header_image
Home
Tamil

एकादशः स्कन्धः :: अथ सप्तदशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ सप्तदशोऽध्यायः
वर्णधर्मनिरूपणम्, आश्रमेषु ब्रह्मचारिगृहस्थधर्मवर्णनं च
श्रीउद्धव उवाच - यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्‍भक्तिलक्षणः। वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि॥ १ यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत्। स्वधर्मेणारविन्दाक्ष तत् समाख्यातुमर्हसि॥ २ पुरा किल महाबाहो धर्मं परमकं प्रभो। यत्तेन हंसरूपेण ब्राह्मणेऽभ्यात्थ माधव॥ ३ स इदानीं सुमहता कालेनामित्रकर्शन। न प्रायो भविता मर्त्यलोके प्रागनुशासितः॥ ४ वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि। सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः॥ ५ कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन। त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति॥ ६ तत्त्वं नः सर्वधर्मज्ञ धर्मस्त्वद्‍भक्तिलक्षणः। यथा यस्य विधीयेत तथा वर्णय मे प्रभो॥ ७ श्रीशुक उवाच - इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः। प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान्॥ ८ श्रीभगवानुवाच - धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम्। वर्णाश्रमाचारवतां तमुद्धव निबोध मे॥ ९ आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः। कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः॥ १० वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक्। उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः॥ ११ त्रेतामुखे महाभाग प्राणान्मे हृदयात्त्रयी। विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः॥ १२ विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः। वैराजात् पुरुषाज्जाता य आत्माचारलक्षणाः॥ १३ गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम। वक्षःस्थानाद् वने वासो न्यासः शिर्षणि संस्थितः॥ १४ वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणीः। आसन् प्रकृतयो नॄणां नीचैः नीचोत्तमोत्तमाः॥ १५ शमो दमस्तपः शौचं संतोषः क्षान्तिरार्जवम्। मद्‍भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः॥ १६ तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः। स्थैर्यं ब्रह्मण्यतैश्वर्यं क्षत्रप्रकृतयस्त्विमाः॥ १७ आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम्। अतुष्टिरर्थोपचयैर्वैश्य प्रकृतयस्त्विमाः॥ १८ शुश्रूषणं द्विजगवां देवानां चाप्यमायया। तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः॥ १९ अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः। कामः क्रोधश्च तर्षश्च स्वभावोऽन्तेवसायिनाम्॥ २० अहिंसा सत्यमस्तेयमकामक्रोधलोभता। भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः॥ २१ द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः। वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः॥ २२ मेखलाजिनदण्डाक्ष ब्रह्मसूत्रकमण्डलून्। जटिलोऽधौतदद्वासोऽरक्तपीठः कुशान् दधत्॥ २३ स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः। न च्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि॥ २४ रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम्। अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदीं जपेत्॥ २५ अग्न्यर्काचार्यगोविप्र गुरुवृद्धसुराञ्छुचिः। समाहित उपासीत संध्ये च यतवाग्-जपन्॥ २६ आचार्यं मां विजानीयान्नावमन्येत कर्हिचित्। न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः॥ २७ सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत्। यच्चान्यदप्यनुज्ञातमुपयुञ्जीत संयतः॥ २८ शुश्रूषमाण आचार्यं सदोपासीत नीचवत्। यानशय्यासनस्थानैर्नातिदूरे कृताञ्जलिः॥ २९ एवंवृत्तो गुरुकुले वसेद् ‍भोगविवर्जितः। विद्या समाप्यते यावद् बिभ्रद् व्रतमखण्डितम्॥ ३० यद्यसौ छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम्। गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः॥ ३१ अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम्। अपृथग्धीरुपासीत ब्रह्मवर्चस्व्यकल्मषः॥ ३२ स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम्। प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत्॥ ३३ शौचमाचमनं स्नानं सन्ध्योपासनमार्जवम्। तीर्थसेवा जपोऽस्पृश्याभक्ष्यासंभाष्यवर्जनम्॥ ३४ सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनंदन। मद्‍भवः सर्वभूतेषु मनोवाक्कायसंयमः॥ ३५ एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन्। मद्‍भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः॥ ३६ अथानन्तरमावेक्ष्यन् यथा जिज्ञासितागमः। गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः॥ ३७ गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः। आश्रमादाश्रमं गच्छेन्नान्यथा मत्परश्चरेत्॥ ३८ गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम्। यवीयसीं तु वयसा तां सवर्णामनु क्रमात्॥ ३९ इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम्। प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम्॥ ४० प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम्। अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः॥ ४१ ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते। कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च॥ ४२॥ शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः। मय्यर्पितात्मा गृह एव तिष्ठ- न्नातिप्रसक्तः समुपैति शान्तिम्॥ ४३ समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम्। तानुद्धरिष्ये नचिरादापद्‍भ्यो नौरिवार्णवात्॥ ४४ सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः। आत्मानमात्मना धीरो यथा गजपतिर्गजान्॥ ४५ एवंविधो नरपतिर्विमानेनार्कवर्चसा। विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते॥ ४६ सीदन् विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत्। खड्गेन वाऽऽपदाक्रान्तो न श्ववृत्त्या कथञ्चन॥ ४७ वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययाऽऽपदि। चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन॥ ४८ शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम्। कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा॥ ४९ वेदाध्यायस्वधास्वाहा बल्यन्नाद्यैर्यथोदयम्। देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत्॥ ५० यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा। धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून्॥ ५१ कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्यपि। विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत्॥ ५२ पुत्रदाराप्तबंधूनां सङ्गमः पान्थसङ्गमः। अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा॥ ५३ इत्थं परिमृशन्मुक्तो गृहेष्वतिथिवद् वसन्। न गृहैरनुबध्येत निर्ममो निरहङ्कृतः॥ ५४ कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान्। तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत्॥ ५५ यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः। स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते॥ ५६ अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः। अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः॥ ५७ एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम्। अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः॥ ५८ ॥ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
Tamil