरसदात्मभावाद् विश्वात्मना यत्र निवर्तते भीः॥ ३३ ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये। अञ्जः पुंसामविदुषां विद्धि भागवतान् हि तान्॥ ३४ यानास्थाय नरो राजन् न प्रमाद्येत कर्हिचित्। धावन् निमील्य वा नेत्रे न स्खलेन्न पतेदिह॥ ३५ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वानुसृतस्वभावात्। करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत्तत्॥ ३६ भयं द्वितीयाभिनिवेशतः स्या- दीशादपेतस्य विपर्ययोऽस्मृतिः। तन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा॥ ३७ अविद्यमानोऽप्यवभाति हि द्वयो- र्ध्यातुर्धिया स्वप्नमनोरथौ यथा। तत् कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात्॥ ३८ श्रृण्वन् सुभद्राणि रथाङ्गपाणेः जन्मानि कर्माणि च यानि लोके। गीतानि नामानि तदर्थकानि गायन् विलज्जो विचरेदसङ्गः॥ ३९ एवंव्रतः स्वप्रियनामकीर्त्या जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गाय- त्युन्मादवन्नृत्यति लोकबाह्यः॥ ४० खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन्। सरित्समुद्रांश्च हरेः शरीरं यत् किञ्च भूतं प्रणमेदनन्यः॥ ४१ भक्तिः परेशानुभवो विरक्ति- रन्यत्र चैष त्रिक एककालः। प्रपद्यमानस्य यथाश्नतः स्यु- स्तुष्टिः पुष्टिः क्षुदपायोऽनुघासम्॥ ४२ इत्यच्युताङ्‌घ्रिं भजतोऽनुवृत्त्या भक्तिर्विरक्तिर्भगवत्प्रबोधः। भवन्ति वै भागवतस्य राजं- स्ततः परां शान्तिमुपैति साक्षात्॥ ४३ श्रीराजोवाच - अथ भागवतं ब्रूत यद्धर्मो यादृशो नृणाम्। यथा चरति यद्‍ ब्रूते यैर्लिङ्गैर्भगवत्‌प्रियः॥ ४४ श्रीहरिरुवाच - सर्वभूतेषु यः पश्येद् भगवद्भावमात्मनः। भूतानि भगवत्यात्मन्येष भागवतोत्तमः।। ४५ ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः॥ ४६ अर्चायामेव हरये पूजां यः श्रद्धयेहते। न तद्‍भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः॥ ४७ गृहीत्वापीन्द्रियैरर्थान् यो न द्वेष्टि न हृष्यति। विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः॥ ४८ देहेन्द्रियप्राणमनोधियां यो जन्माप्ययक्षुद्भयतर्षकृच्छ्रैः। संसारधर्मैरविमुह्यमानः स्मृत्या हरेर्भागवतप्रधानः॥ ४९ न कामकर्मबीजानां यस्य चेतसि सम्भवः। वासुदेवैकनिलयः स वै भागवतोत्तमः॥ ५० न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः। सज्जतेऽस्मिन्नहंभावो देहे वै स हरेः प्रियः॥ ५१ न यस्य स्वः पर इति वित्तेष्वात्मनि वा भिदा। सर्वभूतसमः शान्तः स वै भागवतोत्तमः॥ ५२ त्रिभुवनविभवहेतवेऽप्यकुण्ठ- स्मृतिरजितात्मसुरादिभिर्विमृग्यात्। न चलति भगवत्पादारविन्दा- ल्लवनिमिषार्धमपि यः स वैष्णवाग्र्यः॥ ५३ भगवत उरुविक्रमाङ्‌घ्रिशाखा- नखमणिचन्द्रिकया निरस्ततापे। हृदि कथमुपसीदतां पुनः स प्रभवति चन्द्र इवोदितेऽर्कतापः॥ ५४ विसृजति हृदयं न यस्य साक्षा- द्धरिरवशाभिहितोऽप्यघौघनाशः। प्रणयरशनया धृताङ्‌घ्रिपद्मः स भवति भागवतप्रधान उक्तः॥ ५५ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायांमेकादशस्कन्धे द्वितीयोऽध्यायः॥ २ ॥
Tamil