header_image
Home
Tamil

दशमः स्कन्धः[उत्तरार्धः] :: अथ अष्टषष्टितमोऽध्यायः


श्रीमद्भागवतमहापुराणम् :: दशमः स्कन्धः[उत्तरार्धः]
अथ अष्टषष्टितमोऽध्यायः
साम्बविवाहः, बलरामेण हस्तिनापुरकर्षणं च
श्रीशुक उवाच - दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः। स्वयंवरस्थामहरत् सांबो जाम्बवतीसुतः॥ १ कौरवाः कुपिता ऊचुः दुर्विनीतोऽयमर्भकः। कदर्थीकृत्य नः कन्यां अकामां अहरद् बलात्॥ २ बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः। येऽस्मत् प्रसादोपचितां दत्तां नो भुञ्जते महीम्॥ ३ निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः। भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः॥ ४ इति कर्णः शलो भूरिर्यज्ञकेतुः सुयोधनः। साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः॥ ५ दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः। प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः॥ ६ तं ते जिघृक्षवः क्रुद्धास्तिष्ठ तिष्ठेति भाषिणः। आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन्॥ ७ सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः। नामृष्यत् तदचिन्त्यार्भः सिंहः क्षुद्रमृगैरिव॥ ८ विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः। कर्णादीन् षड्रथान् वीरांस्तावद्‌भिर्युगपत् पृथक्॥ ९ चतुर्भिश्चतुरो वाहानेकैकेन च सारथीन्। रथिनश्च महेष्वासान् तस्य तत्तेऽभ्यपूजयन्॥ १० तं तु ते विरथं चक्रुः चत्वारश्चतुरो हयान्। एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम्॥ ११ तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि। कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन्॥ १२ तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः। कुरून् प्रत्युद्यमं चक्रुः उग्रसेनप्रचोदिताः॥ १३ सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान्। नैच्छत् कुरूणां वृष्णीनां कलिं कलिमलापहः॥ १४ जगाम हास्तिनपुरं रथेनादित्यवर्चसा। ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः॥ १५ गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः। उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया॥ १६ सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम्। दुर्योधनं च विधिवद् राममागतमब्रवीत्॥ १७ तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम्। तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः॥ १८ तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन्। तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम्॥ १९ बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम्। परस्परमथो रामो बभाषेऽविक्लवं वचः॥ २० उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः। तदव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम्॥ २१ यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम्। अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया॥ २२ वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं वचः। कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः॥ २३ अहो महच्चित्रमिदं कालगत्या दुरत्यया। आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम्॥ २४ एते यौनेन संबद्धाः सहशय्यासनाशनाः। वृष्णयस्तुल्यतां नीता अस्मद्दत्तनृपासनाः॥ २५ चामरव्यजने शङ्खमातपत्रं च पाण्डुरम्। किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया॥ २६ अलं यदूनां नरदेवलाञ्छनैः दातुः प्रतीपैः फणिनामिवामृतम्। येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत॥ २७ कथमिन्द्रोऽपि कुरुभिर्भीष्मद्रोणार्जुनादिभिः। अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः॥ २८ श्रीशुक उवाच - जन्मबन्धुश्रियोन्नद्धमदास्ते भरतर्षभ। आश्राव्य रामं दुर्वाच्यमसभ्याः पुरमाविशन्॥ २९ दृष्ट्वा कुरूणां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः। अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः॥ ३० नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः। तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा॥ ३१ अहो यदून् सुसंरब्धाम् कृष्णं च कुपितं शनैः। सान्त्वयित्वाहमेतेषां शममिच्छन्निहागतः॥ ३२ त इमे मन्दमतयः कलहाभिरताः खलाः। तं मामवज्ञाय मुहुर्दुर्भाषान् मानिनोऽब्रुवन्॥ ३३ नोग्रसेनः किल विभुर्भोजवृष्ण्यन्धकेश्वरः। शक्रादयो लोकपाला यस्यादेशानुवर्तिनः॥ ३४ सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्‌घ्रिपः। आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः॥ ३५ यस्य पादयुगं साक्षात् श्रीरुपास्तेऽखिलेश्वरी। स नार्हति किल श्रीशो नरदेवपरिच्छदान्॥ ३६ यस्याङ्‌घ्रिपङ्कजरजोऽखिललोकपालैः मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम्। ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व॥ ३७ भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल। उपानहः किल वयं स्वयं तु कुरवः शिरः॥ ३८ अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम्। असंबद्धा गिरो रुक्षाः कः सहेतानुशासीता॥ ३९ अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षितः। गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम्॥ ४० लाङ्गलाग्रेण नगरमुद्विदार्य गजाह्वयम्। विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः॥ ४१ जलयानमिवाघूर्णं गङ्गायां नगरं पतत्। आकृष्यमाणमालोक्य कौरवाः जातसंभ्रमाः॥ ४२ तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः। सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम्॥ ४३ राम रामाखिलाधार प्रभावं न विदाम ते। मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम्॥ ४४ स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः। लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि॥ ४५ त्वमेव मूर्ध्नीदमनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन्। अन्ते च यः स्वात्मनि रुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः॥ ४६ कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात्। बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः॥ ४७ नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय। विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः॥ ४८ श्रीशुक उवाच - एवं प्रपन्नैः संविग्नैः वेपमानायनैर्बलः। प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ॥ ४९ दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान्। ददौ च द्वादशशतान्ययुतानि तुरङ्गमान्॥ ५० रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम्। दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः॥ ५१ प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः। ससुतः सस्नुषः प्रायात् सुहृद्‌भिरभिनन्दितः॥ ५२ ततः प्रविष्टः स्वपुरं हलायुधः समेत्य बन्धूननुरक्तचेतसः। शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम्॥ ५३ अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम्। समुन्नतं दक्षिणतो गङ्गायां अनुदृश्यते॥ ५४ इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे हस्तिनपुरकर्षणरूपसंकर्षणविजयो नाम अष्टषष्टितमोऽध्यायः ॥ ६८ ॥
Tamil