header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ सप्तसप्ततितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ सप्तसप्ततितमोऽध्यायः
भगवता सौभसहितस्य शाल्वस्य विनाशः
श्रीशुक उवाच - स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः। नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम्॥ 1 विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः। प्रतिहत्य प्रत्यविध्यन्नाराचैरष्टभिः स्मयन्॥ 2 चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत्। द्वावाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः॥ 3 गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम्। पेतुः समुद्रे सौभेयाः सर्वे संछिन्नकन्धराः॥ 4 एवं यदूनां शाल्वानां निघ्नतामितरेतरम्। युद्धं त्रिणवरात्रं तदभूत्तुमुलमुल्बणम्॥ 5 इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना। राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते॥ 6 कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम्। निमित्तान्यतिघोराणि पश्यन् द्वारवतीं ययौ॥ 7 आह चाहमिहायात आर्यमिश्राभिसङ्‌गतः। राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम॥ 8 वीक्ष्य तत् कदनं स्वानां निरूप्य पुररक्षणम्। सौभं च शाल्वराजं च दारुकं प्राह केशवः॥ 9 रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै। सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम्॥ 10 इत्युक्तश्चोदयामास रथमास्थाय दारुकः। विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम्॥ 11 शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः। प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे॥ 12 तामापतन्तीं नभसि महोल्कामिव रंहसा। भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्॥ 13 तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत्। अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः॥ 14 शाल्वः शौरेस्तु दोः सव्यं शार्ङ्‌गं शार्ङ्‌गधन्वनः। बिभेद न्यपतद्धस्तात् शार्ङ्‌गमासीत्तदद्‌भुतम्॥ 15 हाहाकारो महानासीद्‌ भूतानां तत्र पश्यताम्। विनद्य सौभराडुच्चैरिदमाह जनार्दनम्॥ 16 यत्त्वया मूढ नः सख्युर्भ्रातुर्भार्या हृतेक्षताम्। प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा॥ 17 तं त्वाद्य निशितैर्बाणैरपराजितमानिनम्। नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः॥ 18 श्रीभगवानुवाच - वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम्। पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः॥ 19 इत्युक्त्वा भगवाञ्छाल्वं गदया भीमवेगया। तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक्॥ 20 गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत। ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम्। देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन्॥ 21 कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल। बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः॥ 22 निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः। विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा॥ 23 कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः। शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः॥ 24 इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः। वसुदेवमिवानीय कृष्णं चेदमुवाच सः॥ 25 एष ते जनिता तातो यदर्थमिह जीवसि। वधिष्ये वीक्षतस्तेऽमुमीशश्चेत् पाहि बालिश॥ 26 एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः। उत्कृत्य शिर आदाय खस्थं सौभं समाविशत्॥ 27 ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुषङ्‌गतः। महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम्॥ 28 न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यदच्युतः। स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः॥ 29 एवं वदन्ति राजर्षे ऋषयः के च नान्विताः। यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत॥ 30 क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः। क्व चाखण्डितविज्ञानज्ञानैश्वर्यस्त्वखण्डितः ॥ 31 यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम्। लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः॥ 32 तं शस्त्रपूगैः प्रहरन्तमोजसा शाल्वं शरैः शौरिरमोघविक्रमः। विद्ध्वाच्छिनद्‌ वर्म धनुः शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह॥ 33 तत् कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा। विसृज्य तद्‌ भूतलमास्थितो गदां उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम्॥ 34 आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्‌गमद्‌भुतम्। वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः॥ 35 जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः। वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम्॥ 36 तस्मिन् निपतिते पापे सौभे च गदया हते। नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः। सखीनामपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात्॥ 37 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः॥ 77॥
Tamil