header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ षट्सप्ततितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ षट्सप्ततितमोऽध्यायः
शाल्वस्य यदुभिः सह युद्धम्
श्रीशुक उवाच - अथान्यदपि कृष्णस्य श्रृणु कर्माद्‌भुतं नृप। क्रीडानरशरीरस्य यथा सौभपतिर्हतः॥ 1 शिशुपालसखः शाल्वो रुक्मिण्युद्‌वाह आगतः। यदुभिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा॥ 2 शाल्वः प्रतिज्ञामकरोत् श्रृण्वतां सर्वभूभुजाम्। अयादवीं क्ष्मां करिष्ये पौरुषं मम पश्यत॥ 3 इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम्। आराधयामास नृपः पांसुमुष्टिं सकृद् ग्रसन्॥ 4 संवत्सरान्ते भगवानाशुतोष उमापतिः। वरेणच्छन्दयामास शाल्वं शरणमागतम्॥ 5 देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्। अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम्॥ 6 तथेति गिरिशादिष्टो मयः परपुरंजयः। पुरं निर्माय शाल्वाय प्रादात्सौभमयस्मयम्॥ 7 स लब्ध्वा कामगं यानं तमोधाम दुरासदम्। ययौ द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन्॥ 8 निरुद्ध्य सेनया शाल्वो महत्या भरतर्षभ। पुरीं बभञ्जोपवनान्युद्यानानि च सर्वशः॥ 9 सगोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः। विहारान् स विमानाग्र्यान्निपेतुः शस्त्रवृष्टयः॥ 10 शिला द्रुमाश्चाशनयः सर्पा आसारशर्कराः। प्रचण्डश्चक्रवातोऽभूद् रजसाऽऽच्छादिता दिशः॥ 11 इत्यर्द्यमाना सौभेन कृष्णस्य नगरी भृशम्। नाभ्यपद्यत शं राजन् त्रिपुरेण यथा मही॥ 12 प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः। मा भैष्टेत्यभ्यधाद्‌ वीरो रथारूढो महायशाः॥ 13 सात्यकिश्चारुदेष्णश्च साम्बोऽक्रूरः सहानुजः। हार्दिक्यो भानुविन्दश्च गदश्च शुकसारणौ॥ 14 अपरे च महेष्वासा रथयूथपयूथपाः। निर्ययुर्दंशिता गुप्ता रथेभाश्वपदातिभिः॥ 15 ततः प्रववृते युद्धं शाल्वानां यदुभिः सह। यथासुराणां विबुधैस्तुमुलं लोमहर्षणम्॥ 16 ताश्च सौभपतेर्माया दिव्यास्त्रै रुक्मिणीसुतः। क्षणेन नाशयामास नैशं तम इवोष्णगुः॥ 17 विव्याध पञ्चविंशत्या स्वर्णपुङ्खैरयोमुखैः। शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः॥ 18 शतेनाताडयच्छाल्वमेकैकेनास्य सैनिकान्। दशभिर्दशभिर्नेतॄन् वाहनानि त्रिभिस्त्रिभिः॥ 19 तदद्‌भुतं महत् कर्म प्रद्युम्नस्य महात्मनः। दृष्ट्वा तं पूजयामासुः सर्वे स्वपरसैनिकाः॥ 20 बहुरूपैकरूपं तद् दृश्यते न च दृश्यते। मायामयं मयकृतं दुर्विभाव्यं परैरभूत्॥ 21 क्वचिद्‌ भूमौ क्वचिद्‌ व्योम्नि गिरिमूर्ध्नि जले क्वचित्। अलातचक्रवद्‌ भ्राम्यत् सौभं तद् दुरवस्थितम्॥ 22 यत्र यत्रोपलक्ष्येत ससौभः सहसैनिकः। शाल्वस्ततस्ततोऽमुञ्चन् शरान् सात्वतयूथपाः॥ 23 शरैरग्न्यर्कसंस्पर्शैराशीविषदुरासदैः। पीड्यमानपुरानीकः शाल्वोऽमुह्यत् परेरितैः ॥ 24 शाल्वानीकपशस्त्रौघैर्वृष्णिवीरा भृशार्दिताः। न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः॥ 25 शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्राक्प्रपीडितः। आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली॥ 26 प्रद्युम्नं गदया शीर्णवक्षःस्थलमरिंदमम्। अपोवाह रणात् सूतो धर्मविद् दारुकात्मजः॥ 27 लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत्। अहो असाध्विदं सूत यद् रणान्मेऽपसर्पणम्॥ 28 न यदूनां कुले जातः श्रूयते रणविच्युतः। विना मत्क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात्॥ 29 किं नु वक्ष्येऽभिसङ्‌गम्य पितरौ रामकेशवौ। युद्धात् सम्यगपक्रान्तः पृष्टस्तत्रात्मनः क्षमम्॥ 30 व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः। क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे॥ 31 सारथिरुवाच - धर्मं विजानताऽऽयुष्मन् कृतमेतन्मया विभो। सूतः कृच्छ्रगतं रक्षेद् रथिनं सारथिं रथी॥ 32 एतद्‌ विदित्वा तु भवान् मयापोवाहितो रणात्। उपसृष्टः परेणेति मूर्च्छितो गदया हतः॥ 33 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे शाल्वयुद्धे षट्सप्ततितमोऽध्यायः॥ 76॥
Tamil