header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ सप्तषष्टितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ सप्तषष्टितमोऽध्यायः
रैवतके द्विविदवधः
श्रीराजोवाच - भुयोऽहं श्रोतुमिच्छामि रामस्याद्‌भुतकर्मणः। अनन्तस्याप्रमेयस्य यदन्यत् कृतवान् प्रभुः॥ 1 श्रीशुक उवाच - नरकस्य सखा कश्चिद् द्विविदो नाम वानरः। सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान्॥ 2 सख्युः सोऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम्। पुरग्रामाकरान् घोषानदहद् वह्निमुत्सृजन्॥ 3 क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत्। आनर्तान् सुतरामेव यत्रास्ते मित्रहा हरिः॥ 4 क्वचित् समुद्रमध्यस्थो दोर्भ्यामुत्क्षिप्य तज्जलम्। देशान् नागायुतप्राणो वेलाकूलानमज्जयत्॥ 5 आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन्। अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः॥ 6 पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोणीगुहासु सः। निक्षिप्य चाप्यधाच्छैलैः पेशस्क्कास्कारीव कीटकम्॥ 7 एवं देशान् विप्रकुर्वन् दूषयंश्च कुलस्त्रियः। श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ॥ 8 तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम्। सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम्॥ 9 गायन्तं वारुणीं पीत्वा मदविह्वललोचनम्। विभ्राजमानं वपुषा प्रभिन्नमिव वारणम्॥ 10 दुष्टः शाखामृगः शाखामारूढः कंपयन् द्रुमान्। चक्रे किलकिलाशब्दमात्मानं संप्रदर्शयन्॥ 11 तस्य धार्ष्ट्यं कपेर्वीक्ष्य तरुण्यो जातिचापलाः। हास्यप्रिया विजहसुर्बलदेवपरिग्रहाः॥ 12 ता हेलयामास कपिर्भ्रूक्षेपैः सम्मुखादिभिः। दर्शयन् स्वगुदं तासां रामस्य च निरीक्षितः॥ 13 तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः। स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः॥ 14 गृहीत्वा हेलयामास धूर्तस्तं कोपयन् हसन्। निर्भिद्य कलशं दुष्टो वासांस्यास्फालयद् बलम्॥ 15 कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः। तं तस्याविनयं दृष्ट्वा देशांश्च तदुपद्रुतान्॥ 16 क्रुद्धो मुसलमादत्त हलं चारिजिघांसया। द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना॥ 17 अभ्येत्य तरसा तेन बलं मूर्धन्यताडयत्। तं तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा॥ 18 प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम्। मुसलाहतमस्तिष्को विरेजे रक्तधारया॥ 19 गिरिर्यथा गैरिकया प्रहारं नानुचिन्तयन्। पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोजसा॥ 20 तेनाहनत् सुसङ्क्रुद्धस्तं बलः शतधाच्छिनत्। ततोऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत्॥ 21 एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः। आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद् वनम्॥ 22 ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः। तत् सर्वं चूर्णयामास लीलया मुसलायुधः॥ 23 स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः। आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत्॥ 24 यादवेन्द्रोऽपि तं दोर्भ्यां त्यक्त्वा मुसललाङ्गले। जत्रावभ्यर्दयत्क्रुद्धः सोऽपतद् रुधिरं वमन्॥ 25 चकम्पे तेन पतता सटङ्कः सवनस्पतिः। पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि॥ 26 जयशब्दो नमःशब्दः साधु साध्विति चाम्बरे। सुरसिद्धमुनीन्द्राणामासीत् कुसुमवर्षिणाम्॥ 27 एवं निहत्य द्विविदं जगद्व्यतिकरावहम्। संस्तूयमानो भगवाञ्जनैः स्वपुरमाविशत्॥ 28 इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विविदवधो नाम सप्तषष्टितमोऽध्यायः ॥ 67 ॥
Tamil