header_image
Home
Tamil

एकादशः स्कन्धः :: अथ द्वादशोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ द्वादशोऽध्यायः
सत्सङ्गमहिमा कर्मानुष्ठानकर्मत्यागव्यवस्थावर्णनं च
श्रीभगवानुवाच न रोधयति मां योगो न साङ्ख्यं धर्म एव च। न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा॥ १ व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः। यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम्॥ २ सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः। गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः॥ ३ विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः। रजस्तमःप्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ॥ ४ बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः। वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः॥ ५ सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः। व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे॥ ६ ते नाधीतश्रुतिगणा नोपासितमहत्तमाः। अव्रतातप्ततपसः मत्सङ्गान्मामुपागताः॥ ७ केवलेन हि भावेन गोप्यो गावो नगा मृगाः। येऽन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा॥ ८ यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः। व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद् यत्नवानपि॥ ९ रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्यनुरक्तचित्ताः। विगाढभावेन न मे वियोग- तीव्राधयोऽन्यं ददृशुः सुखाय॥ १० तास्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण। क्षणार्धवत्ताः पुनरङ्ग तासां हीना मया कल्पसमा बभूवुः॥ ११ ता नाविदन् मय्यनुषङ्गबद्ध- धियः स्वमात्मानमदस्तथेदम्। यथा समाधौ मुनयोऽब्धितोये नद्यः प्रविष्टा इव नामरूपे॥ १२ मत्कामा रमणं जारमस्वरूपविदोऽबलाः। ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः॥ १३ तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम्। प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च॥ १४ मामेकमेव शरणमात्मानं सर्वदेहिनाम्। याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः॥ १५ श्रीउद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर। न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः॥ १६ श्रीभगवानुवाच स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः। मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः॥ १७ यथानलः खेऽनिलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः। अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिरियं हि वाणी॥ १८ एवं गदिः कर्म गतिर्विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश्च। सङ्कल्पविज्ञानमथाभिमानः सूत्रं रजःसत्त्वतमोविकारः॥ १९ अयं हि जीवस्त्रिवृदब्जयोनि- रव्यक्त एको वयसा स आद्यः। विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत्॥ २० यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थः। य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते॥ २१ द्वे अस्य बीजे शतमूलस्त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः। दशैकशाखो द्विसुपर्णनीड- स्त्रिवल्कलो द्विफलोऽर्कं प्रविष्टः॥ २२ अदन्ति चैकं फलमस्य गृध्रा ग्रामेचरा एकमरण्यवासाः। हंसा य एकं बहुरूपमिज्यै- र्मायामयं वेद स वेद वेदम्॥ २३ एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः। विवृश्च्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम्॥ २४ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे द्वादशोऽध्यायः॥ १२ ॥
Tamil