header_image
Home
Tamil

एकादशः स्कन्धः :: अथ दशमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: एकादशः स्कन्धः
अथ दशमोऽध्यायः
आत्मनः संसारबन्धो देहाध्यासादस्तीति बोधनं जगतो मिथ्यात्वनिरूपणं च
श्रीभगवानुवाच - मयोदितेष्ववहितः स्वधर्मेषु मदाश्रयः। वर्णाश्रमकुलाचारमकामात्मा समाचरेत्॥ १ अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम्। गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम्॥ २ सुप्तस्य विषयालोको ध्यायतो वा मनोरथः। नानात्मकत्वाद् विफलस्तथा भेदात्मधीर्गुणैः॥ ३ निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत्। जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम्॥ ४ यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित्। मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम्॥ ५ अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः। असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक्॥ ६ जायापत्यगृहक्षेत्र स्वजनद्रविणादिषु। उदासीनः समं पश्यन् सर्वेष्वर्थमिवात्मनः॥ ७ विलक्षणः स्थूलसूक्ष्माद् देहादात्मेक्षिता स्वदृक्। यथाग्निर्दारुणो दाह्याद् दाहकोऽन्यः प्रकाशकः॥ ८ निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान्। अन्तः प्रविष्ट आधत्त एवं देहगुणान् परः॥ ९ योऽसौ गुणैर्विरचितो देहोऽयं पुरुषस्य हि। संसारस्तन्निबन्धोऽयं पुंसो विद्याच्छिदात्मनः॥ १० तस्माज्जिज्ञासयाऽऽत्मानमात्मस्थं केवलं परम्। सङ्गम्य निरसेदेतद्वस्तुबुद्धिं यथाक्रमम्॥ ११ आचार्योऽरणिराद्यः स्यादन्तेवास्युत्तरारणिः। तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः॥ १२ वैशारदी सातिविशुद्धबुद्धि- र्धुनोति मायां गुणसम्प्रसूताम्। गुणांश्च सन्दह्य यदात्ममेतत् स्वयं च शाम्यत्यसमिद् यथाग्निः॥ १३ अथैषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः। नानात्वमथ नित्यत्वं लोककालागमात्मनाम्॥ १४ मन्यसे सर्वभावानां संस्था ह्यौत्पत्तिकी यथा। तत्तदाकृतिभेदेन जायते भिद्यते च धीः॥ १५ एवमप्यङ्ग सर्वेषां देहिनां देहयोगतः। कालावयवतः सन्ति भावा जन्मादयोऽसकृत्॥ १६ अत्रापि कर्मणां कर्तुरस्वातन्त्र्यं च लक्ष्यते। भोक्तुश्च दुःखसुखयोः को न्वर्थो विवशं भजेत्॥ १७ न देहिनां सुखं किञ्चिद् विद्यते विदुषामपि। तथा च दुःखं मूढानां वृथाहङ्करणं परम्॥ १८ यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः। तेऽप्यद्धा न विदुर्योगं मृत्युर्न प्रभवेद् यथा॥ १९ को न्वर्थः सुखयत्येनं कामो वा मृत्युरन्तिके। आघातं नीयमानस्य वध्यस्येव न तुष्टिदः॥ २० श्रुतं च दृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययैः। बह्वन्तरायकामत्वात् कृषिवच्चापि निष्फलम्॥ २१ अन्तरायैरविहितो यदि धर्मः स्वनुष्ठितः। तेनापि निर्जितं स्थानं यथा गच्छति तच्छृणु॥ २२ इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः। भुञ्जीत देववत्तत्र भोगान् दिव्यान् निजार्जितान्॥ २३ स्वपुण्योपचिते शुभ्रे विमान उपगीयते। गन्धर्वैर्विहरन् मध्ये देवीनां हृद्यवेषधृक्॥ २४ स्त्रीभिः कामगयानेन किङ्किणीजालमालिना। क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृतः॥ २५ तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते। क्षीणपुण्यः पतत्यर्वागनिच्छन् कालचालितः॥ २६ यद्यधर्मरतः सङ्गादसतां वाजितेन्द्रियः। कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः॥ २७ पशूनविधिनाऽऽलभ्य प्रेतभूतगणान् यजन्। नरकानवशो जन्तुर्गत्वा यात्युल्बणं तमः॥ २८ कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः। देहमाभजते तत्र किं सुखं मर्त्यधर्मिणः॥ २९ लोकानां लोकपालानां मद्भयं कल्पजीविनाम्। ब्रह्मणोऽपि भयं मत्तो द्विपरार्धपरायुषः॥ ३० गुणाः सृजन्ति कर्माणि गुणोऽनुसृजते गुणान्। जीवस्तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्यसौ॥ ३१ यावत् स्याद् गुणवैषम्यं तावन्नानात्वमात्मनः। नानात्वमात्मनो यावत् पारतन्त्र्यं तदैव हि॥ ३२ यावदस्यास्वतन्त्रत्वं तावदीश्वरतो भयम्। य एतत् समुपासीरंस्ते मुह्यन्ति शुचार्पिताः॥ ३३ काल आत्माऽऽगमो लोकः स्वभावो धर्म एव च। इति मां बहुधा प्राहुर्गुणव्यतिकरे सति॥ ३४ श्रीउद्धव उवाच - गुणेषु वर्तमानोऽपि देहजेष्वनपावृतः। गुणैर्न बध्यते देही बध्यते वा कथं विभो॥ ३५ कथं वर्तेत विहरेत् कैर्वा ज्ञायेत लक्षणैः। किं भुञ्जीतोत विसृजेच्छयीतासीत याति वा॥ ३६ एतदच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर। नित्यमुक्तो नित्यबद्ध एक एवेति मे भ्रमः॥ ३७ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् एकादशस्कन्धे भगवदुद्धवसंवादे दशमोऽध्यायः॥ १० ॥
Tamil