header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ पञ्चसप्ततितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ पञ्चसप्ततितमोऽध्यायः
राजसूयान्तेऽवभृथस्नानमहोत्सवः, मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च
श्रीराजोवाच - अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम्। सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः॥ 1 दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः। इति श्रुतं नो भगवन् तत्र कारणमुच्यताम्॥ 2 ऋषिरुवाच - पितामहस्य ते यज्ञे राजसूये महात्मनः। बान्धवाः परिचर्यायां तस्यासन् प्रेमबंधनाः॥ 3 भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः। सहदेवस्तु पूजायां नकुलो द्रव्यसाधने॥ 4 गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने। परिवेषणे द्रुपदजा कर्णो दाने महामनाः॥ 5 युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः। बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः॥ 6 निरूपिता महायज्ञे नानाकर्मसु ते तदा। प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः॥ 7 ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः। चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथस्नपनं द्युनद्याम्॥ 8 मृदङ्‌गशङ्खपणवधुन्धुर्यानकगोमुखाः। वादित्राणि विचित्राणि नेदुरावभृथोत्सवे॥ 9 नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः। वीणावेणुतलोन्नादस्तेषां स दिवमस्पृशत्॥ 10 चित्रध्वजपताकाग्रैरिभेन्द्रस्यन्दनार्वभिः। स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः॥ 11 यदुसृञ्जयकाम्बोजकुरुकेकयकोशलाः। कम्पयन्तो भुवं सैन्यैर्यजमानपुरःसराः॥ 12 सदस्यर्त्विग्द्‌विजश्रेष्ठा ब्रह्मघोषेण भूयसा। देवर्षिपितृगन्धर्वास्तुष्टुवुः पुष्पवर्षिणः॥ 13 स्वलंकृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः। विलिम्पन्त्योऽभिषिञ्चन्त्यो विजह्रुर्विविधै रसैः॥ 14 तैलगोरसगन्धोदहरिद्रासान्द्रकुंकुमैः। पुम्भिर्लिप्ताः प्रलिंपन्त्यो विजह्रुर्वारयोषितः॥ 15 गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् देव्यो यथा दिवि विमानवरैर्नृदेव्यः। ता मातुलेयसखिभिः परिषिच्यमानाः सव्रीडहासविकसद्वदना विरेजुः॥ 16 ता देवरानुत सखीन् सिषिचुर्दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः। औत्सुक्यमुक्तकबराच्च्यवमानमाल्याः क्षोभं दधुर्मलधियां रुचिरैर्विहारैः॥ 17 स सम्राड् रथमारूढः सदश्वं रुक्ममालिनम्। व्यरोचत स्वपत्‍नीभिः क्रियाभिः क्रतुराडिव॥ 18 पत्‍नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विजः। आचान्तं स्नापयाञ्चक्रुर्गङ्गायां सह कृष्णया॥ 19 देवदुन्दुभयो नेदुर्नरदुंदुभिभिः समम्। मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः॥ 20 सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः। महापातक्यपि यतः सद्यो मुच्येत किल्बिषात्॥ 21 अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः। ऋत्विक्सदस्यविप्रादीनानर्चाभरणाम्बरैः॥ 22 बन्धुज्ञातिनृपान् मित्रसुहृदोऽन्यांश्च सर्वशः। अभीक्ष्णं पूजयामास नारायणपरो नृपः॥ 23 सर्वे जनाः सुररुचो मणिकुण्डलस्रग् उष्णीषकञ्चुकदुकूलमहार्घ्यहाराः। नार्यश्च कुण्डलयुगालकवृन्दजुष्ट वक्त्रश्रियः कनकमेखलया विरेजुः॥ 24 अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः। ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः॥ 25 देवर्षिपितृभूतानि लोकपालाः सहानुगाः। पूजितास्तमनुज्ञाप्य स्वधामानि ययुर्नृप॥ 26 हरिदासस्य राजर्षे राजसूयमहोदयम्। नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा॥ 27 ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान्। प्रेम्णा निवारयामास कृष्णं च त्यागकातरः॥ 28 भगवानपि तत्राङ्‌ग न्यवात्सीत्तत्प्रियङ्करः। प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम्॥ 29 इत्थं राजा धर्मसुतो मनोरथमहार्णवम्। सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वरः॥ 30 एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम्। अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः॥ 31 यस्मिन् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीः नाना विभान्ति किल विश्वसृजोपकॢप्ताः। ताभिः पतीन् द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराडतप्यत्॥ 32 यस्मिस्तदा मधुपतेर्महिषीसहस्रं श्रोणीभरेण शनकैः क्वणदङ्‌घ्रिशोभम्। मध्ये सुचारु कुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ 33 सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट्। वृतोऽनुजैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा॥ 34 आसीनः काञ्चने साक्षादासने मघवानिव। पारमेष्ठ्यश्रिया जुष्टः स्तूयमानश्च वन्दिभिः॥ 35 तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप। किरीटमाली न्यविशदसिहस्तः क्षिपन् रुषा॥ 36 स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत्। जले च स्थलवद् भ्रान्त्या मयमायाविमोहितः॥ 37 जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे। निवार्यमाणा अप्यङ्‌ग राज्ञा कृष्णानुमोदिताः॥ 38 स व्रीडितोऽवाग्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम्। हाहेति शब्दः सुमहानभूत् सतां अजातशत्रुर्विमना इवाभवत्। बभूव तूष्णीं भगवान् भिवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद् दृशा॥ 39 एतत्तेऽभिहितं राजन् यत् पृष्टोऽहमिह त्वया। सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ॥ 40 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभङ्गो नाम पञ्चसप्ततितमोऽध्यायः॥ 75
Tamil