header_image
Home
Tamil

एकादशः स्कन्धः :: अथ एकादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ एकादशोऽध्यायः
बद्धमुक्तयोः साधूनां च लक्षणकथनं सद्भक्तिप्राप्त्युपायस्य च वर्णनम्
श्रीभगवानुवाच बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः। गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम्॥ १ शोकमोहौ सुखं दुःखं देहापत्तिश्च मायया। स्वप्नो यथाऽऽत्मनः ख्यातिः संसृतिर्न तु वास्तवी॥ २ विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्। मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते॥ ३ एकस्यैव ममांशस्य जीवस्यैव महामते। बन्धोऽस्याविद्ययानादिर्विद्यया च तथेतरः॥ ४ अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते। विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणि॥ ५ सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे। एकस्तयोः खादति पिप्पलान्न- मन्यो निरन्नोऽपि बलेन भूयान्॥ ६ आत्मानमन्यं च स वेद विद्वा- नपिप्पलादो न तु पिप्पलादः। योऽविद्यया युक् स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः॥ ७ देहस्थोऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः। अदेहस्थोऽपि देहस्थः कुमतिः स्वप्नदृग् यथा॥ ८ इन्द्रियैरिन्द्रियार्थेषु गुणैरपि गुणेषु च। गृह्यमाणेष्वहंकुर्यान्न विद्वान् यस्त्वविक्रियः॥ ९ दैवाधीने शरीरेऽस्मिन् गुणभाव्येन कर्मणा। वर्तमानोऽबुधस्तत्र कर्तास्मीति निबध्यते॥ १० एवं विरक्तः शयने आसनाटनमज्जने। दर्शनस्पर्शनघ्राण भोजनश्रवणादिषु॥ ११ न तथा बद्ध्यते विद्वांस्तत्र तत्रादयन् गुणान्। प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः॥ १२ वैशारद्येक्षयासङ्गशितया छिन्नसंशयः। प्रतिबुद्ध इव स्वप्नान्नानात्वाद् विनिवर्तते॥ १३ यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम्। वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः॥ १४ यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया। अर्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः॥ १५ न स्तुवीत न निन्देत कुर्वतः साध्वसाधु वा। वदतो गुणदोषाभ्यां वर्जितः समदृङ्मुनिः॥ १६ न कुर्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा। आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः॥ १७ शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि। श्रमस्तस्य श्रमफलो ह्यधेनुमिव रक्षतः॥ १८ गां दुग्धदोहामसतीं च भार्यां देहं पराधीनमसत्प्रजां च। वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी॥ १९ यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवप्राणनिरोधमस्य। लीलावतारेप्सितजन्म वा स्याद् वन्ध्यां गिरं तां बिभृयान्न धीरः॥ २० एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि। उपारमेत विरजं मनो मय्यर्प्य सर्वगे॥ २१ यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम्। मयि सर्वाणि कर्माणि निरपेक्षः समाचर॥ २२ श्रद्धालुर्मे कथाः शृण्वन् सुभद्रा लोकपावनीः। गायन्ननुस्मरन् कर्म जन्म चाभिनयन् मुहुः॥ २३ मदर्थे धर्मकामार्थानाचरन् मदपाश्रयः। लभते निश्चलां भक्तिं मय्युद्धव सनातने॥ २४ सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता। स वै मे दर्शितं सद्भिरञ्जसा विन्दते पदम्॥ २५ श्रीउद्धव उवाच। साधुस्तवोत्तमश्लोक मतः कीदृग्विधः प्रभो। भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भिरादृता॥ २६ एतन्मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो। प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम्॥ २७ त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः। अवतीर्णोऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः॥ २८ श्रीभगवानुवाच कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम्। सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः॥ २९ कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः। अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः॥ ३० अप्रमत्तो गभीरात्मा धृतिमाञ्जितषड्गुणः। अमानी मानदः कल्यो मैत्रः कारुणिकः कविः॥ ३१ आज्ञायैवं गुणान् दोषान् मयाऽऽदिष्टानपि स्वकान्। धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स सत्तमः॥३२ ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः। भजन्त्यनन्यभावेन ते मे भक्ततमा मताः॥ ३३ मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम्। परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम्॥ ३४ मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव। सर्वलाभोपहरणं दास्येनात्मनिवेदनम्॥ ३५ मज्जन्मकर्मकथनं मम पर्वानुमोदनम्। गीतताण्डववादित्रगोष्ठीभिर्मद्गृहोत्सवः॥ ३६ यात्रा बलिविधानं च सर्ववार्षिकपर्वसु। वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम्॥ ३७ ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः। उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि॥ ३८ सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः। गृहशुश्रूषणं मह्यं दासवद् यदमायया॥ ३९ अमानित्वमदम्भित्वं कृतस्यापरिकीर्तनम्। अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम्॥ ४० यद् यदिष्टतमं लोके यच्चातिप्रियमात्मनः। तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते॥ ४१ सूर्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम्। भूरात्मा सर्वभूतानि भद्र पूजापदानि मे॥ ४२ सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम्। आतिथ्येन तु विप्राग्र्ये गोष्वङ्ग यवसादिना॥ ४३ वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया। वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः॥ ४४ स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि। क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम्॥ ४५ धिष्ण्येष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः। युक्तं चतुर्भुजं शान्तं ध्यायन्नर्चेत् समाहितः॥ ४६ इष्टापूर्तेन मामेवं यो यजेत समाहितः। लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया॥ ४७ प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव। नोपायो विद्यते सध्रय्ङ् प्रायणं हि सतामहम्॥ ४८ अथैतत् परमं गुह्यं शृण्वतो यदुनन्दन। सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा॥ ४९ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे एकादशोऽध्यायः॥ ११ ॥
Tamil