header_image
Home
Tamil

एकादशः स्कन्धः :: अथ प्रथमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ प्रथमोऽध्यायः
ऋषीणां यदुकुलसंहाराय शापः
श्रीबादरायणिरुवाच। कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः। भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम्॥ १ ये कोपिताः सुबहु पाण्डुसुताः सपत्नै- र्दुर्द्यूतहेलनकचग्रहणादिभिस्तान्। कृत्वा निमित्तमितरेतरतः समेतान् हत्वा नृपान् निरहरत् क्षितिभारमीशः॥ २ भूभारराजपृतना यदुभिर्निरस्य गुप्तैः स्वबाहुभिरचिन्तयदप्रमेयः। मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं यद् यादवं कुलमहो अविषह्यमास्ते॥ ३ नैवान्यतः परिभवोऽस्य भवेत् कथञ्चि- न्मत्संश्रयस्य विभवोन्नहनस्य नित्यम्। अन्तः कलिं यदुकुलस्य विधाय वेणु- स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम॥ ४ एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः। शापव्याजेन विप्राणां संजह्रे स्वकुलं विभुः॥ ५ स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम्। गीर्भिस्ताः स्मरतां चित्तं पदैस्तानीक्षतां क्रियाः॥ ६ आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ। तमोऽनया तरिष्यन्तीत्यगात् स्वं पदमीश्वरः॥ ७ श्रीराजोवाच। ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम्। विप्रशापः कथमभूद् वृष्णीनां कृष्णचेतसाम्॥ ८ यन्निमित्तः स वै शापो यादृशो द्विजसत्तम। कथमेकात्मनां भेद एतत् सर्वं वदस्व मे॥ ९ श्रीशुक उवाच। बिभ्रद् वपुः सकलसुन्दरसन्निवेशं कर्माचरन् भुवि सुमङ्गलमाप्तकामः। आस्थाय धाम रममाण उदारकीर्तिः संहर्तुमैच्छत कुलं स्थितकृत्यशेषः॥ १० कर्माणि पुण्यनिवहानि सुमङ्गलानि गायज्जगत्कलिमलापहराणि कृत्वा। कालात्मना निवसता यदुदेवगेहे पिण्डारकं समगमन् मुनयो निसृष्टाः॥ ।१ विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्गिराः। कश्यपो वामदेवोऽत्रिर्वसिष्ठो नारदादयः॥ १२ क्रीडन्तस्तानुपव्रज्य कुमारा यदुनन्दनाः। उपसंगृह्य पप्रच्छुरविनीता विनीतवत्॥ १३ ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम्। एषा पृच्छति वो विप्रा अन्तर्वत्न्यसितेक्षणा॥ १४ प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघदर्शनाः। प्रसोष्यन्ती पुत्रकामा किंस्वित् सञ्जनयिष्यति॥ १५ एवं प्रलब्धा मुनयस्तानूचुः कुपिता नृप। जनयिष्यति वो मन्दा मुसलं कुलनाशनम्॥ १६ तच्छ्रुत्वा तेऽतिसन्त्रस्ता विमुच्य सहसोदरम्। साम्बस्य ददृशुस्तस्मिन् मुसलं खल्वयस्मयम्॥ १७ किं कृतं मन्दभाग्यैर्नः किं वदिष्यन्ति नो जनाः। इति विह्वलिता गेहानादाय मुसलं ययुः॥ १८ तच्चोपनीय सदसि परिम्लानमुखश्रियः। राज्ञ आवेदयाञ्चक्रुः सर्वयादवसन्निधौ॥ १९ श्रुत्वामोघं विप्रशापं दृष्ट्वा च मुसलं नृप। विस्मिता भयसन्त्रस्ता बभूवुर्द्वारकौकसः॥ २० तच्चूर्णयित्वा मुसलं यदुराजः स आहुकः। समुद्रसलिले प्रास्यल्लोहं चास्यावशेषितम्॥ २१ कश्चिन्मत्स्योऽग्रसील्लोहं चूर्णानि तरलैस्ततः। उह्यमानानि वेलायां लग्नान्यासन् किलैरकाः॥ २२ मत्स्यो गृहीतो मत्स्यघ्नैर्जालेनान्यैः सहार्णवे। तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत्॥ २३ भगवान्ज्ञातसर्वार्थ ईश्वरोऽपि तदन्यथा। कर्तुं नैच्छद् विप्रशापं कालरूप्यन्वमोदत॥ २४ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे प्रथमोऽध्यायः॥ १ ॥
Tamil