header_image
Home
Tamil

एकादशः स्कन्धः :: अथ षोडशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ षोडशोऽध्यायः
भगवतो विभूतीनां वर्णनम्
श्रीउद्धव उवाच त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम्। सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः॥ १ उच्चावचेषु भावेषु दुर्ज्ञेयमकृतात्मभिः। उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः॥ २ येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः। उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे॥ ३ गूढश्चरसि भूतात्मा भूतानां भूतभावन। न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते॥ ४ याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते। ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम्॥ ५ श्रीभगवानुवाच। एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर। युयुत्सुना विनशने सपत्नैरर्जुनेन वै॥ ६ ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम्। ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः॥ ७ स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः। अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि॥ ८ अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः। अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः॥ ९ अहं गतिर्गतिमतां कालः कलयतामहम्। गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः॥ १० गुणिनामप्यहं सूत्रं महतां च महानहम्। सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः॥ ११ हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत्। अक्षराणामकारोऽस्मि पदानिच्छन्दुसामहम्॥ १२ इन्द्रो ऽहं सर्वदेवानां वसूनामस्मि हव्यवाट्। आदित्यानामहं विष्णू रुद्राणां नीललोहितः॥ १३ ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः। देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु॥ १४ सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम्। प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा॥ १५ मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम्। सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम्॥ १६ ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम्। तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम्॥ १७ उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम्। यमः संयमतां चाहं सर्पाणामस्मि वासुकिः॥ १८ नागेन्द्राणामनन्तोऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम्। आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ॥ १९ तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम्। आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम्॥ २० धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः। वनस्पतीनामश्वत्थ ओषधीनामहं यवः॥ २१ पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः। स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः॥ २२ यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम्। वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः॥ २३ योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम्। आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम्॥ २४ स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः। नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम्॥ २५ धर्माणामस्मि संन्यासः क्षेमाणामबहिर्मतिः। गुह्यानां सूनृतं मौनं मिथुनानामजस्त्वहम्॥ २६ संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ। मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित्॥ २७ अहं युगानां च कृतं धीराणां देवलोऽसितः। द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान्॥ २८ वासुदेवो भगवतां त्वं तु भागवतेष्वहम्। किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः॥ २९ रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम्। कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम्॥ ३० व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः। तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम्॥ ३१ ओजः सहो बलवतां कर्माहं विद्धि सात्वताम्। सात्वतां नवमूर्तीनामादिमूर्तिरहं परा॥ ३२ विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम्। भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः॥ ३३ अपां रसश्च परमस्तेजिष्ठानां विभावसुः। प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः॥ ३४ ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः। भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः॥ ३५ गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम्। आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम्॥ ३६ पृथिवी वायुराकाश आपो ज्योतिरहं महान्। विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम्॥ ३७ अहमेतत्प्रसंख्यानं ज्ञानं तत्त्वविनिश्चयः। मयेश्वरेण जीवेन गुणेन गुणिना विना। सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित्॥ ३८ संख्यानं परमाणूनां कालेन क्रियते मया। न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः॥ ३९ तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः। वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः॥ ४० एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः। मनोविकारा एवैते यथा वाचाभिधीयते॥ ४१ वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च। आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने॥ ४२ यो वै वाङ्मनसी सम्यगसंयच्छन् धिया यतिः। तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत्॥ ४३ तस्मान्मनोवचः प्राणान् नियच्छेन्मत्परायणः। मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते॥ ४४ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे षोडशोऽध्यायः॥ १६ ॥
Tamil